गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

कंस-जन्मादिवर्णनं तथा दिग्विजय वर्णनम्

अथ कंसः प्रलंबाद्यैरन्यैः पूर्वं जितैश्च तैः ।
शंबरस्य पुरं प्रागात्स्वाभिप्रायं न्यवेदयत् ॥ १ ॥
शंबरो ह्यतिवीर्योऽपि न युयोध स तेन वै ।
चकार सौहृदं कंसे सर्वैरतिबलैः सह ॥ २ ॥
त्रिशृङ्गशिखरे शेते व्योमो नामाऽसुरो बली ।
कंसपादप्रबुद्धोऽभूत्क्रोधसंरक्तलोचनः ॥ ३ ॥
कंसं जघान चोत्थाय प्रबलैर्दृढमुष्टिभिः ।
तयोर्युद्धमभूद्‌घोरमितरेतरमुष्टिभिः ॥ ४ ॥
कंसस्य मुष्टिभिः सोऽपि निःसत्त्वोऽभूद्‌भ्रमातुरः ।
भृत्यं कृत्वाथ तं कसः प्राप्तं मां प्रणनाम ह ॥ ५ ॥
हे देव युद्धकांक्षोऽस्मि क्व यामि त्वं वदाशु मे ।
प्रोवाच तं तदा गच्छ दैत्य बाणं महाबलम् ॥ ६ ॥
प्रेरितश्चेति कंसाख्यो मया युद्धदिदृक्षुणा ।
भुजवीर्यमदोन्नद्धः शोणिताख्यं पुरं ययौ ॥ ७ ॥
बाणासुरस्तत्प्रतिज्ञां श्रुत्वा क्रुद्धो ह्यभून्महान् ।
तताड लत्तां भूमध्ये जगर्ज घनवद्‌बली ॥ ८ ॥
आजानुभूमिगां लत्तां पातालांतमुपागताम् ।
कृत्वा तमाह बाणस्तु पूर्वं चैनां समुद्धर ॥ ९ ॥
श्रृत्वा वचः कराभ्यां तामुज्जहार मदोत्कटः ।
प्रचंडविक्रमः कंसः खरदण्डं गजौ यथा ॥ १० ॥
तया चोद्‌धृतयोत्खाता लोकाः सप्ततला दृढाः ।
निपेतुर्गिरयोऽनेका विचेलुर्दृढदिग्गजाः ॥ ११ ॥
योद्धुं तमुद्यतं बाणं दृष्ट्वाऽऽगत्य वृषध्वजः ।
सर्वान्संबोधयामास प्रोवाच बलिनन्दनम् ॥ १२ ॥
कृष्णं विनापरं चैनं भूमौ कोऽपि न जेष्यति ।
भार्गवेण वरं दत्तं धनुरस्मै च वैष्णवम् ॥ १३ ॥
श्रीनारद उवाच -
इत्युक्त्वा सौहृदं हृद्यं सद्यो वै कंसबाणयोः ।
चकार परया शान्त्या शिवः साक्षान्महेश्वरः ॥ १४ ॥
अथ कंसो दिक्‌प्रतीच्यां श्रुत्वा वत्सं महासुरम् ।
तेन सार्द्धं स युयुधे वत्सरूपेण दैत्यराट् ॥ १५ ॥
पुच्छे गृहीत्वा तं वत्सं पोथयामास भूतले ।
वशे कृत्वाथ तं शैलं म्लेच्छदेशांस्ततो ययौ ॥ १६ ॥
मन्मुखात्कालयवनः श्रुत्वा दैत्यं महाबलम् ।
निर्ययौ संमुखे योद्धुं रक्तश्मश्रुर्गदाधरः ॥ १७ ॥
कंसो गदां गृहीत्वा स्वां लक्षभारविनिर्मिताम् ।
प्राक्षिपद्यवनेन्द्राय सिंहनादमथाकरोत् ॥ १८ ॥
गदायुद्धमभूद्‌घोरं तदा हि कंसकालयोः ।
विस्फुलिंगान् क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः ॥ १९ ॥
कंसः कालं संगृहीत्वा पातयामास भूतले ।
पुनर्गृहीत्वा निष्पात्य मृततुल्यं चकार ह ॥ २० ॥
बाणवर्षं प्रकुर्वन्तीं सेनां तां यवनस्य च ।
गदया पोथयामास कंसो दैत्याधिपो बली ॥ २१ ॥
गजांस्तुरगान्सुरथान्वीरान् भूमौ निपात्य च ।
जगर्ज घनवद्‌वीरो गदायुद्धे मृधाङ्गणे ॥ २२ ॥
ततश्च दुद्रुवुर्म्लेच्छास्त्यक्त्वा स्वं स्वं रणं परम् ।
भीतान् पलायितान् म्लेच्छान्न जघानाथ नीतिमान् ॥ २३ ॥
उच्चपादो दीर्घजानुः स्तंभोरुर्लघिमा कटिः ।
कपाटवक्षाः पीनांसः पुष्टः प्रांशुर्बृहद्‌भुजः ॥ २४ ॥
पद्मनेत्रो बृहत्केशोऽरुणवर्णोऽसिताम्बरः ।
किरीटी कुंडली हारी पद्ममाली लयार्करुक् ॥ २५ ॥
खड्गी निषंगी कवची मुद्‌गराढ्यो धनुर्धरः ।
मदोत्कटो ययौ जेतुं देवान्कंसोऽमरावतीम् ॥ २६ ॥
चाणूरमुष्टिकारिष्टशलतोशलकेशिभिः ।
प्रलंबेन बकेनापि द्विविदेन समावृतः ॥ २७ ॥
तृणावर्त्ताघकूटैश्च भौमबाणाख्यशंबरैः ।
व्योमधेनुकवत्सैश्च रुरुधे सोऽमरावतीम् ॥ २८ ॥
कंसादीनागतान्दृष्ट्वा शक्रो देवाधिपः स्वराट् ।
सर्वैर्देवणैः सार्द्धं योद्धुं कृद्धो विनिर्ययौ ॥ २९ ॥
तयोर्युद्धमभूद्‌घोरं तुमुलं रोमहर्षणम् ।
दिव्यैश्च शस्त्रसंघातैर्बाणैस्तीक्ष्णैः स्फुरत्प्रभैः ॥ ३० ॥
शस्त्रान्धकारे संजाते रथारूढो महेश्वरः ।
चिक्षेप वज्रं कंसाय शतधारं तडिद्‌द्युति ॥ ३१ ॥
मुद्‌गरेणापि तद्‌वज्रं तताडाशु महासुरः ।
पपात कुलिशं युद्धे छिन्नधारं बभूव ह ॥ ३२ ॥
त्यक्त्वा वज्रं तदा वज्री खड्‌गं जग्राह रोषतः ।
कंसं मूर्ध्नि तताडाशु नादं कृत्वाऽथ भैरवम् ॥ ३३ ॥
स क्षतो नाभवत्कंसो मालाहत इव द्विपः ।
गृहीत्वा स गदां गुर्वीमष्टधातुमयीं दृढाम् ॥ ३४ ॥
लक्षभारसमां कंसश्चिक्षेपेन्द्राय दैत्यराट् ।
तां समापततीं वीक्ष्य जग्राहाशु पुरंदरः ॥ ३५ ॥
ततश्चिक्षेप दैत्याय वीरो नमुचिसूदनः ।
चचार युद्धे विदलन्नरीन्मातलिसारथिः ॥ ३६ ॥
कंसो गृहीत्वा परिघं तताडांसेऽसुरद्विषः ।
तत्प्रहारेण देवेन्द्रः क्षणं मूर्च्छामवाप सः ॥ ३७ ॥
कंसं मरुद्‌गणाः सर्वे गृध्रपक्षैः स्फुरत्प्रभैः ।
बाणौघैश्छादयामासुर्वर्षासूर्यमिवांबुदः ॥ ३८ ॥
