गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

कंस-जन्मादिवर्णनं तथा दिग्विजवर्णनम्

श्रीबहुलाश्व उवाच -
कंसः कोऽयं दैत्यो महाबलपराक्रमः ।
तस्य जन्मानि कर्माणि ब्रूहि देवर्षिसत्तम ॥ १ ॥
श्रीनारद उवाच -
समुद्रमथने पूर्वं कालनेमिर्महासुरः ।
युयुधे विष्णुना सार्द्धं युद्धे तेन हतो बलात् ॥ २ ॥
शुक्रेण जीवितस्तत्र संजीविन्या च विद्यया ।
पुनर्विष्णुं योद्धुकाम उद्योगं मनसाकरोत् ॥ ३ ॥
तपस्तेपे तदा दैत्यो मन्दराचलसन्निधौ ।
नित्यं दूर्वारसं पीत्वा भजन्देवं पितामहम् ॥ ४ ॥
दिव्येषु शतवर्षेषु व्यतीतेषु पितामहः ।
अस्थिशेषं सवल्मीकं वरं ब्रूहीत्युवाच तम् ॥ ५ ॥
ब्रह्माण्डे ये स्थिता देवा विष्णुमूला महाबलाः ।
तेषां हस्तैर्न मे मृत्युः पूर्णानामपि मा भवेत् ॥ ६ ॥
ब्रह्मोवाच -
दुर्लभोऽयं वरो दैत्य यस्त्वया प्रार्थितः परः ।
कालान्तरे ते प्राप्तः स्यान्मद्वाक्यं न मृषा भवेत् ॥ ७ ॥
श्रीनारद उवाच -
कौमारेऽपि महामल्लैः सततं स युयोध ह ।
उग्रसेनस्य पत्‍न्यां कौ जन्म लेभेऽसुरः पुनः ॥ ८ ॥
जरासंधो मगधेंद्रो दिग्जयाय विनिर्गतः ।
यमुनानिकटे तस्य शिबिरोऽभूदितस्ततः ॥ ९ ॥
द्विपः कुवलयापीडः सह्स्रद्विपसत्त्वभूत् ।
बभञ्ज श्रृङ्खलासङ्घं दुद्राव शिबिरान्मदी ॥ १० ॥
निपातयन्स शिबिरान्गृहांश्च भूभृतस्तटान् ।
रंगभूम्यामाजगाम यत्र कंसोऽप्ययुध्यत ॥ ११ ॥
पलायितेषु मल्लेषु कंसस्तं तु समागतम् ।
शुण्डाशुण्डे सङ्गृहीत्वा पातयामास भूतले ॥ १२ ॥
पुनर्गृहीत्वा हस्ताभ्यां भ्रामयित्वोग्रसेनजः ।
जरासन्धस्य सेनायां चिक्षेप शतयोजनम् ॥ १३ ॥
तदद्‌भुतं बलं दृष्ट्वा प्रसन्नो मगधेश्वरः ।
अस्तिप्राप्ती ददौ कन्ये तस्मै कंसाय शंसिते ॥ १४ ॥
अश्वार्बुदं हस्तिलक्षं रथानां च त्रिलक्षकम् ।
अयुतं चैव दासीनां पारिबर्हं जरासुतः ॥ १५ ॥
द्वंद्वयोधी ततः कंसो भुजवीर्यमदोद्धतः ।
माहिष्मतीं ययौ वीरोऽथैकाकी चण्डविक्रमः ॥ १६ ॥
चाणूरो मुष्टिकः कूटः शलस्तोशलकस्तथा ।
माहिष्मतीपतेः पुत्रा मल्ला युद्धजयैषिणः ॥ १७ ॥
कंसस्तानाह साम्नापि दीयध्वं रंगमेव हे ।
अहं दासो भवेयं वो भवंतो जयिनो यदि ॥ १८ ॥
अहं जयी चेद्‌भवतो दासान्सर्वान्करोम्यहम् ।
सर्वेषां पश्यतां तेषां नागराणां महात्मनाम् ॥ १९ ॥
इति प्रतिज्ञां कृत्वाथ युयुधे तैर्जयैषिभिः ।
यदागतं स चाणूरं गृहीत्वा यादवेश्वरः ॥ २० ॥
भूपृष्ठे पोथयामास शब्दमुच्चैः समुच्चरन् ।
तदाऽऽयान्तं मुष्टिकाख्यं मुष्टिभिर्युधि निर्गतम् ॥ २१ ॥
एकेन मुष्टिना तं वै पातयामास भूतले ।
कूटं समागतं कंसो गृहीत्वा पादयोश्च तम् ॥ २२ ॥
भुजमास्फोट्य धावन्तं शलं नीत्वा भुजेन सः ।
पातयित्वा पुनर्नीत्वा भूमिं तं विचकर्ष ह ॥ २३ ॥
अथ तोशलकं कंसो गृहीत्वा भुजयोर्बलात् ।
निपात्य भूमावुत्थाप्य चिक्षेप दशयोजनम् ॥ २४ ॥
दासभावे च तान्कृत्वा तैः सार्द्धं यादवेश्वरः ।
मद्वाक्येन ययावाशु प्रवर्षणगिरिं वरम् ॥ २५ ॥
तस्मै निवेद्याभिप्रायं युयुधे वानरेण सः ।
द्विविदेनापि विंशत्या दिनैः कंसो ह्यविश्रमम् ॥ २६ ॥
द्विविदो गिरिमुत्पाट्य चिक्षेप तस्य मूर्द्धनि ।
कंसो गिरिं गृहीत्वा च तस्योपरि समाक्षिपत् ॥ २७ ॥
द्विविदो मुष्टिना कंसं घातयित्वा नभो गतः ।
धावन्कंसश्च तं नीत्वा पातयामास भूतले ॥ २८ ॥
मूर्छितस्तत्प्रहारेण परं कल्मषमाययौ ।
क्षीणसत्त्वश्चूर्णितोऽस्थिदासभावं गतस्तदा ॥ २९ ॥
तेनैवाथ गतः कंसः ऋष्यमूकवनं ततः ।
तत्र केशी महादैत्यो हयरूपो घनस्वनः ॥ ३० ॥
मुष्टिभिस्ताडयित्वा तं वशीकृत्यारुरोह तम् ।
इत्थं कंसो महावीर्यो महेंद्राख्यं गिरिं ययौ ॥ ३१ ॥
शतवारं चोज्जहार गिरिमुत्पाट्य दैत्यराट् ।
पुनस्तत्र स्थितं रामं क्रोधसंरक्तलोचनम् ॥ ३२ ॥
प्रलयार्कप्रभं दृष्ट्वा ननाम शिरसा मुनिम् ।
पुनः प्रदक्षिणीकृत्य तदंघ्र्योर्निपपात ह ॥ ३३ ॥
ततः शान्तो भार्गवोऽपि कंसं प्राह महोग्रदृक् ।
हे कीटमर्कटीडिंभ तुच्छोऽसि मशको यथा ॥ ३४ ॥
अद्यैव त्वां हन्मि दुष्ट क्षत्रियं वीर्यमानिनम् ।
मत्समीपे धनुरिदं लक्षभारसमं महत् ॥ ३५ ॥
इदं च विष्णुना दत्तं शंभवे त्रैपुरे युधि ।
शंभोः करादिह प्राप्तं क्षत्रियाणां वधाय च ॥ ३६ ॥
यदि चेदं तनोषि त्वं तदा च कुशलं भवेत् ।
चेदस्य कर्षणं न स्याद्‌घातयिष्यामि ते बलम् ॥ ३७ ॥
श्रुत्वा वचस्तदा दैत्यः कोदण्डं सप्ततालकम् ।
गृहीत्वा पश्यतस्तस्य सज्जं कृत्वाथ लीलया ॥ ३८ ॥
आकृष्य कर्णपर्यंतं शतवारं ततान ह ।
प्रत्यञ्चास्फोटनेनैव टङ्कारोऽभूत्तडित्स्वनः ॥ ३९ ॥
ननाद तेन ब्रह्माण्डं सप्त लोकैर्बिलैः सह ।
विचेलुर्दिग्गजास्तारा ह्यपतन् भूमिमंडले ॥ ४० ॥
धनुः संस्थाप्य तत्कंसो नत्वा नत्वाह भार्गवम् ।
हे देव क्षत्रियो नास्मि दैत्योऽहं ते च किंकरः ॥ ४१ ॥
तव दासस्य दासोऽहं पाहि मां पुरुषोत्तम ।
श्रुत्वा प्रसन्नः श्रीरामस्तस्मै प्रादाद्धनुश्च तत् ॥ ४२ ॥
श्रीजामदग्न्य उवाच -
यत्कोदण्डं वैष्णवं तद्‌येन भंगीभविष्यति ।
परिपूर्णतमो नात्र सोऽपि त्वां घातयिष्यति ॥ ४३ ॥
श्रीनारद उवाच -
