गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५५

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५४ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५५
गर्गमुनि
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५६ →


अश्वमेधखण्डः - पंचपंचाशत्तमोऽध्यायः

यज्ञार्थं गोमतीजलानयनं नारदद्वारा गोपीगणमध्ये
कलहप्रवर्तनस्य चेष्टाः, भगवतः स्वरूपदर्शनम् -


गर्ग उवाच -
अथ वै मण्डपे रम्ये द्वारैरष्टभिरन्विते ॥
 पतत्पताके कुण्डाढ्ये याज्ञिकैरष्टकैर्युते ॥१॥
 पलाशजैर्बिल्वजैश्च तथा श्लेष्मातकैर्नृप ॥
 वेदिकाभिस्तथा यूपैश्चषालैरपि भूषिते ॥२॥
 स्रुक्चर्मकुशमुसलोलूखलाद्यैर्विशांपते ॥
 अन्यैः संभृतसंभारैर्नानावस्तुभिरन्विते ॥३॥
 उग्रसेनस्तु राजर्षिर्ऋषिर्भिर्वेदपारगैः ॥
 यादवैश्चामरावत्यां रेजे शक्र इवामरैः ॥४॥
 आहूताः कृष्णचन्द्रेण गोपा नन्दादयस्ततः ॥
 वृषभानुवराद्यांश्च श्रीदामाद्याः समाययुः ॥५॥
 यशोमती राधिका च ह्यन्याः सर्वा व्रजस्त्रियः ॥
 द्वारकामाययुः प्रीताः शिबिकाभी रथैरपि ॥६॥
 आहूतो धृतराष्ट्रस्तु कौरवैश्च सुतैर्युतः ॥
 आजगाम कुशस्थल्यां नृपाश्चान्ये समागताः ॥७॥
 युधिष्ठिरो भीमसेनश्चार्जुनो नकुलस्तथा ॥
 सहदेवो वनादेते ह्याजग्मुर्भार्यया सह ॥८॥
 श्रीकृष्णेन समाहूताः प्रेषयित्वा च नारदम् ॥
 शक्रादयोऽष्टौ दिक्पाला वसवो रवयस्तथा ॥९॥
 यज्ञे सनत्कुमाराद्या रुद्राश्चैकादशापि हि ॥
 मरुद्‌गणाश्च वेताला गंधर्वाः किन्नरास्तथा ॥१०॥
 विश्वेदेवाश्च साध्याश्च सर्वे विद्याधरास्तथा ॥
 देवाश्च देवपत्‍न्यश्च गन्धर्व्योऽप्सरसस्तथा ॥११॥
 आजग्मुर्द्वारकां राजन्कृष्णदर्शनकांक्षया ॥
 कैलासश्च समाहूतः सर्वमंगलया शिवः ॥१२॥
 सुतलाद्दैत्यवृन्दैश्च प्रह्लादो बलिरेव च ॥
 विभीषणो भीषणश्च मयो बल्वल एव च ॥१३॥
 जांबवान्दंष्ट्रिभिः सार्द्धं हनूमान्वानरैर्युतः ॥
 पक्षिभिः पक्षिराट् तत्र तथा सर्पैश्च वासुकिः ॥१४॥
 धेनुभिः सहिता राजन्धेनुरूपधरा धरा ॥
 मेरुः शैलैर्हिमगिरिर्वटः साक्षाद्‌द्रुमैर्वृतः ॥१५॥
 रत्‍नाकरा रत्‍नयुता नदीभिः स्वर्धुनी तथा ॥
 तीर्थैः सर्वैश्च राजेंद्र तीर्थराजश्च पुष्करः ॥१६॥
 एते सर्वे समाहूता आजग्मुर्मुदिताः क्रतौ ॥
 ततः कृष्णेन चाहूता व्रजभूमिः समागता ॥१७॥
 कृष्णयज्ञोत्सवं द्र्ष्टुं यमुना शमनस्वसा ॥
 सर्वान्दृष्ट्वाऽऽगतान्प्रीतो वासयामास चाहुकः ॥१८॥
 शिबिरेषु मंदिरेषु विमानेषु वनेषु च ॥
 अथाचार्यः कृतो व्यासो बकदाल्भ्यो विधिर्मया ॥१९॥
 ऋत्विजश्च कृता दिव्या ये वै पूर्वं निमंत्रिताः ॥
 अथ यज्ञेऽनिरुद्धस्तु श्रीकृष्णस्येच्छया नृप ॥२०॥
 विधेर्विधोश्च स्वस्यापि कृत्वा रूपत्रयं बभौ ॥
 दृष्ट्वा लीलां कार्ष्णिजस्य देवाश्च यदवो नृपाः ॥२१॥
 विस्मिताः कथयामासुः कर्णे कर्णे परस्परम् ॥
 व्यासः प्रत्याह राजानं शृणु यादवसत्तम ॥२२॥
 उपविष्टा नृपा विप्रा यथास्थाने विभागशः ॥
 चतुष्षष्टिर्दम्पतीनां यांतु वै गोमतीतटे ॥२३॥
 आहर्तुं सलिलं तस्या मयाऽऽदिष्टं यथोचितम् ॥
 अदित्याः कश्यपश्चैव वसिष्ठोऽरुंधतीयुतः ॥२४॥
 द्रोणाचार्यस्तु कृप्या च ह्यत्रिश्चैवानसूयया ॥
 रुक्मिण्या कृष्णचन्द्रस्तु रेवत्या राम एव च ॥२५॥
 मायावत्या च प्रद्युम्न उषया कार्ष्णिजस्तथा ॥
 सुभद्रयार्जुनश्चैव सांबो लक्ष्मणया तथा ॥२६॥
 तथा हेमांगदाद्याश्च यांतु वै स्वस्वभार्यया ॥
 श्रीगर्ग उवाच -
एवं ते व्यासवचनात्सपत्‍नीका द्विजा नृपाः ॥२७॥
 आनेतुं गोमतीतोयं प्रययुर्बद्धपल्लवाः ॥
 देवकीं रोहिणीं कुन्तीं गांधारीं च यशोमतीम् ॥२८॥
 पुरस्कृत्य तु जग्राह कुंभो भैष्म्या युतो हरिः ॥
 तथा रामस्तु रेवत्या सस्त्रीका येऽपि भूमिपाः ॥२९॥
 सुवर्णरौप्यकलशैः सपुष्पैश्च सपल्लवैः ॥
 रुक्मिण्या सहितं यांतं कृष्णं दृष्ट्वा समागमे ॥३०॥
 नारदः कलहं कर्तुं सत्यभामागृहं ययौ ॥
 दृष्ट्वा चैकां हरेर्भार्यां संपृष्टः स तयाब्रवीत् ॥३१॥
 नारद उवाच -
आदरं सदने नास्ति सत्राजितसुते तव ॥
 गतः कृष्णस्तु रुक्मिण्या चाहर्तुं गोमतीजलम् ॥३२॥
 बहुभिर्याचिता त्वं तु पारिजातकहारिणी ॥
 कृष्णसंकल्पकरणी मणियुक्ता च मानिनी ॥३३॥
 ईदृशीं त्वां वरारोहां गरुडोपरि गामिनीम् ॥
 विहाय भैष्म्या श्रीकृष्णः शोभां द्रष्टुं जगाम ह ॥३४॥
 यस्याः पुत्रश्च प्रद्युम्नो यस्याः पौत्रोऽनिरुद्धकः ॥
 सा दर्शयति भो मातर्वार्तां मानं च गौरवम् ॥३५॥
 गर्ग उवाच -
इति श्रुत्वा प्राणनाथं रुक्मिण्या सहितं गतम् ॥३६॥
 रुरोद दुःखिता राजन्सत्यभामा रुषान्विता ॥
 तदैव कृष्णो भगवाञ्ज्ञात्वा नारदचेष्टितम् ॥३७॥
 सत्यभामागृहं शीघ्रं रुपेणैकेन चागतम् ॥
 गत्वा प्रत्याह वचनं सर्वज्ञाता रमेश्वरः ॥३८॥
 न गतोऽहं समाजे वै रुक्मिण्या सहितः प्रिये ॥
 आगतो भोजनं कर्तुं गतो रामश्च भार्यया ॥३९॥
 इति तद्वाक्यमाकर्ण्य सत्यभामा मुदं गता ॥
 भीतो नारद उत्थाय गेहं चान्यं जगाम ह ॥४०॥
 गत्वा जांबवतीगेहं तस्याग्रे सर्वमब्रवीत् ॥
 श्रुत्वा हसंती सा प्राह मृषा मा वद हे मुने ॥४१॥
 करोति शयनं गेहे श्रीनाथो भोजनांतरे ॥
 इति श्रुत्वा शंकितस्तु त्वरं निर्गत्य नारदः ॥४२॥
 मित्रविंदागृहे गत्वा प्रत्युवाच विलोकयन् ॥
 नारद उवाच -
न गतासि नृपस्थानं मातर्गेहे स्थितासि किम् ॥४३॥
 आहर्तुं गोमतीतोयं प्रयाति यत्र माधवः ॥
 भैष्मीं सत्यां जांबवतीं सह नेष्यति तत्र वै ॥४४॥
 मित्रविंदोवाच -
केशवस्य प्रियाः सर्वा गंतासौ यां विहाय च ॥
 सा न जीवति कृष्णस्तु पौत्रं लालयति गृहे ॥४५॥
 ततो मुनिः समुत्थाय सर्वाणि मंदिराणि च ॥
 बभ्राम कृष्णभार्याणां सकृष्णानीत्यमन्यत ॥४६॥
 पुनर्विचार्य देवर्षिर्गोपीनां मंदिराणि च ॥
 प्रययौ कथितुं वार्तां राधिकायै च मानद ॥४७॥
 तत्र दीव्यंतमक्षैश्च राधया नंदनन्दनम् ॥
 गोपीभिः सहितं वीक्ष्य ऋषिर्गंतुं मनो दधे ॥४८॥
 तदैव कृष्ण उत्थाय गृहीत्वा पाणिना मुनिम् ॥
 तत्रैव स्थापयामास पूजयित्वा यथाविधि ॥४९॥
 श्रीकृष्ण उवाच -
किं करिष्यसि विप्रेंद्र वृथा भ्रमसि मोहितः ॥
 गेहे गेहे स्वपत्‍नीनां मया त्वं तु विलोकितः ॥५०॥
 मया धृतानि रूपाणि त्वद्‌भयादृषिसत्तम ॥
 नाहं दास्ये दमं तुभ्यं विप्रत्वात्प्रार्थयाम्यहम् ॥५१॥
 सर्वेषां चैव देवोऽहं मम देवाश्च ब्राह्मणाः ॥
 ये द्रुह्यन्ति द्विजान्मूढाः संति ते मम शत्रवः ॥५२॥
 ये पूजयंति विप्रांश्च मम भावेन भूजनाः ॥
 ते भुञ्जंति सुखं चात्र ह्यन्ते यास्यंति तत्पदम् ॥५३॥
 मायया मम पुर्यां त्वं मोहितश्चापि मा खिदः ॥
 सर्वे मुह्यंति देवर्षे ब्रह्मरुद्रादयः सुराः ॥५४॥
 इति तद्वाक्यमाकर्ण्य संस्तुतः स महामुनिः ॥
 आययौ मण्डपे तूष्णीं भूत्वा ऋत्विग्जनैर्वृते ॥५५॥
 अथ ते गोमतीतीरं जग्मुः कृष्णादयो नृपाः ॥
 रुक्मिण्याद्याः स्त्रियश्चैव वादित्रैर्विविधैरपि ॥५६॥
 नारीणां चैव वृन्देन गायंतीनां् हरेर्यशः ॥
 वलयानां नूपुराणां शब्दोऽभून्मधुरध्वनिः ॥५७॥
 पूजयित्वा जलसुरान्व्यासः सार्द्धं मया मुनिः ॥
 कलशं तोयसंयुक्तमनसूयाकरे ददौ ॥५८॥
 ततश्च जगृहुः कुम्भान् रेवत्याद्याश्च योषितः ॥
 नोत्थिताः कलशाः सर्वे कोमलैश्च करैरपि ॥५९॥
 धारयंति कथं कुम्भं पुष्पभारेण पीडिताः ॥
 ततश्च जहसू राज्ञो नृपाणां च परस्परम् ॥६०॥
 कथं यामो यज्ञवाटमित्यूचुः कलशैर्विना ॥
 रुक्मिण्याद्याः स्त्रियः सर्वास्ता ऊचुर्मनसा हरिम् ॥६१॥
 हे श्रीकृष्ण जगन्नाथ भक्तकष्टविनाशन ॥
 सबलस्त्वं चक्रधारी ह्यस्मान्पालय संकटे ॥६२॥
 एवं ब्रुवंत्यो जगृहुः सकलान्भारवर्जितान् ॥
 स्वे स्वे शिरसि संधाय संयुक्तैर्मणिमौक्तिकैः ॥६३॥
 यज्ञवाटं समाजग्मुर्नार्य्यः शीघ्रं सभर्तृकाः ॥
 यत्र भेर्यश्च शंखाद्या वाद्यंते पणवादयः ॥६४॥
 आनीय गोमतीतोयं प्रापितास्तत्र ते नृप ॥
 श्यामकर्णेन सहिता यत्र वै यादवेश्वरः ॥६५॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
गोमतीजलानयनं नाम पंचपंचाशत्तमोऽध्यायः ॥५५॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता