गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०६ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०७
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०८ →



अश्वमेधखण्डः - सप्तमोऽध्यायः

उग्रसेनस्य अश्वमेधयज्ञोद्योगम् -


गर्ग उवाच -
देवर्षिश्चैकदा राजन्दृष्ट्वा रामं च केशवम् ॥
 स्ववीणां वादयन्कृष्णगाथां गायन्समाययौ ॥१॥
 ब्रह्मलोकात्सर्वलोकान्पश्यन्भास्करसन्निभः ॥
 साकं तुंबरुणा पिंगजटाभारेण शोभितः ॥२॥
 किंचिच्छ्यामो मृगाक्षश्च काश्मीरतिलकैर्वृतः ॥
 पीतेन धौतवस्त्रेण तथा पीतांबरेण च ॥
 रंगवल्लीमालया च व्रजस्त्रीचंदनेन च ॥
 वृद्धः पंचदशाब्दैश्च मंडितः शुशुभे बहु ॥४॥
 दृष्ट्वा तमागतं राजा शक्रसिंहासने स्थितः ॥
 सुधर्मायां स चोत्थाय नत्वा सिंहासनं ददौ ॥५॥
 तदंघ्री चावनिज्याथ कृत्वा पूजनमुत्तमम् ॥
 तज्जलं मस्तके धृत्वा चोग्रसेनस्तमब्रवीत् ॥६॥
 उग्रसेन उवाच -
अद्य मे सफलं जन्म सफलं सदनं च मे ॥
 अद्यमे सफलश्चात्मा देवर्षे तव दर्शनात् ॥७॥
 नमस्तस्मै भगवते नारदाय महात्मने ॥
 कामक्रोधविहीनाय ऋषीणां प्रवराय च ॥८॥
 किमर्थमागतोऽसि त्वमाज्ञां कुरु ममोपरि ॥
 निशम्य वचनं तस्य ऋषिर्निर्जरदर्शनः ॥९॥
 उवाच नृपशार्दूलं मनसा नोदितो हरेः ॥
 नारद उवाच -
यादवेंद्र महाराज धन्यस्त्वं पृथिवीपते ॥१०॥
 त्वद्‌भक्त्या कौ निवसति बलेन सह केशवः ॥
 राजसूयः क्रतुवरः पुरा मद्वचनात्त्वया ॥११॥
 कृतः श्रीकृष्णकृपया द्वारकायां सुखेन च ॥
 येन त्रिलोके ते कीर्तिर्नृप विस्तारिता भुवि ॥१२॥
 राजसूयाश्वमेधौ च कठिनौ मंडलेश्वरैः ॥
 हरिभक्तस्य राजेन्द्र सुलभौ चक्रवर्तिनः ॥१३॥
 द्वयोर्मध्ये कृतश्चैको राजसूयस्त्वया नृप ॥
 तथा युधिष्ठिरेणापि कृतः कृष्णाज्ञया ततः ॥१४॥
 द्वापरांते भारते तु हयमेधः क्रतूत्तमः ॥
 न कृतः केन राज्ञापि मुक्तिदस्त्वघनाशनः ॥१५॥
 द्विजहा विश्वहा गोघ्नो वाजिमेधेन शुद्ध्यति ॥
 तस्माद्वरं च यज्ञानां हयमेधं वदंति हि ॥१६॥
 निष्कारणं नृपश्रेष्ठ वाजिमेधं करोति यः ॥
 व्रजेत्सुपर्णकेतोः स सदनं सिद्धदुर्लभम् ॥१७॥
 इति देवर्षिवचनमुग्रसेनो निशम्य च ॥
 हयमेधं यज्ञवरं कर्तुं चक्रे मतिं नृप ॥१८॥
 तदैव सह रामेण कृष्णं वीक्ष्यागतं नृपः ॥
 पूजयित्वाऽऽसने स्थाप्य साकं च ऋषिणाब्रवीत् ॥१९॥
 उग्रसेन उवाच -
देवदेव जगन्नाथ जगदीश जगन्मय ॥
 वासुदेव त्रिलोकेश शृणुष्व वचमं मम ॥२०॥
 मत्पुत्रेण च कंसेन बालकाश्च सहस्रशः ॥
 विनापराधेन हरे मारिताश्च महासुरैः ॥२१॥
 तस्य मुक्तिश्च गोविंदं कथं भवति पापिनः ॥
 कस्मिँलोके गतः कंसो बालाघाती वदस्व मे ॥२२॥
 तस्य पापेनाहमपि भीतोऽस्मि जगदीश्वर ॥
 पुत्रस्य पापेन पिता नरके पतति ध्रुवम् ॥२३॥
 पितुः पापेन पतति निरये हि तथा सुतः ॥
 तस्माच्च किं कारिष्येऽहमुपायं वद माधव ॥२४॥
 कथितं नारदेनाद्य तच्छृणुष्व जगत्पते ॥
 विप्रहा विश्वहा गोघ्नो हयमेधेन शुध्यति ॥२५॥
 तस्मिन् यज्ञे मनो मेऽस्ति यदि चाज्ञां प्रदास्यसि ॥