अथ नत्वा मुनिं कंसो विचरन्स मदोन्मदः ।
न केऽपि युयुधुस्तेन राजानश्च बलिं ददुः ॥ ४४ ॥
समुद्रस्य तटे कंसो दैत्यं नाम्ना ह्यघासुरम् ।
सर्पाकारं च फीत्कारैर्लेलिहानं ददर्श ह ॥ ४५ ॥
आगच्छन्तं दशन्तं च गृहीत्वा तं निपात्य सः ।
चकार स्वगले हारं निर्भयो दैत्यराड् बली ॥ ४६ ॥
प्राच्यां तु बंगदेशेषु दैत्योऽरिष्टो महावृषः ।
तेन सार्द्धं स युयुधे गजेनापि गजो यथा ॥ ४७ ॥
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप कंसमूर्द्धनि ।
कंसो गिरिं संगृहीत्वा चाक्षिपत्तस्य मस्तके ॥ ४८ ॥
जघान मुष्टिनारिष्टं कंसो वै दैत्यपुंगवः ।
मूर्च्छितं तं विनिर्जित्य तेनोदीचीं दिशं गतः ॥ ४९ ॥
प्राग्ज्योतिषेश्वरं भौमं नरकाख्यं महाबलम् ।
उवाच कंसो युद्धार्थी युद्धं मे देहि दैत्यराट् ॥ ५० ॥
अहं दासो भवेयं वो भवन्तो जयिनो यदि ।
अहं जयो चेद्‌भवतो दासान्सर्वान्करोम्यहम् ॥ ५१ ॥
श्रीनारद उवाच -
पूर्वं प्रलंबो युयुधे कंसेनापि महाबलः ।
मृगेन्द्रेण मृगेन्द्रोऽद्रावुद्‌भटेन यथोद्‌भटः ॥ ५२ ॥
मल्लयुद्धे गृहीत्वा तं कंसो भूमौ निपात्य च ।
पुनर्गृहीत्वा चिक्षेप प्राग्ज्योतिषपुरं प्रति ॥ ५३ ॥
आगतो धेनुको नाम्ना कंसं जग्राह रोषतः ।
नोदयामास दूरेण बलं कृत्वाऽथ दारुणम् ॥ ५४ ॥
कंसस्तं नोदयामास धेनुकं शतयोजनम् ।
निपात्य चूर्णयामास तदङ्गं मुष्टिभिर्दृढैः ॥ ५५ ॥
तृणावर्तो भौमवाक्यात्कंसं नीत्वा नभो गतः ।
तत्रैव युयुधे दैत्य ऊर्ध्वं वै लक्षयोजनम् ॥ ५६ ॥
कंसोऽनन्तबलं कृत्वा दैत्यं नीत्वा तदाम्बरात् ।
भूमौ स पातयामास बमन्तं रुधिरं मुखात् ॥ ५७ ॥
तुण्डेनाथ ग्रसन्तं च बकं दैत्यं महाबलम् ।
कंसो निपातयामास मुष्टिना वज्रघातिना ॥ ५८ ॥
उत्थाय दैत्यो बलवान् सितपक्षो घनस्वनः ।
क्रोधयुक्तः समुत्पत्य तीक्ष्णतुण्डोऽग्रसच्च तम् ॥ ५९ ॥
निगीर्णोऽपि स वज्राङ्‌गो तद्‌गले रोधकृच्च यः ।
सद्यश्चच्छर्द तं कंसं क्षतकण्ठो महाबकः ॥ ६० ॥
कंसो बकं संगृहीत्वा पातयित्वा महीतले ।
कराभ्यां भ्रामयित्वा च युद्धे तं विचकर्ष ह ॥ ६१ ॥
तत्स्वसारं पूतनाख्यां योद्धुकमामवस्थिताम् ।
तामाह कंसः प्रहसन्वाक्यं मे शृणु पूतने ॥ ६२ ॥
स्त्रिया सार्धमहं युद्धं न करोमि कदाचन ।
बकासुरः स्यान्मे भ्राता त्वं च मे भगिनी भव ॥ ६३ ॥
ततोऽनन्तबलं कंसं वीक्ष्य भौमोऽपि धर्षितः ।
चकार सौहृदं कंसे साहाय्यार्थं सुरान्प्रति ॥ ६४ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे कंसबलवर्णनं नाम षष्टोऽध्यायः ॥ ६ ॥