गरुडपुराणम्/विषयानुक्रमणिका

विकिस्रोतः तः

आचारकाण्डम्
१ पुराणारंभे व्यासमुनिकृतं मङ्गलाचरणम्, नैमिषे सूतं प्रति जगदुत्प-
त्तिस्थितिलयकर्तृर्भगवतोऽवतारमनुवंशवर्णाश्रमादिविषयकः शौन-
कादिऋषीणां प्रश्नः, सूतकृतं संक्षेपतो भगवदवतारक्रमवर्णनम्,
ऐतत्पुराणप्रवृत्तिनिरूपणञ्च ।।
२ भगवत्प्रसादतो ऋषिकश्यपायास्याः पुराणसंहिताया गरुडनिरूपितत्वात्-
 गारुडेत्यभिधानम्, विष्णो रूद्वेन रुद्रतो ब्रह्मणा ब्रह्मतो
व्यासेन व्यासतः सूतेन श्रुतस्यास्य पुराणस्य मुन्यग्रे प्रतिपादनम्,
सर्गप्रतिसर्गमन्वन्तरवर्णधर्माश्रमादिविषयको रुद्रस्य विष्णवे प्रश्नः,
तत्प्रश्नोत्तरप्रदानाय विष्णुकृतं गारुडपुराणोपक्रमणञ्च ।।
३ यच्छ्रवणात् कश्यपो दग्धं वृक्षमजीवयत्, यत्प्रभावतो गरुडस्या-
सामान्यशौर्यलाभः, यत्र व्यवहारव्रतदानधर्मादिनिरूपितम्, तदेव
पुराणं व्यासं नमस्कृत्य मया व्याख्यायते इति सूतस्य शौनकादि-
श्रोतृसंमुखीकरणम् ।।
४ सर्गविषयकं रुद्रप्रश्नं श्रुत्वा भगवतो वैकृतप्राकृतभेदेन सुराद्यस्थाव-
रान्तसृष्टिसमुद्भवनिरूपणम् ।।
५ ब्रह्मणः सप्तर्षिमरीच्यादिसंभवः, तस्यैवाङ्गुष्ठतः सभार्यदक्षोत्पत्तिः,
दक्षकन्यायाः सत्याः शिवापमानात् हयमेधयज्ञे देहं परित्यज्य
हिमालयान्मेनकायामाविर्भवनम्, शिवाद्विनायकोत्पत्तिश्च ।।
६ स्वायंभुवमनोः शतरूपायां प्रियव्रतोत्तानपादयोः संभवः, उत्तानपाद-
तः सुनीत्यां सुरुच्यां च ध्रुवोत्तमोत्पत्तिः, कश्यपाददित्यां द्वादशा-
दित्योत्पत्तिः, दित्यादीनां वंशवर्णनञ्च ।।
७ सूर्यादीनां सशक्तिकायाः सरस्वत्याश्च मन्त्रनिरूपणम्, पूजाविधानञ्च ।।
८ भगवतो विष्णोः पूजाविधिसिद्धये वज्रनाभमंडलनिर्माणनिरूपणम् ।।
९ विष्णुदीक्षाप्रतिपादनस्वीकरणयोः शिष्यगुरुकृत्यनिरूपणम् ।।
१० पद्मगर्भमंडलस्थितदेवतावाहनपूर्वकं मंडलमध्ये मन्त्रसहितमहालक्ष्मी-
पूजननिरूपणम् । ।
११ विस्तरेण नवव्यूहार्चनविरूपणम् ।।
१२ करकायन्यासकथनपूर्वकं हृत्स्थयोगपीठेगोपांगदेवतासहितविष्णुपूजा
नुक्रमनिरूपणम् ।।
१३ महिषासुरविनाशनाय कात्यायनीप्रथमपठितस्य विष्णुपंजराख्यस्तोत्र-
स्य निरूपणम् ।।
१४ विष्णुलोकप्रापकहरिध्यानयोगनिरूपणम् ।।
१५ श्रवणपठनफलकथनपर्वूकं विष्णुनामसहस्रस्तोत्रनिरूपणम् ।।
१६ प्रथमं हरिध्यानं निरूप्य श्रीसूर्यमंत्रकथनम् ।।
१७ पूर्वं धनदाय निरूपितस्य अष्टपत्र कमलस्य कक्षात्रयस्थितदेवतावर्णनम्, तन्मध्ये सूर्यस्य पूजाविधिकथनम् ।।
१८ मन्त्रोद्धारपूर्वकं ध्यानसहितामृतेशमृत्युञ्जयपूजानिरूपणम् ।।
१९ आशीविषविषनिवारणक्षमगरुडदैवतप्राणेश्वरविद्यानिरूपणम् ।।
२० विषनिवारणविपक्षससमुन्मूलनादिनानाविधक्रियासाधकमन्त्रवृन्दनिरूपणम् ।।
२१ पञ्चवक्त्रायाः शिवमूर्तेः पूजाविधिनिरूपणम् ।।
२२ होमविधानकथनपूर्वकं शिवार्चनप्रकारनिरूपणम् ।।
२३ मन्त्रोद्धारकथनपूर्वकं पीठाधिष्ठितदेवतावाहनादिनिरूप्य शिवार्चनपद्धतिप्रतिपादनम् ।।
२४ त्रिपुरामन्त्रकथनपूर्वकं तत्पूजनहवनजपविधानकथनम् । ।
२५ मनुनिरूपणपूर्वकं तत्तदासनस्थितपादुकापूजनविधिकथनम् ।।
२६ पूजाजपहोमांगभूतकरन्यासादिनिरूपणम् ।।
२७ नानाविधविषधरनागादिविषनिवाणमन्त्रनिवेदनम् ।।
२८ द्वारपालादिदेवताकथनपूर्वकं समन्तश्रीगोपालपूजाविधिनिरूपणम् ।।
२९ त्रैलोक्यगतजीववशंकरमोहिनीमंत्रनिरूपणम् ।।
३० करन्यासमुक्त्वा स्वस्तिकाख्यमण्डलाधिष्ठितदेवतानिवेदनपुरःसरं श्रीधरार्चननिरूपणम् ।।
३१ अंगन्यासं विधायपीठस्थितदेवतावाहनार्थनाममन्त्रान्निरूप्य च विष्णुपूजाविधिकथनम् ।।
३२ न्यासपीठदेवतावाहनपूर्वकं पञ्चतत्त्वदेवतापूजनविधिनिरूपणम् ।।
३३ ग्रहरोगादिपीडानिरसनकारिसुदर्शनाख्यचक्रार्चनविधिनिरूपणम् ।।
३४ न्यासकथनपूर्वकं नवाक्षरमंत्रसहितहयग्रीवार्चनविधिनिरूपणम् ।।
३५ ऋषिदेवतागोत्रविनियोगन्याससहितगायत्रीनिरूपणम् ।।
३६ द्विजाशेषदुरितौघनिवारकप्रातर्मध्याह्नसायंसंध्याविधिनिरूपणम् ।।
३७ महापापविनाशकगायत्रीकल्पनिरूपणम् ।।
३८ साधककार्यसिद्धिकरदुर्गाजपपूजाहवनबलिमन्त्रनिरूपणम् ।।
३९ विष्णुलोकप्रापकश्रीसूर्यार्चनविधिनिरूपणम् ।।
४० तत्त्वन्यासध्यानमुद्रादर्शनमन्त्रोद्धारपूर्वकश्रीमहेश्वरपूजाविधिकथनम् ।।
४१ स्त्रीलाभशत्रूच्चाटानकरमन्त्रनिरूपणम् ।।
४२ आषाढश्रावणमाघेषुकस्मिंश्चिदपि महेश्वरस्य पवित्रारोपणात् संवत्सरकृतशिवपूजनसाफल्यनिरूपणम् ।।
४३ प्रावृट्काले विष्णोः पवित्रारोपणतः संवत्सरकृतविष्णुपूजासाफल्यनिरूपणम् ।।
४४ अकामसकामाभीप्सितप्रदब्रह्ममूर्तिध्याननिरूपणम् ।।
