गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search

पूतनाउद्धारणम्

शौर्यनामयपृच्छार्थं करं दातुं नृपस्य च ।
पुत्रोत्सवं कथयितुं नंदे श्रीमथुरां गते ॥ १ ॥
कंसेन प्रेषिता दुष्टा पूतना घातकारिणी ।
पुरेषु ग्रामघोषेषु चरंती घर्घरस्वना ॥ २ ॥
अथ गोकुलमासाद्य गोपगोपीगणाकुलम् ।
रूपं दधार सा दिव्यं वपुः षोडशवार्षिकम् ॥ ३ ॥
न केऽपि रुरुधुर्गोपाः सुंदरीं तां च गोपिकाः ।
शचीं वाणीं रमां रंभां रतिं च क्षिपतीमिव ॥ ४ ॥
रोहिण्यां च यशोदायां धर्षितायां स्फुरत्कुचा ।
अंकमादाय तं बालं लालयंती पुनः पुनः ॥ ५ ॥
ददौ शिशोर्महाघोरा कालकूटावृतं स्तनम् ।
प्राणैः सार्द्धं पपौ दुग्धं कटुं रोषावृतो हरिः ॥ ६ ॥
मुंच मुंच वदंतीत्थं धावन्ती पीडितस्तना ।
नीत्वा बहिर्गता तं वै गतमाया बभूव ह ॥ ७ ॥
पतन्नेत्रा श्वेतगात्रा रुदन्ती पतिता भुवि ।
ननाद तेन ब्रह्माण्डं सप्तलोकैर्बिलैः सह ॥ ८ ॥
चचाल वसुधा द्वीपैः तदद्‌भुतमिवाभवत् ।
षट्क्रोशं सा दृढान् दीर्घान् वृक्षान् पृष्ठतले गतान् ॥ ९ ॥
चूर्णीचकार वपुषा वज्रांगेण नृपेश्वर ।
वदन्तस्ते गोपगणा वीक्ष्य घोरं वपुर्महत् ॥ १० ॥
अस्या अङ्गुलिगो बालो न जीवति कदाचन ।
तस्या उरसि सानन्दं क्रीडन्तं सुस्मितं शिशुम् ॥ ११ ॥
दुग्धं पीत्वा जृंभमाणं तं दृष्ट्वा जगृहुः स्त्रियः ।
यशोदया च रोहिण्या निधायोरसि विस्मिताः ॥ १२ ॥
सर्वतो बालकं नीत्वा रक्षां चक्रुर्विधानतः ।
कालिंदीपुण्यमृत्तोयैर्गोपुच्छभ्रमणादिभिः ॥ १३ ॥
गोमूत्रगोरजोभिश्च स्नापयित्वा त्विदं जगुः ॥ १४ ॥
गोप्य ऊचुः -
श्रीकृष्णस्ते शिरः पातु वैकुण्ठः कण्ठमेव हि ।
श्वेतद्वीपपतिः कर्णौ नासिकां यज्ञरूपधृक् ॥ १५ ॥
नृसिंहो नेत्रयुग्मं च जिह्वां दशरथात्मजः ।
अधराववतां ते तु नरनाराणावृषी ॥ १६ ॥
कपोलौ पातु ते साक्षात्सनकाद्याः कला हरेः ।
भालं ते श्वेतवाराहो नारदो भ्रूलतेऽवतु ॥ १७ ॥
चिबुकं कपिलः पातु दत्तात्रेय उरोऽवतु ।
स्कंधौ द्वावृषभः पातु करौ मत्स्यः प्रपातु ते ॥ १८ ॥
दोर्दण्डं सततं रक्षेत्पृथुः पृथुलविक्रमः ।
उदरं कमठः पातु नाभिं धन्वन्तरिश्च ते ॥ १९ ॥
मोहिनी गुह्यदेशं च कटिं ते वामनोऽवतु ।
पृष्ठं परशुरामश्च तवोरू बादरायणः ॥ २० ॥
बलो जानुद्वयं पातु जंघे बुद्धः प्रपातु ते ।
पादौ पातु सगुल्फौ च कल्किर्धर्मपतिः प्रभुः ॥ २१ ॥
सर्वरक्षाकरं दिव्यं श्रीकृष्णकवचं परम् ।
इदं भगवता दत्तं ब्रह्मणे नाभिपंकजे ॥ २२ ॥
ब्रह्मणा शंभवे दत्तं शंभुर्दुर्वाससे ददौ ।
दुर्वासाः श्रीयशोमत्यै प्रादाच्छ्रीनन्दमन्दिरे ॥ २३ ॥
अनेन रक्षां कृत्वास्य गोपीभिः श्रीयशोमती ।
पाययित्वा स्तनं दानं विप्रेभ्यः प्रददौ महत् ॥ २४ ॥
तदा नंदादयो गोपा आगता मथुरापुरात् ।
दृष्ट्वा घोरां पूतनाख्यां बभूवुर्भयविह्वलाः ॥ २५ ॥
छित्वा कुठारैस्तद्देहं गोपाः श्रीयमुनातटे ।
अनेकाश्च चिताः कृत्वा दाहयामासुरेव ताम् ॥ २६ ॥
एलालवंगश्रीखंडतगरागरुगंधिभृत् ।
धूमो दग्धस्य देहस्य पवित्रस्य समुत्थितः ॥ २७ ॥
अहो कृष्णमृते कं वा व्रजाम शरणं त्विह ।
पूतनायै मोक्षगतिं ददौ पतितपावनः ॥ २८ ॥
श्रीबहुलाश्व उवाच -
केयं वा राक्षसी पूर्वं पूतना बालघातिनी ।
विषस्तना दुष्टभावा परं मोक्षं कथं गता ॥ २९ ॥
श्रीनारद उवाच -
बलियज्ञे वामनस्य दृष्ट्वा रूपमतः परम् ।
बलिकन्या रत्‍नमाला पुत्रस्नेहं चकार ह ॥ ३० ॥
एतादृशो यदि भवेद्‌बालस्तं हि शुचिस्मितम् ।
पाययामि स्तनं तेन प्रसन्नं मे मनस्तदा ॥ ३१ ॥
बलेः परमभक्तस्य सुतायै वामनो हरिः ।
मनोरथस्तु ते भूयान् मनस्यपि वरं ददौ ॥ ३२ ॥
यः पूतनामोक्षमिमं शृणोति
     कृष्णस्य देवस्य परात्परस्य ।
भक्तिर्भवेत्प्रेमयुतापि तस्य
     त्रिवर्गशुद्धिः किमु मैथिलेंद्र ॥ ३४ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे पूतनामोक्षो नाम त्रयोदशोऽध्यायः ॥ १३ ॥