गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search

बलभद्रजन्मवर्णनम्

श्रीनारद उवाच -
भीतः पलायते नायं योद्धारः कंसनोदिताः ।
अयुतं शस्त्रसंयुक्ता रुरुधुः शौरिमंदिरम् ॥ १ ॥
शौरिः कालेन देवक्यामष्टौ पुत्रानजीजनत् ।
अनुवर्षं चाथ कन्यामेकां मायां सनातनीम् ॥ २ ॥
कीर्तिमन्तं सुतं ह्यादौ जातमानकदुन्दुभिः ।
नीत्वा कंसं समभ्येत्य ददौ तस्मै परार्थवित् ॥ ३ ॥
सत्यवाक्यस्थितं शौरिं कंसो घृणी ह्यभूत् ।
दुःखं साधुर्न सहते सत्ये कस्य क्षमा न हि ॥ ४ ॥
कंस उवाच -
एष बालो यातु गृहमेतस्मान्न हि मे भयम् ।
युवयोरष्टमं गर्भं हनिष्यामि न संशयः ॥ ५ ॥
श्रीनारद उवाच -
इत्युक्तो वसुदेवस्तु सपुत्रो गृहमागतः ।
सत्यं नामन्यत मनाग्वाक्यं तस्य दुरात्मनः ॥ ६ ॥
तदाम्बरादागतं मां नत्वा पूज्योग्रसेनजः ।
प्रपच्छ देवाभिप्रायं प्रावोचं तं निबोध मे ॥ ७ ॥
नंदाद्या वसवः सर्वे वृषभान्वादयः सुराः ।
गोप्यो वेदऋचाद्याश्च संति भूमौ नृपेश्वर ॥ ८ ॥
वसुदेवादयो देवा मथुरायां च वृष्णयः ।
देवक्याद्याः स्त्रियः सर्वा देवताः सन्ति निश्चयः ॥ ९ ॥
सप्तवारप्रसंख्यानादष्टमाः सर्व एव हि ।
ते हन्तुः संख्ययाऽयं वा देवानां वामतो गतिः ॥ १० ॥
श्रीनारद उवाच -
इत्युक्त्वा तं मयि गते कृतदैत्यवधोद्यमे ।
कंसः कोपावृतः सद्यो यदून् हंतुं मनो दधे ॥ ११ ॥
वसुदेवं देवकीं च बद्ध्वाऽथ निगडैर्दृढैः ।
ममर्द तं शिलापृष्ठे देवकीगर्भजं शिशुम् ॥ १२ ॥
जातिस्मरो विष्णुभयाज्जातं जातं जघान ह ।
इति दुष्टविभावाच्च भूमौ भूतं ह्यसंशयम् ॥ १३ ॥
उग्रसेनस्तदा क्रुद्धो यादवेन्द्रो नृपेश्वरः ।
वारयामास कंसाख्यं वसुदेवसहायकृत् ॥ १४ ॥
कंसस्य दुरभिप्रायं दृष्ट्वोत्तस्थुर्महाभटाः ।
उग्रसेनानुगा रक्षां चक्रुस्ते खड्‍गपाणयः ॥ १५ ॥
उग्रसेनानुगान्दृष्ट्वा कंसवीराः समुत्थिताः ।
तैः सार्द्धमभवद्युद्धं सभामंडपमध्यतः ॥ १६ ॥
द्वारदेशेऽपि वीराणां युद्धं जातं परस्परम् ।
खड्‍गप्रहारैरयुतं जनानां निधनं गतम् ॥ १७ ॥
कंसो गृहीत्वाथ गदां पितुः सेनां ममर्द ह ।
कंसस्य गदया स्पृष्ट्वा केचिच्छिन्नललाटकाः ॥ १८ ॥
भिन्नपादा भिन्नमुखाश्छिन्नाशाश्छिन्नबाहवः ।
अधोमुखा ऊर्ध्वमुखाः सशस्त्राः पतिताः क्षणात् ॥ १९ ॥
वमन्तो रुधिरं वीरा मूर्छिता निधनं गताः ।
सभामंडपमारक्तं दृश्यते क्षतजस्रवात् ॥ २० ॥
इत्थं मदोत्कटः कंसः संनिपात्योद्‍‌भटान् रिपून् ।
क्रोधाढ्यो राजराजेन्द्रं जग्राह पितरं खलः ॥ २१ ॥
नृपासनात्संगृहीत्वा बद्ध्वा पाशैश्च तं खलः ।
तन्मित्रैश्च नृपैः सार्द्धं कारागारे रुरोध ह ॥ २२ ॥
मधूनां शूरसेनानां देशानां सर्वसंपदाम् ।
सिंहासने चोपविश्य स्वयं राज्यं चकार ह ॥ २३ ॥
पीडिता यादवाः सर्वे संबंधस्य मिषैस्त्वरम् ।
चतुर्दिशान्तरं देशान् विविशुः कालवेदिनः ॥ २४ ॥