 गर्ग उवाच -
इति तस्य वचः श्रुत्वा मुदा मदनमोहनः ॥२६॥
 मनसि प्राह संपश्यन्धरां भारेण पीडिताम् ॥
 अहो मया तु बहुशो धराभारोऽवतारितः ॥२७॥
 तथापि सति कौ मध्ये सोऽश्वमेधेन नश्यति ॥
 नाहं हनिष्ये शत्रून् वै स्वहस्तेन मृधांगणे ॥२८॥
 इति प्रतिज्ञा तु कृता विदूरथवधे मया ॥
 तस्माच्च प्रेषयिष्यामि स्वपुत्रान् यादवांस्तथा ॥२९॥
 जेतुं वसुंधरां सर्वां हयमेधमिषेण च ॥
 इति वार्तां वज्रनाभे विष्वक्सेनो विचार्य च ॥३०॥
 सुधर्मायां च प्रहसन्नुग्रसेनमुवाच वै ॥
 श्रीकृष्ण उवाच -
मया हतो महाराज कंसो वैकुंठमंदिरम् ॥३१॥
 गतो भूत्वा ममाकारः नित्यं वसति तत्र वै ॥
 तथा त्वमपि राजेंद्र विपापो दर्शनान्मम ॥३२॥
 तथापि हयमेधं त्वं यशोऽर्थे कुरु भूपते ॥
 यज्ञेन ते महत्कीर्तिः पृथिव्यां च भविष्यति ॥३३॥
 इति तत्कथितं श्रुत्वा कृष्णस्याक्लिष्टकर्मणः ॥
 उवाच परमं वाक्यमुग्रसेनो मुदा नृप ॥३४॥
 राजोवाच
 अद्य देव करिष्येऽ‍हमश्वमेधं क्रतूत्तमम् ॥
 स भविष्यति शीघ्रं वै गोविंद कृपया तव ॥३५॥
 हयमेधस्य च विधिं सर्वं मे ब्रूहि विस्तरात् ॥
 इति श्रुत्वा च तद्वाक्यमवोचद्विष्टरश्रवाः ॥३६॥
 हयमेधविधिं पृच्छ देवर्षिं नारदं प्रति ॥
 स तवाग्रे च वदति सर्वज्ञाता यदूद्वह ॥३७॥
 इति वाक्यं हरेः श्रुत्वा यदुराजो मुदान्वितः ॥
 सभायां संस्थितं राजन्देवर्षिं निजगाद ह ॥३८॥
 तुरंगः कीदृशो भाव्यः कतिसंख्या द्विजोत्तमाः ॥
 दक्षिणा कीदृशी ब्रह्मन् वद मे कीदृशं व्रतम् ॥३९॥
 उग्रसेनस्य वचनमाकर्ण्य देवदर्शनः ॥
 स्मयमान इव प्राह प्रीत्या कृष्णं विलोकयन् ॥४०॥
 श्रीनारद उवाच -
चंद्रवर्णं रक्तमुखं पीतपुच्छं मनोहरम् ॥
 सर्वांगसुंदरं दिव्यं श्यामकर्णं सुलोचनम् ॥४१॥
 प्रवदंति महाराज यज्ञेऽस्मिन्हयमीदृशम् ॥
 मधुमासे पूर्णिमायां मोच्योऽयं घोटको नृप ॥४२॥
 महावीरैः पालनीयो वर्षमात्रं हयोत्तमः ॥
 अश्वस्यागमनं यावद्‌भविष्यति स्वके पुरे ॥४३॥
 निवसेद्धैर्यसंयुक्तस्तावत्कर्ता प्रयत्‍नतः ॥
 यत्र यत्र पुरीषं च मूत्रं च कुरुते हयः ॥४४॥
 कर्तव्यं हवनं विप्रैर्दातव्यं गोसहस्रकम् ॥
 संलिख्य कांचनं पत्रं स्वनामबलचिह्नितम् ॥४५॥
 हयस्य भाले बद्ध्वा च कथनीयमिदं वचः ॥
 सर्वे शृणुत राजानो विमुक्तोऽस्ति हयो मया ॥४६॥
 कश्चिद्‍भूयः श्यामकर्णं प्रतिगृह्णातु चेद्बलात् ॥
 गृह्णाति यस्तं मानेन स जेतव्यो बलात्स्वयम् ॥४७॥
 विप्रा विंशतिसाहस्रा यज्ञादौ कीर्तिता नृप ॥
 वेदज्ञाः सर्वशास्त्रज्ञाः कुलीनाश्च तपस्विनः ॥४८॥
 अत्र ते कथयिष्यामि समर्थस्त्वं शृणुष्व च ॥
 वाजिमेधे महाराज विप्राणां दीर्घदक्षिणाम् ॥४९॥
 तुरगाणां सहस्रं च गजानां शतमेव च ॥
 द्विशतं स्यंदनानां च सहस्रं च गवां तथा ॥५०॥
 विंशद्‌भारं सुवर्णानां प्रदातव्यं द्विजे द्विजे ॥
 यज्ञस्यादौ तथा चांते ईदृशी दक्षिणा मता ॥५१॥
 असिपत्रव्रतं कृत्वा ब्रह्मचर्यसमन्वितः ॥
 कौ पत्‍न्या सार्द्धमेकत्र कुर्याच्च शयनं नीशि ॥५२॥
 वर्षमात्रं महाराज कर्तव्यं व्रतमीदृशम् ॥
 दीनानां च प्रदातव्यमन्नं वा बहुशो धनम् ॥५३॥
 विधिनानेन राजेंद्र क्रतुरेष भविष्यति ॥
 असिपत्रव्रतयुतो बहुपुत्रफलप्रदः ॥५४॥
 भीष्मं विना हि मदनं को विजेतुं भवेन्नरः ॥
 तस्माद्‌भीता न कुर्वंति कठिनं चैनमद्‌भुतम् ॥५५॥
 कामं प्रतिविजेतुं वै शक्तिस्ते विद्यते यदि ॥
 कुरु गर्गं समाहूय यज्ञारंभं नृपोत्तम ॥५६॥


इति श्रीगर्गसंहितायामश्वमेधखंडे
यज्ञोद्योगवर्णनं नाम सप्तमोऽध्यायः ॥७॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता