गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५२

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५१ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५२
गर्गमुनि
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५३ →



अश्वमेधखण्डः - द्विपंचाशत्तमोऽध्यायः

चन्द्रहास-अनिरुद्ध मिलनम् -


गर्ग उवाच -
समागतं यज्ञहयं विलोक्य
     श्रीचन्द्रहासो व्रजचन्द्रदासः ॥
 सद्यो गृहीत्वा किल तस्य पत्रं
     स वाचयामास तदैव हृष्टः ॥१॥
 तत्पत्रं वाचयित्वाऽऽह महाभागवतो नृप ॥
 अहो पश्यामि नेत्राभ्यां पौत्रं श्रीपरमात्मनः ॥२॥
 केन पुण्येन पूर्वेण कृष्णतुल्यं यदूत्तमम् ॥
 मया न दृष्टः श्रीकृष्णो मायामानुषविग्रहः ॥३॥
 सहितः कार्ष्णिजेनाहं तस्माद्‌गच्छामि द्वारकाम् ॥
 तत्र पश्यामि श्रीकृष्णं बलं प्रद्युम्नमेव च ॥४॥
 उग्रसेनं महाराजं श्रीकृष्णेनापि पूजितम् ॥
 इत्युक्त्वा निर्ययौ राजा ह्यनिरुद्धं विलोकितुम् ॥५॥
 गृहीत्वा चोपचाराँश्च गंधपुष्पाक्षतादिकान् ॥
 दिव्यवस्त्राणि रत्‍नानि गृहीत्वा तुरगं च सः ॥६॥
 सवः पुरजनैः सार्द्धं मालातिलकशोभितैः ॥
 गीतवादित्रघोषैश्च पद्‌भ्यां राजा जगाम ह ॥७॥
 आगतं तं नृपं दृष्ट्वा नागरैः सहितं नृप ॥
 अनिरुद्धो मुदायुक्तो मंत्रिणं चेदमब्रवीत् ॥८॥
 अनिरुद्ध उवाच -
कोऽयं राजा महामंत्रिन्सर्वैः पुरजनैः सह ॥
 आगतो मिलनार्थं वा तस्य वार्तां वदस्व नः ॥९॥
 उद्धव उवाच -
नृपोऽयं चंद्रहासाख्यो केरलाधिपतेः सुतः ॥
 मृतयोर्मातृपित्रोश्च कुलिंदेनानुपालितः ॥१०॥
 आबाल्यात्कृष्णचन्द्रस्य भक्तस्तेनापि रक्षितः ॥
 दुष्टबुद्धेः प्रधानस्य सुतां यः परिणीतवान् ॥११॥
 यस्मै कुन्तलको राजा राज्यं दत्वा वनं ययौ ॥
 तस्याख्यानं द्वारकायां मया कृष्णमुखाच्छ्रुतम् ॥१२॥
 यस्मै स्वदर्शनं दातुं श्रीकृष्णोऽत्रागमिष्यति ॥
 उद्धवस्य वचः श्रुत्वा विस्मितोऽभूद्यदूत्तमः ॥१३॥
 गत्वानिरुद्धनिकटे चन्द्रहासो जनैर्वृतः ॥
 श्यामकर्णं ददौ प्रीतो धनानि बहुशस्तथा ॥१४॥
 गजानामर्द्धलक्षं च रथानां लक्षमेव च ॥
 तुरगाणामेककोटिं मुद्राणां हि सहस्रकम् ॥१५॥
 गवयानां सहस्रं च शिबिकानां सहस्रकम् ॥
 धेनूनां दशलक्षं च शिञ्जानामयुतं तथा ॥१६॥
 एककोटिं सुवर्णानां रौप्याणां च चतुर्गुणम् ॥
 लक्षमाभरणानां च माधवाय ददौ नृपः ॥१७॥
 चन्द्रहास उवाच -
नमोऽनिरुद्धाय सुरोत्तमाय श्रीकृष्णपौत्राय जनेश्वराय ॥
 प्रद्युम्नपुत्राय यदूत्तमाय देवाय पूर्णाय नमः पराय ॥१८॥
 इति भक्तवचः श्रुत्वा प्रसन्नो मदनात्मजः ॥
 संश्लाघ्य प्रददौ तस्मै प्रदीप्तां रत्‍नमालिकाम् ॥ १९॥
 चन्द्रहासस्तु राजेन्द्र राज्ये कृत्वा तु मंत्रिणम् ॥
 स्वपुराद्यादवैः सार्द्धं गंतुं चालं मनोऽकरोत् ॥२०॥
 उषित्वा तत्पुरे सर्वे ह्येकरात्रं यदूत्तमाः ॥
 प्रातःकाले ययू राजंश्चन्द्रहासेन संयुताः ॥२१॥
 जगाम ह्यग्रतस्तेभ्यो तुरगः पत्रशोभितः ॥
 ततः सप्तवतीं दृष्ट्वा ह्यावर्त्तशतसंकुलाम् ॥२२॥
 तटं तरंगैर्निघ्नंतीं दीर्घवेगां दुरत्ययाम् ॥
 नौकाभिः संयुतां दृष्ट्वा वीरः प्रद्युम्ननन्दनः ॥२३॥
 अक्षौहिणीशतयुतः पारं गंतुं मनो दधे ॥
 स पूर्वं गजमारुह्य सांबाद्यैः परिवेष्टितः ॥२४॥
 नावं त्यक्त्वा नृपश्रेष्ठ प्रविवेश नदीजले ॥
 प्रथमं सलिलं तस्यां समलं च बभूव ह ॥२५॥
 ततः पंकद्रवा भूमिश्चित्रमेतद्बभूव ह ॥
 हसंतो यादवाः सर्वे विस्मयं परमं ययुः ॥२६॥
 अथ व्रजंस्तुरंगस्तु स जगाम शनैः शनैः ॥
 नारायणसरो यत्र मध्ये सिंधुसमुद्रयोः ॥२७॥
 पपौ तिर्थजलं तत्र तुरगश्च तृषातुरः ॥
 ततस्तत्राययुः सर्वेऽनिरुद्धाद्या यदूत्तमाः ॥२८॥
 धर्मद्वेषकरान्नीचान्म्लेच्छाञ्जित्वा मृधांगणे ॥
 दृष्ट्वा तुरंगमं तत्र स्नानं चक्रुः सरोवरे ॥२९॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
नारायणसरोगमनं नाम द्विपंचाशत्तमोऽध्यायः ॥५२॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥



वर्गःगर्ग संहिता