गर्गसंहिता/खण्डः २ (वृन्दावनखण्डः)/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search

ब्रह्मणः कृष्णस्तुतिः -

ब्रह्मोवाच -
कृष्णाय मेघवपुषे चपलाम्बराय
     पियूषमिष्टवचनाय परात्पराय ।
वंशीधराय शिखिचंद्रिकयान्विताय
     देवाय भ्रातृसहिताय नमोऽस्तु तस्मै ॥ १ ॥
कृष्णस्तु साक्षात्पुरुषोतमः स्वयं
     पूर्णः परेशः प्रकृतेः परो हरिः ।
यस्यावतारांशकला वयं सुरा
     सृजाम विश्वं क्रमतोऽस्य शक्तिभिः ॥ २ ॥
स त्वं साक्षात्कृष्णचन्द्रावतारो
     नन्दस्यापि पुत्रतामागतः कौ ।
वृन्दारण्ये गोपवेशेन वत्सान्
     गोपैर्मुख्यैश्चारयन् भ्राजसे वै ॥ ३ ॥
हरिं कोटिकन्दर्पलीलाभिरामं
     स्फुरत्कौस्तुभं श्यामलं पीतवस्त्रम् ।
व्रजेशं तु वंशीधरं राधिकेशं
     परं सुन्दरं तं निकुंजे नमामि ॥ ४ ॥
तं कृष्णं भज हरिमादिदेवमस्मिन्
     क्षेत्रज्ञं कमिव विलिप्तमेघमेव ।
स्वच्छाङ्‌गं परमधियाज्ञचैत्यरूपं
     भक्त्याद्यैर्विशदविरागभावसंघैः ॥ ५ ॥
यावन्मनश्च रजसा प्रबलेन विद्वन्
     संकल्प एव तु विकल्पक एव तावत् ।
ताभ्यां भवेन्मनसिजस्त्वभिमानयोग-
     स्तेनापि बुद्धिविकृतिं क्रमतः प्रयान्ति ॥ ६ ॥
विद्युद्‌द्युतिस्त्वृतुगुणो जलमध्यरेखा
     भूतोल्मुकः कपटपान्थरतिर्यथा च ।
इत्थं तथाऽस्य जगतस्तु सुखं मृषेति
     दुःखावृतं विषयघूर्णमलातचक्रम् ॥ ७ ॥
वृक्षा जलेन चलतापि चला इवात्र
     नेत्रेण भूरिचलितेन चलेव भूश्च ।
एवं गुणः प्रकृतिजैर्भ्रमतो जनस्थं
     सत्यं वदेद्‌गुणसुखादिदमेव कृष्ण ॥ ८ ॥
दुःखं सुखञ्च मनसा प्रभवञ्च सुप्ते
     मिथ्या भवेत्पुनरहो भुवि जागरेऽस्य ।
इत्थं विवेकघटितस्य जनस्य सर्वं
     स्वप्नभ्रमादृतजगत्सततं भवेद्धि ॥ ९ ॥
ज्ञानी विसृज्य ममतामभिमानयोगं
     वैराग्यभावरसिकः सततं निरीहः ।
दीपेन दीपकशतञ्च यथा प्रजातं
     पश्येत् तथाऽऽत्मविभवं भुवि चैकतत्त्वम् ॥ १० ॥
भक्तो भजेदजपतिं हृदि वासुदेवं
     निर्धूमवह्निरिव मुक्तगुणस्वभावः ।
पश्यन् घटेषु सजलेषु यथेन्दुमेकं
     एतादृशः परमहंसवरः कृतार्थः ॥ ११ ॥
स्तुवन्ति वेदाः सततञ्च यं सदा
     हरेर्महिम्नः किल षोडशीं कलाम् ।
कदापि जानन्ति न ते त्रिलोके
     वक्तुं गुणांस्तस्य जनोऽस्ति कः परः ॥ १२ ॥
वक्त्रैश्चतुर्भिस्त्वहमेव देवः
     श्रीपञ्चवक्त्रः किल पञ्चवक्त्रैः ।
सहस्रशीर्षास्तु सहस्रवक्त्रैः
     य स्तौति सेवां कुरुते च तस्य ॥ १३ ॥
विष्णुश्च वैकुण्ठनिवासकृच्च
     क्षिरोदवासी हरिरेव साक्षात् ।
नारायणो धर्मसुतस्तथापि
     गोलोकनाथं भजते भवन्तम् ॥ १४ ॥
अहोऽतिधन्यो महिमा मुरारे-
     र्जानन्ति भूमौ मुनयो न मानवाः ।
सुरासुरा वा मनवो बुधाः पुनः
     स्वप्नेऽपि पश्यन्ति न तत्पदद्वयम् ॥ १५ ॥
वरं हरिं गुणाकरं सुमुक्तिदं परात्परम् ।
रमेश्वरं गुणेश्वरं व्रजेश्वरं नमाम्यहम् ॥ १६ ॥
ताम्बूलसुन्दरमुखं मधुरं ब्रुवन्तं
     बिम्बाधरं स्मितयुतं सितकुन्ददन्तम् ।
नीलालकावृतकपोलमनोहराभं
     वन्दे चलत्कनककुण्डलमण्डनार्हम् ॥ १७ ॥
सुन्दरं तु तव रूपमेव हि
     मन्मथस्य मनसो हरं परम्
आविरस्तु मम नेत्रयोः सदा
     श्यामलं मकरकुण्डलावृतम् ॥ १८ ॥
वैकुण्ठलीलाप्रवरं मनोहरं
     नमस्कृतं देवगणैः परं वरम् ।
गोपाललीलाभियुतं भजाम्यहं
     गोलोकनाथं शिरसा नमाम्यहम् ॥ १९ ॥
युक्तं वसन्तकलकण्ठविहंगमैश्च
     सौगन्धिकं त्वरणपल्लवशाखिसंगम् ।
वृन्दावनं सुधितधीरसमीरलीलं
     गच्छन् हरिर्जयति पातु सदैव भक्तान् ॥ २० ॥
हरति कमलमानं लोलमुक्ताभिमानं
     धरणिरसिकदानं कामदेवस्य बाणम् ।
श्रवणविदितयानं नेत्रयुग्मप्रयाणं
     भज यदुत समक्षं दानदक्षं कटाक्षम् ॥ २१ ॥
शरच्चन्द्राकारं नखमणिसमूहं सुखकरं
     सुरक्तं हृत्पूर्णं प्रकटिततमःखण्डनकरम् ।
भजेऽहं ब्रह्माण्डेसकलनरपापाभिदलनं
     हरेर्विष्णोर्देवैर्दिवि भरतखण्डे स्तुतमलम् ॥ २२ ॥
महापद्मे किं वा परिधिरिव चाभाति सततं
     कदादित्यस्फूर्जद्‌रथचरण इत्थं ध्वनिधरः ।
यथा न्यस्तं चक्रं शतकिरणयुक्तं तु हरिणा
     स्फुरच्छ्रीमञ्जीरं हरिचरणपद्मे त्वधिगतम् ॥ २३ ॥
कट्यां पीताम्बरं दिव्यं क्षुद्रघण्टिकयाऽन्वितम् ।
भजाम्यहं चित्तहरं कृष्णस्याक्लिष्टकर्मणः ॥ २४ ॥
भजे कृष्णक्रोडे भृगुमुनिपदं श्रीगृहमलं
     तथा श्रीवत्साङ्कं निकषरुचियुक्तं द्युतिपरम् ।
गले हीराहारान् कनकमणिमुक्तावलिधरान्
     स्फुरत् ताराकारान् भ्रमरवलिभारान् ध्वनिकरान् ॥ २५ ॥
वंशीविभूषितमलं द्विजदानशीलं
     सिंद्रूरवर्णमतिकीचकरावलीलम् ।
हेमांगुलीयनिकरं नखचंद्रयुक्तं
     हस्तद्वयं स्मर कदम्बसुगन्धपृक्तम् ॥ २६ ॥
शनैश्चलन् मानसराजहंस-
     ग्रीवाकृतौ कन्धर उच्चदेशे ।
कादम्बिनीमानहरौ करौ च
     भजामि नित्यं हरिकाकपक्षौ ॥ २७ ॥
कलदर्पणवद्‌विशदं सुखदं
     नवयौवनरूपधरं नृपतिम् ।
मणिकुण्डलकुन्तलशालिरतिं
     भज गण्डयुगं रविचन्द्ररुचिम् ॥ २८ ॥
खचितकनकमुक्ता रक्तवैदूर्यवासं
     मदनवदनलीला सर्वसौन्दर्यरासम् ।
अरुणविधुसकाशं कोटिसूर्यप्रकाशं
     घटितशिखिसुवीटं नौमि विष्णोः किरीटम् ॥ २९ ॥
यद्‌द्वारिदेशे न गतिर्गुहेन्द्र
     गणेशतारीरेशदिवाकराणाम् ।
आज्ञां विना यान्ति न कुञ्जमण्डलं
     तं कृष्णचन्द्रं जगदीश्वरं भजे ॥ ३० ॥
(अनुष्टुप्)
इति कृत्वा स्तुतिं ब्रह्मा श्रीकृष्णस्य महात्मनः ।
पुनः कृताञ्जलिर्भूत्वा स्वविज्ञप्तिं चकार ह ॥ ३१ ॥
अपराधं तु पुत्रस्य मातृवत्त्वं क्षमस्व च ।
अहं त्वन्नाभिकमलात्सम्भवोऽहं जगत्पते ॥ ३२ ॥
काहं लोकपतिः क्व त्वं कोटिब्रह्माण्डनायकः ।
तस्माद्‌व्रजपते देव रक्ष मां मधुसूदन ॥ ३३ ॥
मायया यस्य मुह्यन्ति देवदैत्यनरादयः ।
स्वमायया तन्मोहाय मूर्खोऽहं ह्युद्यतोऽभवम् ॥ ३४ ॥
नारायणस्त्वं गोविन्द नाहं नारायणो हरे ।
ब्रह्माण्डं त्वं विनिर्माय शेषे नारायणः पुरा ॥ ३५ ॥
यस्य श्रीब्रह्मणि धाम्नि प्राणं त्यक्त्वा तु योगिनः ।
यत्र यास्यन्ति तस्मिंस्तु सकुला पूतना गता ॥ ३६ ॥
वत्सानां वत्सपानाञ्च कृत्वा रूपाणि माधव ।
विचचार वने त्वं तु ह्यपराधान्मम प्रभो ॥ ३७ ॥
तस्मात्क्षमस्व गोविन्द प्रसीद त्वं ममोपरि ।
अगणय्यापराधं मे सुतोपरि पिता यथा ॥ ३८ ॥
त्वदभक्ता रता ज्ञाने तेषां क्लेशो विशिष्यते ।
परिश्रमात्कर्षकाणां यथा क्षेत्रे तुषार्थिनाम् ॥ ३९ ॥
त्वद्‌भक्तिभावे निरता बहवस्त्वद्‌गतिं गताः ।
योगिनो मुनयश्चैव तथा ये व्रजवासिनः ॥ ४० ॥
द्विधा रतिर्भवेद्वरा श्रुताच्च दर्शनाच्च वा ।
अहो हरे तु मायया बभूव नैव मे रतिः ॥ ४१ ॥
इत्युक्त्वाऽश्रुमुखो भूत्वा नत्वा तत्पादपंकजौ ।
