गर्गसंहिता/खण्डः २ (वृन्दावनखण्डः)/अध्यायः ११

विकिस्रोतः तः

धेनुकासुरमोक्षः -

श्रीनारद उवाच -
एकदा सबलः कृष्णश्चारयन् गा मनोहराः ।
गोपालैः सहितः सर्वैर्ययौ तालवनं नवम् ॥ १ ॥
धेनुकस्य भयाद्‌गोपा न गतास्ते वनान्तरम् ।
कृष्णोऽपि न गतस्तत्र बल एको विवेश ह ॥ २ ॥
नीलांबरं कटौ बद्ध्वा बलदेवो महाबलः ।
परिपक्वफलार्थं हि तद्वने विचचार ह ॥ ३ ॥
बाहुभ्यां कंपयन् तालान् फलसंघं निपातयन् ।
गर्जंश्च निर्भयः साक्षादनन्तोऽनन्तविक्रमः ॥ ४ ॥
फलानां पततां शब्दं श्रुत्वा क्रोधावृतः खरः ।
मध्याह्ने स्वापकृद्दुष्टो भीमः कंससखो बली ॥ ५ ॥
आययौ संमुखे योद्धुं बलदेवस्य धेनुकः ।
बलं पश्चिमपादाभ्यां निहत्योरसि सत्वरम् ॥ ६ ॥
चकार खरशब्दं स्वं परिधावन् मुहुर्मुहुः ।
गृहीत्वा धेनुकं शीघ्रं बलः पश्चिमपादयोः ॥ ७ ॥
चिक्षेप तालवृक्षे च हस्तेनैकेन लीलया ।
तेन भग्नश्च तालोऽपि तालान्पार्श्वस्थितान् बहून् ॥ ८ ॥
पातयामास राजेन्द्र तदद्‌भुतमिवाभवत् ।
पुनरुत्थाय दैत्येंद्रो बलं जग्राह रोषतः ॥ ९ ॥
योजनं नोदयामास गजं प्रति गजो यथा ।
गृहीत्वा तं बलः सद्यो भ्रामयित्त्वाऽथ धेनुकम् ॥ १० ॥
भूपृष्ठे पोथयामास मूर्छितो भग्नमस्तकः ।
क्षणेन पुनरुत्थाय क्रोधसंयुक्तविग्रहः ॥ ११ ॥
मूर्ध्नि कृत्वा चतुःशृङ्गं धृत्वा रूपं भयंकरम् ।
गोपान् विद्रावयामास शृङ्गैस्तीक्ष्णैर्भयङ्करैः ॥ १२ ॥
अग्रे पलायितान् गोपान् दुद्रावाशु मदोत्कटः ।
श्रीदामा तं च दंडेन सुबलो मुष्टिना तथा ॥ १३ ॥
स्तोकः पाशेन तं दैत्यं स तताड महाबलम् ।
क्षेपणेनार्जुनोंऽशुश्च दैत्यं लत्तिकया खरम् ॥ १४ ॥
विशालर्षभ एत्याशु पादेन स्वबलेन च ।
तेजस्वी ह्यर्धचंद्रेण देवप्रस्थश्चपेटकैः ॥ १५ ॥
वरूथपः कंदुकेन संतताड महाखरम् ।
अथ कृष्णोऽपि तं नीत्वा हस्ताभ्यां धेनुकासुरम् ॥ १६ ॥
भ्रामयित्वाऽऽशु चोक्षेप गिरिगोवर्धनोपरि ।
श्रीकृष्णस्य प्रहारेण मूर्छितो घटिकाद्वयम् ॥ १७ ॥
पुनरुत्थाय स्वतुनुं विधुन्वन् दारयन्मुखम् ।
शृङ्गाभ्यां श्रीहरिं नीत्वा धावन्दैत्यो नभोगतः ॥ १८ ॥
चकार तेन खे युद्धमूर्ध्वं वै लक्षयोजनम् ।
गृहीत्वा धेनुकं दैत्यं श्रीकृष्णो भगवान्स्वयम् ॥ १९ ॥
चिक्षेपाधो भूमिमध्ये चूर्णितास्थिः स मूर्च्छितः ।
पुनरुत्थाय शृङ्गाभ्यां नादं कृत्वातिभैरवम् ॥ २० ॥
गोवर्धनं समुत्पाट्य श्रीकृष्णे प्राणितोत्खरः ।
