गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १३ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १४
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः १५ →



अश्वमेधखण्डः - चतुर्दशोऽध्यायः

अनिरुद्धस्य दिग्विजययात्रा -


गर्ग उवाच -
अथ तन्मिलनार्थं वै उग्रसेनाज्ञया नृप ॥
 वसुदेवः कामपालः श्रीकृष्णः कार्ष्णिरेव च ॥१॥
 अन्येऽपि यादवा राजन्‌ रथैः सर्वे विनिर्ययुः ॥
 गत्वानिरुद्धं ददृशुः सेनया तु परीवृतम् ॥२॥
 प्रद्युम्नाय राजसूये या नीतिः कथिता पुरा ॥
 तां सर्वामनिरुद्धाय कथयामास माधवः ॥३॥
 इति श्रुत्वा च कृष्णस्य शासनं सर्वयादवाः ॥
 शिरसा जगृहू राजन्ननिरुद्धादयो मुदा ॥४॥
 अथ गर्गं मुनींश्चैव वसुदेवं हलायुधम् ॥
 श्रीकृष्णचन्द्रं कार्ष्णिं च प्राद्युम्निः प्रणनाम ह ॥५॥
 वसुदेवरामकृष्णप्रद्युम्नाद्याः शुभाशिषम् ॥
 अनिरुद्धाय दत्वा च प्रविष्टास्ते पुरीं रथैः ॥६॥
 अथानिरुद्धस्य हयो देशे देशे गतो नृप ॥
 न केऽपि जगृहुस्तं वै भयात्कृष्णस्य भूमिपाः ॥७॥
 यत्र यत्र गतो वाजी तत्र तत्र ससैनिकः ॥
 कार्ष्णिजः पृष्ठतस्तस्य जेतुं शत्रून्गतः किल ॥८॥
 इत्थं विलोकयन्‌राज्याननिरुद्धतुरंगमः ॥
 राजितां नर्मदातीरे ययौ माहिष्मतीं पुरीम् ॥९॥
 चातुर्वर्ण्यसमाकीर्णामश्मदुर्गेण मंडिताम् ॥
 सदनैर्गगनस्पर्शैर्महेशस्यालयैर्वृताम् ॥१०॥
 इन्द्रनीलेन राज्ञापि पालितां पञ्चयोजनम् ॥
 शालैस्तालैस्तमालैश्च वटैर्बिल्वैश्च पिप्पलैः ॥११॥
 तडागैश्चैव वापीभिर्घुष्टां पक्षिगणैस्तथा ॥
 ईदृशीं नगरीमश्वो ददर्शोपवने गतः ॥१२॥
 इंद्रनीलस्य तनयो नाम्ना नीलध्वजो बली ॥
 पुर्याः सहस्रवीरैश्च मृगयार्थी विनिर्गतः ॥१३॥
 ततो ददर्श तुरगं सपत्रं नृपनंदनः ॥
 प्रफुल्लिते चोपवने कदंबस्य तले स्थितम् ॥१४॥
 चरंतं चामरैर्युक्तं सौरभेयीपयःप्रभम् ॥
 स्त्रीणां कुंकुमहस्तैश्च मुक्ताहारैरलंकृतम् ॥१५॥
 हयं दृष्ट्वा राजसुता स्ववाहादवतीर्य च ॥
 केशेषु तं निजग्राह हर्षेण नृप लीलया ॥१६॥
 तत्पत्रं वाचयामास यादवेंद्रेण यत्कृतम् ॥
 द्वारकाधिपती राजा सर्वशूरशिरोमणिः ॥१७॥
 नान्योऽस्ति तत्समःकोऽपि चक्रवर्तीबृहच्छ्रवाः ॥
 विमोचितस्तुरगराट् तेनासौ पत्रसंयुतः ॥१८॥
 पाल्यमानोऽनिरुद्धेन गृह्णंतु सबला नृपाः ॥
 तस्यान्यथा प्रपदयोः पतित्वा यांतु क्षत्रियाः ॥१९॥
 इत्यभिप्रायमालोक्य कोपेनाह नृपात्मजः ॥
 अनिरुद्धो धनुर्द्धारी धन्विनो न वयं स्मृताः ॥२०॥
 मत्पितरि स्थिते मह्यां कस्तु गर्वं समाचरेत् ॥
 श्रीगर्ग उवाच -
इत्युक्त्वा स हयं नीत्वा प्रययौ नृपसन्निधौ ॥२१॥
 कथयामास वृत्तांतं पितुरग्रे हयस्य च ॥
 श्रुत्वा पुत्रस्य वचनमिंद्रनीलो महीश्वरः ॥२२॥
 शिवभक्तो महामानी पुत्रं प्राह महाबलः ॥
 इंद्रनील उवाच -
समर्थेन पुरा दत्तं राजसूये क्रतूत्तमे ॥२३॥
 प्रद्युम्नाय बलिं किंचित्कुमंत्रिवचनान्मया ॥
 अद्यानिरुद्धस्तु हयं पालयन्पुनरागतः ॥२४॥
 अहो दैवबलं येन किन्न भूयाद्विपर्य्ययः ॥
 गता वृद्धिं द्वारकायामल्पकालेन वृष्णयः ॥२५॥