पुनराह विधिः कृष्णं भक्त्या सर्वं क्षमापयन् ॥ ४२ ॥
घोषेषु वासिनामेषां भूत्वाऽहं त्वत्पदाम्बुजम् ।
यदा भजेयं सुगतिस्तदा भूयान्न चान्यथा ॥ ४३ ॥
वयं तु गोपदेहेषु संस्थिताश्च शिवादयः ।
सकृत्कृष्णं तु पश्यन्तस्तस्माद्धन्याश्च भारते ॥ ४४ ॥
अहोभाग्यं तु कृष्णस्य मातापित्रोस्तव प्रभो ।
तथा च गोपगोपीनां पूर्णस्त्वं दृश्यसे व्रजे ॥ ४५ ॥
मुक्ताहारः सर्वविश्वोपकारः
     सर्वाधारः पातु मां विश्वकारः ।
लीलागारं सूरिकन्याविहारः
     क्रीडापारः कृष्णचन्द्रावतारः ॥ ४६ ॥
श्रीकृष्ण वृष्णिकुलपुष्कर नन्दपुत्र
     राधापते मदनमोहन देवदेव ।
संमोहितं व्रजपते भुवि तेऽजया मां
     गोविन्द गोकुलपते परिपाहि पाहि ॥ ४७ ॥
करोति यः कृष्णहरेः प्रदक्षिणां
     भवेज्ज्गत्तीर्थफलं च तस्य तु ।
ते कृष्णलोकं सुखदं परात्परं
     गोलोकलोकं प्रवरं गमिष्यति ॥ ४८ ॥
श्रीनारद उवाच -
इत्यभिष्टूय गोविन्दं श्रीमद्‌वृन्दावनेश्वरम् ।
नत्वा त्रिवारं लोकेशश्चकार तु प्रदक्षिणम् ॥ ४९ ॥
तत्र चालक्षितो भूत्वा नेत्रेणाज्ञां ददौ हरिः ।
पुनः प्रणम्य स्वं लोकमात्मभूः प्रत्यपद्यत ॥ ५१ ॥
अथ कृष्णो वनाच्छीघ्रमानयामास वत्सकान् ।
यत्रापि पुलिने राजन् गोपानां राजमंडली ॥ ५२ ॥
गोपार्भकाश्च श्रीकृष्णं वत्सैः सार्धं समागतम् ।
क्षणार्धं मेनिरे वीक्ष्य कृष्णमायाविमोहिताः ॥ ५३ ॥
त ऊचुर्वत्सकैः कृष्ण त्वरं त्वं तु समागतः ।
कुरुष्व भोजनं चात्र केनापि न कृतं प्रभो ॥ ५४ ॥
ततश्च विहसन् कृष्णोऽभ्यवहृत्यार्भकैः सह ।
दर्शयामास सर्वेभ्यश्चर्माजगरमेव च ॥ ५५ ॥
सायंकाले सरामस्तु कृष्णो गोपैः परावृतः ।
अग्रे कृत्वा वत्सवृन्दं ह्याजगाम शनैर्व्रजम् ॥ ५६ ॥
गोवत्सकैः सितसितासितपीतवर्णै
     रक्तादिधूम्रहरितैर्बहुशीलरूपैः ।
गोपालमण्डलगतं व्रजपालपुत्रं
     वन्दे वनात् सुखदगोष्ठकमाव्रजन्तम् ॥ ५७ ॥
आनन्दो गोपिकानां तु ह्यासीत्कृष्णस्य दर्शने ।
यासां येन विना राजन् क्षणो युगसमोऽभवत् ॥ ५८ ॥
कृत्वा गोष्ठे पृथग्वत्सान् बालाः स्वं स्वं गृहं गताः ।
जगुश्चाघासुरवधमात्मनो रक्षणं हरे ॥ ५९ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे ब्रह्मस्तुतिः नाम नवमोऽध्यायः ॥ ९ ॥