गर्गसंहिता/खण्डः २ (वृन्दावनखण्डः)/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

अघासुरस्य पूर्वजन्मवृत्तः तथा मोक्षः -

एकदा बालकैः साकं गोवत्सांश्चारयन् हरिः ।
कालिन्दीनिकटे रम्ये बालक्रीडां चकार ह ॥ १ ॥
अघासुरो नाम महान् दैत्यस्तत्र स्थितोऽभवत् ।
क्रोशदीर्घं वपुः कृत्वा प्रसार्य मुखमंडलम् ॥ २ ॥
दूराद्यं पर्वताकारं वीक्ष्य वृन्दावने वने ।
गोपा जग्मुर्मुखे तस्य वत्सैः कृत्वांजलिध्वनिम् ॥ ३ ॥
तद्‌रक्षार्थं च सबलः तन्मुखे प्राविशद्धरिः ।
निगीर्णेषु सवत्सेषु बालेषु त्वहिरूपिणा ॥ ४ ॥
हाशब्दोऽभूत्सुराणां तु दैत्यानां हर्ष एव हि ।
कृष्णो वपुः स्वं वैराजं ततानाघोदरे ततः ॥ ५ ॥
तस्य संरोधगाः प्राणाः शिरोप् भित्वा विनिर्गताः ।
तन्मुखान्निर्गतः कृष्णो बालैर्वत्सैश्च मैथिल ॥ ६ ॥
सवत्सकान् शिशून् दृष्ट्वा जीवयामास माधवः ।
तज्ज्योतिः श्रीघनश्यामे लीनं जातं तडिद्यथा ॥ ७ ॥
तदैव ववृषुर्देवा पुष्पवर्षाणि पार्थिव ।
एवं श्रुत्वा मुनेर्वाक्यं मैथिलो वाक्यमब्रवीत् ॥ ८ ॥
कोऽयं दैत्यः पूर्वकाले श्रीकृष्णे लीनतां गतः ।
अहो वैरानुबन्धेन शीघ्रं दैत्यो हरिं गतः ॥ ९ ॥
श्रीनारद उवाच -
शंखासुरसुतो राजन् अघो नाम महाबलः ।
युवातिसुन्दरः साक्षात् कामदेव इवापरः ॥ १० ॥
अष्टावक्रं मुनिं यान्तं विरूपं मलयाचले ।
दृष्ट्वा जहास तमघः कुरूपोऽयमिति ब्रुवन् ॥ ११ ॥
तं शशाप महादुष्टं त्वं सर्पो भव दुर्मते ।
कुरूपो वक्रगा जातिः सर्पाणां भूमिमंडले ॥ १२ ॥
तत्पादयोर्निपतितं दैत्यं दीनं गतस्मयम् ।
दृष्ट्वा प्रसन्नः स मुनिर्वरं तस्मै ददौ पुनः ॥ १३ ॥
अष्टावक्र उवाच -
कोटिकन्दर्पलावण्यः श्रीकृष्णस्तु तवोदरे ।
यदाऽऽगच्छेत्सर्परूपात्तदा मुक्तिर्भविष्यति ॥ १४ ॥
श्रीनारद उवाच -
अष्टावक्रस्य शापेन सर्पो भूत्वा ह्यघासुरः ।
तद्‌वरात्परमं मोक्षं गतो देवैश्च दुर्लभम् ॥ १५ ॥
वत्साद्‌बकमुखान्मुक्तं ततो मुक्तं ह्यघासुरात् ।
श्रुत्वा कतिदिनैः कृष्णं यशोदाऽभूद्‌भयातुरा ॥ १६ ॥
कलावतीं रोहिणीं च गोपीगोपान् वयोऽधिकान् ।
वृषभानुवरं गोपं नन्दराजं व्रजेश्वरम् ॥ १७ ॥
नवोपनन्दान्नन्दाश्च वृषभानून् प्रजेश्वरान् ।
समाहूय तदग्रे च वचः प्राह यशोमती ॥ १८ ॥
यशोदोवाच -
किं करोमि क्व गच्छामि कल्याणं मे कथं भवेत् ।
मत्सुते बहवोऽरिष्टा आगच्छन्ति क्षणे क्षणे ॥ १९ ॥
पूर्वं महावनं त्यक्त्वा वृन्दारण्ये गता वयम् ।
एतत्त्यक्त्वा क्व यास्यामो देशे वदत निर्भये ॥ २० ॥
चंचलोऽयं बालको मे क्रीडन्दूरे प्रयाति हि ।
बालकाश्चंचलाः सर्वे न मन्यन्ते वचो मम ॥ २१ ॥
बकासुरश्च मे बालं तीक्ष्णतुंडोऽग्रसद्‌बली ।
तस्मान्मुक्तन्तु जग्राहार्भकैर्दीनमघासुरः ॥ २२ ॥
वत्सासुरस्तज्जिघांसुः सोऽपि दैवेन मारितः ।
वत्सार्थं स्वगृहाद्‌बालं न बहिः कारयाम्यहम् ॥ २३ ॥
श्रीनारद उवाच -
इत्थं वदन्तीं सततं रुदन्तीं
     यशोमतीं वीक्ष्य जगाद नन्दः ।
आश्वासयामासस्गर्गवाक्यैः
     धर्मार्थविद्धर्मभृतां वरिष्ठः ॥ २४ ॥
नन्दराज उवाच -
गर्गवाक्यं त्वया सर्वं विस्मृतं हे यशोमति ।
ब्राह्मणानां वचः सत्यं नासत्यं भवति क्वचित् ॥ २५ ॥
तस्माद्दानं प्रकर्तव्यं सर्वारिष्टनिवारणम् ।
दानात्परं तु कल्याणं न भूतं न भविष्यति ॥ २६ ॥
श्रीनारद उवाच -
तदा यशोदा विप्रेभ्यो नवरत्‍नं महाधनम् ।
स्वालंकारांश्च बालस्य सबलस्य ददौ नृप ॥ २७ ॥
अयुतं वृषभानां च गवां लक्षं मनोहरम् ।
द्विलक्षमन्नभाराणां नन्दो दानं ददौ ततः ॥ २८ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे अघासुरमोक्षो नाम षष्ठोऽध्यायः ॥ ६ ॥