 तस्मात्सर्वान्विजेष्यामि कार्ष्णिजप्रमुखान्यदून् ॥
 श्यामकर्णं न दास्यामि तस्मै मानवृताय च ॥२६॥
 पालयिष्यति मां युद्धे भक्त्या संतोषितः शिवः ॥
 इत्युक्त्वा सेनया युक्तो वीरो माहिष्मतीपतिः ॥२७॥
 स्वर्णदाम्ना हयं बद्ध्वा युद्धं कर्तुं मनो दधे ॥
 ततोऽनिरुद्धः संप्राप्तो तुरगं च विलोकयन् ॥२८॥
 अक्षौहिणीशतयुतो नर्मदायास्तटे नृप ॥
 सांबो मधुबृहद्बाहुश्चित्रभानुर्वृकोऽरुणः ॥२९॥
 संग्रामजित्सुमित्रश्च दीप्तिमान्भानुरेव च ॥
 वेदबाहुः पुष्करश्च श्रुतदेवः सुनंदनः ॥३०॥
 विरूपश्चित्रबाहुश्च न्यग्रोधश्च कविस्तथा ॥
 एते समाययू राजन्ननिरुद्धसहायिनः ॥३१॥
 गदश्च सारणोऽक्रूरः कृतवर्मा हि चोद्धवः ॥
 युयुधानो सात्यकिश्च शूरा एते च वृष्णयः ॥३२॥
 सहायमनिरुद्धस्य कर्तुं सर्वे समागताः ॥
 स्थित्वा ते नर्मदतीरे भोजवृष्ण्यंधकादयः ॥३३॥
 श्यामकर्णमपश्यंतस्त्वब्रुवन् विस्मयान्विताः ॥
 केन नीताः सपत्राश्च उग्रसेनस्य भूपतेः ॥३४॥
 तस्मान्मित्राणि सोऽप्यत्र श्यामकर्णो न दृश्यते ॥
 राजसूये पुरा यस्मै नरदैत्यसुरादयः ॥३५॥
 नवखंडाधिपाश्चैव निर्जितश्च बलिं ददुः ॥
 यस्य वै शासनं चंडं तिरस्कृत्य कुधीर्नृपः ॥३६॥
 तुरगं हतवान्मानात्स स्तेनो दंडमर्हति ॥
 सर्वेषामिति वाक्यं तु श्रुत्वा दृष्ट्वा पुरीं पुरः ॥३७॥
 उद्धवं मंत्रिणां श्रेष्ठं प्राह रुक्मवतीसुतः ॥
 अनिरुद्ध उवाच -
नगरीयं नदितीरे कस्य भूपस्य राजते ॥३८॥
 तुरंगमो गतोऽस्त्यस्यामिति मन्ये त्वहं किल ॥
 इति तद्वाक्यमाकर्ण्य प्राह कृष्णसखो मुदा ॥३९॥
 उद्धव उवाच -
इंद्रनीलस्य नगरी नाम्ना माहिष्मती शुभा ॥
 महेशपूजनरता वर्णा यस्यां वसंति हि ॥४०॥
 नृपेणानेन वृष्णीश नर्मदायास्तटे पुरा ॥
 द्वादशवर्षपर्यंतं पूजितो नर्मदेश्वरः ॥४१॥
 ततः शिवः प्रसन्नोऽभूदुपचारैश्च षोडशैः ॥
 तस्मै स्वदर्शनं दत्त्वा वरार्थं तमनोदयत् ॥४२॥
 महेशस्य वचः श्रुत्वा नृपो माहिष्मतीपतिः ॥
 भूत्वा कृतांजली रुद्रं प्राह गद्‌गदया गिरा ॥४३॥
 ईशान त्वां नमस्येऽहं नर्मदेशं जगद्‍गुरुम् ॥
 पुरुषाणां सकामानां कामरूपसुरद्रुमम् ॥४४॥
 त्वत्तः प्रदातुः कांक्षेऽहं वरमेतन्महेश्वर ॥
 देवदैत्यनरेभ्यस्त्वं रक्ष मां सर्वदा भयात् ॥४५॥
 इति तद्वाक्यमाकर्ण्य कृत्तिवासा मुदान्वितः ॥
 तथास्तु चोक्त्वा राजेंद्र ततश्चांतरधीयत ॥४६॥
 तस्मादेष नृपः शूरो हयं तुभ्यं न दास्यति ॥
 विना युद्धेन रुद्रस्य वरात्कंदर्पनंदन ॥४७॥
 इत्थमौपगवेर्वाक्यमनिरुद्धो निशम्य च ॥
 बली धैर्येण प्रत्याह यादवानां च शृण्वताम् ॥४८॥
 नृपस्यैतस्य रुद्रस्तु सहायस्ते ह्युदाहृतः ॥
 तथा कृष्णस्तु भगवाञ्छृणु मंत्रिन्ममोपरि ॥४९॥
 इत्युक्त्वा यादवैः सार्द्धं वीरो रुक्मवतीसुतः ॥
 हयस्य मोचनार्थं वै नृपं जेतुं मनो दधे ॥५०॥
 ततः परिघनिस्त्रिंशगदाचापपरश्वधैः ॥
 बभूवुर्यादवाः सज्जाः प्राद्युम्नौ दंशिते स्थिते ॥५१॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
अनिरुद्धप्रयाणं नाम चतुर्दशोऽध्यायः ॥१४॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता