गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

नन्द, गोपी परिचय

नन्दोपनन्दभवने श्रीदामा सुबलः सखा ।
स्तोककृष्णोऽर्जुनोंऽशश्च नवनन्दगृहे विधे ॥ १ ॥
विशालार्षभतेजस्वी देवप्रस्थवरूथपाः ।
भविष्यन्ति सखायो मे व्रजे षड् वृषभानुषु ॥ २ ॥
श्रीब्रह्मोवाच -
कस्य वै नन्दपदवी कस्य वै वृषभानुता ।
वद देवपते साक्षादुपनन्दस्य लक्षणम् ॥ ३ ॥
श्रीभगवानुवाच -
गाः पालयन्ति घोषेषु सदा गोवृत्तयोऽनिशम् ।
ते गोपाला मया प्रोक्तास्तेषां त्वं लक्षणं श्रृणु ॥ ४ ॥
नन्दःप्रोक्तः सगोपालैर्नवलक्षगवां पतिः ।
उपनन्दश्च कथितः पंचलक्षगवां पतिः ॥ ५ ॥
वृषभानुः स उक्तो यो दशलक्षगवां पतिः ।
गवां कोटिर्गृहे यस्य नन्दराजः स एवहि ॥ ६ ॥
कोट्यर्धं च गवां यस्य वृषभानुवरस्तु सः ।
एतादृशौ व्रजे द्वौ तु सुचन्द्रो द्रोण एवहि ॥ ७ ॥
सर्वलक्षणलक्ष्याढ्यौ गोपराजौ भविष्यतः ।
शतचन्द्राननानां च सुन्दरीणां सुवाससाम् ।
गोपीनां मद्‌व्रजे रम्ये शतयूथो भविष्यति ॥ ८ ॥
श्रीब्रह्मोवाच -
हे दीनबंधो हे देव जगत्कारणकारण ।
यूथस्य लक्षणं सर्वं तन्मे ब्रूहि परेश्वर ॥ ९ ॥
श्रीभगवानुवाच -
अर्बुदं दशकोटीनां मुनिभिः कथितं विधे ।
दशार्बुदं यत्र भवेत्सोऽपि यूथः प्रकथ्यते ॥ १० ॥
गोलोकवासिन्यः काश्चित्काश्चिद्वै द्वारपालिकाः ।
शृङ्गारप्रकराः काश्चित्काश्चिच्छस्योपकारकाः ॥ ११ ॥
पार्षदाख्यास्तथा काश्चिच्छ्रीवृन्दावनपालिकाः ।
गोवर्धननिवासिन्यः काश्चित्कुञ्जविधायिकाः ॥ १२ ॥
मे निकुञ्जनिवासिन्यो भविष्यन्ति व्रजे मम ।
एवं च यमुनायूथो जाह्नवीयूथ एव च ॥ १३ ॥
रमाया मधुमाधव्या विरजायास्तथैव च ।
ललिताया विशाखाया मायायूथो भविष्यति ॥ १४ ॥
एवं हृष्टसखीनां च सखीनां किल षोडश ।
द्वात्रिंशच्च सखीनां च यूथा भाव्या व्रजे विधे ॥ १५ ॥
श्रुतरूपा ऋषिरूपा मैथिलाः कोशलास्तथा ।
अयोध्यापुरवासिन्यो यत्र सीतापुलिन्दकाः ॥ १६ ॥
यासां मया बरो दत्तो पूर्वे पुर्वे युगे युगे ।
तासां यूथा भविष्यन्ति गोपीनां मद्‍व्रजे शुभे ॥ १७ ॥
श्रीब्रह्मोवाच -
एताः कथं व्रजे भाव्याः केन पुण्येन कैर्वरैः ।
दुर्लभं हि पदं तासां योगिभिः पुरुषोत्तम ॥ १८ ॥
श्रीभगवानुवाच -
श्वेतद्वीपे च भूमानं श्रुतयस्तुष्टुवुः परम् ।
उशतीभिर्गिराभिश्च प्रसन्नोऽभूत्सहस्रपात् ॥ १९ ॥
श्रीहरिरुवाच -
वरं वृणीत यूयं वै यन्मनोवाञ्छितं महत् ।
येषां प्रसन्नोऽहं साक्षात्तेषां किं दुर्लभं हि तत् ॥ २० ॥
श्रुतय ऊचुः -
वाङ्मनोगोचरातीतं ततो न ज्ञायते तु तत् ।
आनन्दमात्रमिति यद्‌वदंतीह पुराविदः ॥ २१ ॥
तद्‌रूपं दर्शयास्माकं यदि देयो वरो हि नः ।
श्रुत्वैतद्दर्शयामास स्वं लोकं प्रकृतेः परम् ॥ २२ ॥
केवलानुभवानन्दमात्रमक्षरमव्ययम् ।
यत्र वृंदावनं नाम वनं कामदुघैर्द्रुमैः ॥ २३ ॥
मनोरमनिकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् ।
यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः ॥ २४ ॥
रत्‍नधातुमयः श्रीमान् सुपक्षिगणसंवृतः ।
यत्र निर्मलपानीया कालिन्दी सरितां वरा ।
रत्‍नबद्धोभयतटी हंसपद्मादिसंकुला ॥ २५ ॥
नानारासरसोन्मत्तं यत्र गोपीकदंबकम् ।
तत्कदंबकमध्यस्थः किशोराकृतिरच्युतः ॥ २६ ॥
दर्शयित्वा च ताः प्राह ब्रूत किं करवाणि वः ।
दृष्टो मदीयो लोकोऽयं यतो नास्ति परं वरम् ॥ २७ ॥
श्रीश्रुतय ऊचुः -
कन्दर्पकोटिलावण्ये त्वयि दृष्टे मनांसि नः ।
कामिनीभावमासाद्य स्मरक्षिप्तान्यसंशयम् ॥ २८ ॥
यया त्वल्लोकवासिन्यः कामतत्त्वेन गोपिकाः ।
भजन्ति रमणं मत्त्वा चिकीर्षाजनिनस्तथा ॥ २९ ॥
श्रीहरिरुवाच -
दुर्लभो दुर्घटश्चैव युष्माकं तु मनोरथः ।
मयानुमोदितः सम्यक् सत्यो भवितुमर्हति ॥ ३० ॥
आगामिनि विरिंचौ तु जाते सृष्ट्यर्थमुद्यते ।
कल्पे सारस्वतेऽतीते व्रजे गोप्यो भविष्यथ ॥ ३१ ॥
पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले ।
वृन्दावने भविष्यामि प्रेयान्वो रासमण्डले ॥ ३२ ॥
जारधर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकम् ।
मयि संप्राप्य सर्वा हि कृतकृत्या भविष्यथ ॥ ३३ ॥
श्रीभगवानुवाच -
ताश्च गोप्यो भविष्यन्ति पूर्वकल्पवरान्मम ।
अन्यासां चैव गोपीनां लक्षणं शृणु तद्विधे ॥ ३४ ॥
सुराणां रक्षणार्थाय राक्षसानां वधाय च ।
त्रेतायां रामचंद्रोऽभूद्‌वीरो दशरथात्मजः ॥ ३५ ॥
सीतास्वयंवरं गत्वा धनुर्भङ्गं चकार सः ।
उवाह जानकीं सीतां रामो राजीवलोचनः ॥ ३६ ॥
तं दृष्ट्वा मैथिलाः सर्वाः पुरन्ध्र्यो मुमुहुर्विधे ।
रहस्यूचुर्महात्मानं भर्ता नो भव हे प्रभो ॥ ३७ ॥
तामाह राघवेन्द्रस्तु मा शोकं कुरुत स्त्रियः ।
द्वापरान्ते करिष्यामि भवतीनां मनोरथम् ॥ ३८ ॥
तीर्थं दानं तपः शौचं समाचरत तत्त्वतः ।
श्रद्धया परया भक्त्या व्रजे गोप्यो भविष्यथ ॥ ३९ ॥
इति ताभ्यो वरं दत्त्वा श्रीरामः करुणानिधिः ।
कोसलान् प्रययौ धन्वी तेजसा जितभार्गवः ॥ ४० ॥
मार्गे च कौसला नार्यो रामं दृष्ट्वातिसुंदरम् ।
मनसा वव्रिरे तं वै पतिं कन्दर्पमोहनम् ॥ ४१ ॥
मनसापि वरं रामो ददौ ताभ्यो ह्यशेषवित् ।
मनोरथं करिष्यामि व्रजे गोप्यो भविष्यथ ॥ ४२ ॥
आगतं सीतया सार्धं सैनिकैः सहितं रघुम् ।
अयोध्यापुरवासिन्यः श्रुत्वा द्रष्टुं समाययुः ॥ ४३ ॥
वीक्ष्य तं मोहमापन्ना मूर्छिताः प्रेमविह्वलाः ।
तेपुस्तपस्ताः सरयूतीरे रामधृतव्रताः ॥ ४४ ॥
आकाशवागभूत्तासां द्वापरान्ते मनोरथः ।
भविष्यति न संदेहः कालिंदीतीरजे वने ॥ ४५ ॥
पितुर्वाक्याद्‌यदा रामो दंडकाख्यं वनं गतः ।
चचार सीतया सार्धं लक्ष्मणेन धनुष्मता ॥ ४६ ॥
गोपालकोपासकाः सर्वे दंडकारण्यवासिनः ।
ध्यायन्तः सततं मां वै रासार्थं ध्यानतत्पराः ॥ ४७ ॥
येषामाश्रममासाद्य धनुर्बाणधरो युवा ।
तेषां ध्याने गतो रामो जटामुकुटमंडितः ॥ ४८ ॥
अन्याकृतिं ते तं वीक्ष्य परं विस्मितमानसाः ।
ध्यानादुत्थाय ददृशुः कोटिकन्दर्पसन्निभम् ॥ ४९ ॥
ऊचुस्तेऽयं तु गोपालो वंशीवेत्रे विना प्रभुः ।
इत्थं विचार्य मनसा नेमुश्चक्रुः स्तुतिं पराम् ॥ ५० ॥
वरं वृणीत मुनयः श्रीरामस्तानुवाच ह ।
यथा सीता तथा सर्वे भूयाःस्म इति वादिनः ॥ ५१ ॥
श्रीराम उवाच -
यथा हि लक्ष्मणो भ्राता तथा प्रार्थ्यो वरो यदि ।
अद्यैव सफलो भाव्यो भवद्‌भिर्मत्प्रसंगतः ॥ ५२ ॥
सीतोपमेयवाक्येन दुर्घटो दुर्लभो वरः ।
एकपत्‍नीव्रतोऽहं वै मर्यादापुरुषोत्तमः ॥ ५३ ॥
तस्मात्तु मद्‌वरेणापि द्वापरान्ते भविष्यथ ।
मनोरथं करिष्यामि भवतां वाञ्छितं परम् ॥ ५४ ॥
इति दत्त्वा वरं रामस्ततः पंचवटीं गतः ।
पर्णशाला समासाद्य वनवासं चकार ह ॥ ५५ ॥
तद्दर्शनस्मररुजः पुलिन्द्यः प्रेमविह्वलाः ।
श्रीमत्पादरजो धृत्वा प्राणांस्त्यक्तुं समुद्युताः ॥ ५६ ॥
ब्रह्मचारीवपुर्भूत्वा रामस्तत्र समागतः ।
उवाच प्राणसंत्यागं मा कुरुत स्त्रियो वृथा ॥ ५७ ॥
वृन्दावने द्वापरान्ते भविता वो मनोरथः ।
इत्युक्त्वा ब्रह्मचारी तु तत्रैवान्तरधीयत ॥ ५८ ॥
अथ रामो वानरेन्द्रै रावणादीन्निशाचरान् ।
जित्वा लङ्कामेत्य सीता पुष्पकेण पुरीं ययौ ॥ ५९ ॥
सीतां तत्त्याज राजेन्द्रो वने लोकापवादतः ।
अहो सतामपि भुवि भवनं भूरि दुःखदम् ॥ ६० ॥
यदा यदाकरोद्यज्ञं रामो राजीवलोचनः ।
तदा तदा स्वर्णमयीं सीतां कृत्वा विधानतः ॥ ६१ ॥
यज्ञसीतासमूहोऽभून्मन्दिरे राघवस्य च ।
ताश्चैतन्यघना भूत्वा रन्तुं रामं समागताः ॥ ६२ ॥
ता आह राघवेशेन्द्रो नाहं गृह्णामि हे प्रियाः ।
तदोचुस्ताः प्रेमपरा रामं दशरथात्मजम् ॥ ६३ ॥
कथं चास्मान्न गृह्णासि भजन्तीर्मैथिलीः सतीः ।
अर्धाङ्गीर्यज्ञकालेषु सततं कार्यसाधनीः ॥ ६४ ॥
धर्मिष्ठस्त्वं श्रुतिधरोऽधर्मवद्‌भाषसे कथम् ।
करं गृहीत्वा त्यजसि ततः पापमवाप्यसि ॥ ६५ ॥
श्रीराम उवाच -
समीचीनं वचस्सत्यो युष्माभिर्गदितं च मे ।
एकपत्‍नीव्रतोऽहं हि राजर्षिः सीतयैकया ॥ ६६ ॥
तस्माद्‌यूयं द्वापरान्ते पुण्ये वृन्दावने वने ।
भविष्यथ करिष्यामि युष्माकं तु मनोरथम् ॥ ६७ ॥
श्रीभगवान् उवाच -
ता व्रजेऽपि भविष्यन्ति यज्ञसीताश्च गोपिकाः ।
अन्यासां चैव गोपीनां लक्षणं शृणु तद्विधे ॥ ६८ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे भगवद्‌ब्रह्म संवादे उद्योगप्रश्नवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