दोःसहस्रयुतो वीरश्चापं टंकारयन्मुहुः ।
तदा तान्कालयामास बाणैर्बाणासुरो बली ॥ ३९ ॥
बाणं च वसवो रुद्रा आदित्या ऋभवः सुराः ।
जघ्नुर्नानाविधैः शस्त्रैः सर्वतोऽद्रिं समागताः ॥ ४० ॥
ततो भौमासुरः प्राप्तः प्रलंबाद्यसुरैर्नदन् ।
तेन नादेन देवास्ते निपेतुर्मूर्छिता रणे ॥ ४१ ॥
उत्थायाशु तदा शक्रो जगामारुह्य तत्त्वदृक् ।
नोदयामास कंसाय मत्तमैरावतं गजम् ॥ ४२ ॥
अंकुशास्फालनात् क्रुद्धं पातयन्तं पदैर्द्विषः ।
शुण्डादण्डस्य फूत्कारैर्मर्दयन्तमितस्ततः ॥ ४३ ॥
स्रवन्मदं चतुर्दन्तं हिमाद्रिमिव दुर्गमम् ।
नदन्तं शृङ्खलां शुण्डां चालयन्तं मुहुर्मुहुः ॥ ४४ ॥
घटाढ्यं किंकिणीजालरत्‍नकंबलमण्डितम् ।
गोमूत्रचयसिन्दूरकस्तूरीपत्रभृन्मुखम् ॥ ४५ ॥
दृढेन मुष्टिना कंसस्तं तताड महागजम् ।
द्वितीयमुष्टिना शक्रं स जघान रणाङ्गणे ॥ ४६ ॥
तस्य मुष्टिप्रहारेण दूरे शक्रः पपात ह ।
जानुभ्यां धरणीं स्पृष्ट्वा गजोऽपि विह्वलोऽभवत् ॥ ४७ ॥
पुनरुत्थाय नागेन्द्रो दन्तैश्चाहत्य दैत्यपम् ।
शुण्डादण्डेन चोद्‌धृत्य चिक्षेप लक्षयोजनम् ॥ ४८ ॥
पतितोऽपि स वज्रांगः किंचिद्‌व्याकुलमानसः ।
स्फुरदोष्ठोऽतिरुष्टाङ्गो युद्धभूमिं समाययौ ॥ ४९ ॥
कंसो गृहीत्वा नागेन्द्रं संनिपात्य रणांगणे ।
निष्पीड्य शूण्डां तस्यापि दन्तांश्चूर्णीचकार ह ॥ ५० ॥
अथ चैरावतो नागो दुद्रावाशु रणाङ्गणात् ।
निपातयन्महावीरान् देवधानीं पुरीं गतः ॥ ५१ ॥
गृहीत्वा वैष्णवं चापं सज्जं कृत्वाथ दैत्यराट् ।
देवान्विद्रायामास बाणौघैश्च धनुःस्वनैः ॥ ५२ ॥
ततः सुरास्तेन निहन्यमाना
     विदुद्रुवुर्लीनधियो दिशान्ते ।
केचिद्‌रणे मुक्तशिखा बभूवु-
     र्भीताः स्म इत्थं युधि वादिनस्ते ॥ ५३ ॥
केचित्तथा प्रांजलयोऽतिदीनव-
     त्संन्यस्तशस्त्रा युधि मुक्तकच्छाः ।
स्थातुं रणे कंसनृदेवसंमुखे
     गतेप्सिताः केचिदतीव विह्वलाः ॥ ५४ ॥
इत्थं स देवान्प्रगतान्निरीक्ष्य तान्
     नीत्वा च सिंहासनमातपत्रवत् ।
सर्वैस्तदा दैत्यगणैर्जनाधिपः
     स्वराजधानीं मथुरां समाययौ ॥ ५५ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे कंसदिग्विजयवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