गिरिं गृहीत्वा श्रीकृष्णः प्राक्षिपत्तस्य मस्तके ॥ २१ ॥
देत्यो गिरिं गृहीत्वाऽथ श्रीकृष्णे प्राहिणोद्‌बली ।
कृष्णो गोवर्धनं नीत्वा पूर्वस्थाने समाक्षिपत् ॥ २२ ॥
पुनर्धावन् महादैत्यः शृङ्गाभ्यां दारयन्भुवम् ।
बलं पश्चिमपादाभ्यां ताडयित्वा जगर्ज ह ॥ २३ ॥
ननाद तेन ब्रह्मांडं प्रैजद्‌भूखंडमंडलम् ।
हस्ताभ्यां संगृहीत्वा तं बलदेवो महाबलः ॥ २४ ॥
भूपृष्ठे पोथयामास मूर्च्छितं भग्नमस्तकम् ।
पुनस्तताड तं दैत्यं मुष्टिना ह्यचुताग्रजः ॥ २५ ॥
तेन मुष्टिप्रहारेण सद्यो वै निधनं गतः ।
तदेव ववृषुर्देवाः पुष्पैर्नन्दनसंभवैः ॥ २६ ॥
देहाद्‌विनिर्गतः सोऽपि श्यामसुन्दरविग्रहः ।
स्रग्वी पीतांबरो देवो वनमालाविभूषितः ॥ २७ ॥
लक्षपार्षदसंयुक्तः सहस्रध्वजशोभितः ।
सहस्रचक्रध्वनिभृद्धयायुतसमन्वितः ॥ २८ ॥
लक्षचामरशोभाढ्योऽरुणवर्णोऽतिरत्‍नभृत् ।
दिव्ययोजनविस्तीर्णो मनोयायी मनोहरः ॥ २९ ॥
किंकिणीजालसंयुक्तो घण्टामंजीरसंयुतः ।
हरिं प्रदक्षिणीकृत्य सबलं दिव्यरूपधृक् ॥ ३० ॥
दिव्यं रथं समारुह्य द्योतयन्मंडलं दिशाम् ।
जगाम दैत्यो हे राजन् गोलोकं कंप्रकृतेः परम् ॥ ३१ ॥
श्रीकृष्णो धेनुकं हत्वा सबलो बालकैः सह ।
तद्यशस्तु प्रगायद्‌भिर्बभौ गोकुलगोगणैः ॥ ३२ ॥
राजोवाच -
मुने मुक्तिं कथं प्राप्तः पूर्वं को धेनुकासुरः ।
कथं खरत्वमापन्न एतन्मे ब्रूहि तत्त्वतः ॥ ३३ ॥
श्रीनारद उवाच वैरोचनेर्बलेः पुत्रो नाम्ना साहसिको बली ।
नारीणां दशसाहस्रै रेमे वै गन्धमादने ॥ ३४ ॥
वादित्राणां नूपुराणां शब्दोऽभूत्तद्वने महान् ।
गुहायामास्थितस्यापि श्रीकृष्णं स्मरतो मुनेः ॥ ३५ ॥
दुर्वाससोऽथ तेनापि ध्यानभङ्गो बभूव ह ।
निर्गतः पादुकाऽऽरूढो दुर्वासाः कृशविग्रहः ॥ ३६ ॥
दीर्घश्मश्रुर्यष्टिधरः क्रोधपुंजानलद्युतिः ।
यस्य शापाद्विश्वमिदं कंपते स जगाद ह ॥ ३७ ॥
दुर्वासा उवाच -
उत्तिष्ठ गर्दभाकार गर्दभो भव दुर्मते ।
वर्षाणां तु चतुर्लक्षं व्यतीते भारते पुनः ॥ ३८ ॥
माथुरे मंडले दिव्ये पुण्ये तालवने वने ।
बलदेवस्य हस्तेन मुक्तिस्ते भविताऽसुर ॥ ३९ ॥
नारद उवाच -
तस्माद्‌बलस्य हस्तेन श्रीकृष्णस्तं जघान ह ।
प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ ४० ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे धेनुकासुरमोक्षो नाम एकादशोऽध्यायः ॥ ११ ॥