देवक्याः सप्तमे गर्भे हर्षशोकविवर्द्धने ।
व्रजं प्रणीते रोहिण्यामनन्ते योगमायया ॥ २५ ॥
अहो गर्भः क्व विगत इत्यूचुर्माथुरा जनाः ॥ २६ ॥
अथ व्रजे पंचदिनेषु भाद्रे
     स्वातौ च षष्ठ्यां च सिते बुधे च ।
उच्चैर्गृहैः पंचभिरावृते च
     लग्ने तुलाऽऽख्ये दिनमध्यदेशे ॥ २७ ॥
सुरेषु वर्षत्सु सुपुष्पवर्षं
     घनेषु मुंचत्सु च वारिबिन्दून् ।
बभूव देवो वसुदेवपत्‍न्यां
     विभासयन्नन्दगृहं स्वभासा ॥ २८ ॥
नंदोऽपि कुर्वन् शिशुजातकर्म
     ददौ द्विजेभ्यो नियुतं गवां च ।
गोपान् समाहूय सुगायकानां
     रावैर्महामंगलमातनोति ॥ २९ ॥
द्वैपायनो देवलदेवरात-
     वसिष्ठवाचस्पतिभिर्मया च ।
आगत्य तत्रैव समास्थितोऽभू-
     त्पाद्यादिभिर्नन्दकृतैः प्रसन्नः ॥ ३० ॥
नंदराज उवाच -
सुंदरो बालकः कोऽयं न दृश्यो यत्समः क्वचित् ।
कथं पंचदिनाज्जातस्तन्मे ब्रूहि महामुने ॥ ३१ ॥
श्रीव्यास उवाच -
अहोभाग्यं तु ते नंद शिशुः शेषः सनातनः ।
देवक्यां वसुदेवस्य जातोऽयं मथुरापुरे ॥ ३२ ॥
कृष्णेच्छया तदुदरात्प्रणीतो रोहिणीं शुभाम् ।
नंदराज त्वया दृश्यो दुर्लभो योगिनामपि ॥ ३३ ॥
तद्दर्शनार्थं प्राप्तोऽहं वेदव्यासो महामुनिः ।
तस्मात्त्वं दर्शयास्माकं शिशुरूपं परात्परम् ॥ ३४ ॥
श्रीनारद उवाच -
अथ नंदः शिशुं शेषं दर्शयामास विस्मितः ।
दृष्ट्वा प्रेंखस्थितं प्राह नत्वा सत्यवतीसुतः ॥ ३५ ॥
श्रीव्यास उवाच -
देवाधिदेव भगवन्कामपाल नमोऽस्तु ते ।
नमोऽनन्ताय शेषाय साक्षाद्‌रामाय ते नमः ॥ ३६ ॥
धराधराय पूर्णाय स्वधाम्ने सीरपाणये ।
सहस्रशिरसे नित्यं नमः संकर्षणाय ते ॥ ३७ ॥
रेवतीरमण त्वं वै बलदेवोऽच्युताग्रजः ।
हलायुधः प्रलंबघ्नः पाहि मां पुरुषोत्तम ॥ ३८ ॥
बलाय बलभद्राय तालांकाय नमो नमः ।
नीलांबराय गौराय रौहिणेयाय ते नमः ॥ ३९ ॥
धेनुकारिर्मुष्टिकारिः कुम्भाण्डारिस्त्वमेव हि ।
रुक्म्यरिः कूपकर्णारिः कूटारिर्बल्वलान्तकः ॥ ४० ॥
कालिन्दीभेदनोऽसि त्वं हस्तिनापुरकर्षकः ।
द्विविदारिर्यादवेन्द्रो व्रजमण्डलमंडनः ॥ ४१ ॥
कंसभ्रातृप्रहन्ताऽसि तीर्थयात्राकरः प्रभुः ।
दुर्योधनगुरुः साक्षात्पाहि पाहि जगत्प्रभो ॥ ४२ ॥
जयजयाच्युत देव परात्पर
     स्वयमनन्त दिगन्तगतश्रुत ।
सुरमुनीन्द्रफणीन्द्रवराय ते
     मुसलिने बलिने हलिने नमः ॥ ४३ ॥
इह पठेत्सततं स्तवनं तु यः
     स तु हरेः परमं पदमाव्रजेत् ।
जगति सर्वबलं त्वरिमर्दनं
     भवति तस्य जयः स्वधनं धनम् ॥ ४४ ॥
श्रीनारद उवाच -
बलं परिक्रम्य शतं प्रणम्य
     तैर्द्वैपायनो देव पराशरात्मजः ।
विशालबुद्धिर्मुनिबादरायणः
     सरस्वतीं सत्यवतीसुतो ययौ ॥ ४५ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे बलभद्रजन्मवर्णनं नाम दशमोऽध्यायः ॥ १० ॥