४५ धर्मार्थकाममोक्षप्रदवास्तुपूजितप्रासादमध्यार्चनीयशालग्राममूर्तिर्लक्षणनिरूपणम् ।।
४६ प्रासादारामदुर्गदेवालयमठादिवास्तुमानलक्षणनिरूपणम्।।
४७ प्रासादलिङ्गमण्डपादिशुभाशुभलक्षणनिरूपणम्।।
४८ संक्षेपतोदेवतानां मन्त्रप्रतीकसहितं प्रतिष्ठाविधिनिरूपणम् ।।
४९ समासतो ब्राह्मणक्षत्रियविट्शूद्राणां ब्रह्मचारिगृहस्थवानप्रस्थयतिसंन्यासिनां धर्मनिरूपणम् ।।
५० संक्षेपतो वर्णसामान्येन ब्राह्ममुहूर्तमारभ्य शौचाचारनिरूपणम् ।।
५१ नित्यनैमित्तिककाम्याभिधदानधर्मनिरूपणम् ।।
५२ पञ्चविधमहापातकक्षालनाय प्रायश्चित्तविधिनिरूपणम् ।।
५३ महापद्मपद्मादिनवनिधीन रूपस्वभावादिनिरूपणम् ।।
५४ भुवनकोशवर्णनप्रसंगेन पित्रा प्रियव्रतेन पुत्रेभ्यः आग्नीध्रादिभ्यः सप्तभ्यः सप्तद्वीपानि परिकल्प्य दत्तानि, तत्र जंबुद्वीपेश्वरस्याग्नीध्रस्य नाभिप्रभृतिनवपुत्राणां नवखण्डेषु प्रजापालनम्,नाभेर्मेरुदेव्यां ऋषभाविर्भावः, ऋषभतो भरतजन्म, संक्षेपतस्तद्वंशवर्णनञ्च ।।
५५ जंबूद्वीपमध्ये भारतादिनववर्षाणां दिग्भेदेनावस्थानकथनम्, भारते किरात-यवन-आन्ध्र-ब्राह्मणादीनां दिग्भेदेन स्थितिकथनम्, महेन्द्रादिपर्वतनिरूपणम्, तापीपयोष्णीप्रभृतिनदीवर्णनञ्च ।।
५६ प्लक्षद्वीपादीनामीधपतीनां सन्तानवर्णनम्, तत्रत्यनदीपर्वतसमुद्रपरिखावर्णनम्, लोकालोकवर्णनञ्च ।।
५७ भूम्युदरे दैत्यभुजंगादिनिवासस्थानसप्तपातालवर्णनम्, पुष्करद्वीपे रौरवादिनरकवर्णनञ्च ।।
५८ चैत्रादिमासेषु सूर्यमुनिगन्धर्वाप्सरोनागादीनां पृथक्पृथग्वर्णनम्, सूर्यस्य रथाश्वादिवर्णनम्, सोमादीनां रथादिवर्णनञ्च ।।
५९ कृत्तिकादीनां सप्तविंशतिनक्षत्राणामग्न्यादिदेवतानिरूपणम्, प्रतिपदादितिथिषु योगिनीसांमुख्येनगमने कार्यनाशकथनम्, वापीतडा-
गादिखननयोग्यनक्षत्रनिरूपणम्, राज्याभिषेकादिनक्षत्रकथनम्, अमृतादियोगनिरूपणञ्च ।।
६० आदित्यादिनवग्रहदशानिरूपणम्, तत्तद्दशानां शुभाशुभफलकथनम्, अंगारकादीनां स्वक्षेत्रमेषादिराशिनिरूपणम्, यात्रायां शुभाशुभकारकवस्तुकथनम्, हिक्कालक्षणकथनम्, सप्तविंशतिनक्षत्राधिष्ठितनराकाररविचक्रतो नरस्य शुभाशुभयोगनिरूपणञ्च ।।
६१ द्वादशस्थानस्थितचंद्रस्य फलकथनम्, तन्वादिषु शुभाशुभफलप्रदग्रहनिरूपणञ्च ।।
६२ लग्नघटिकाप्रमाणेन कार्याकार्यविचारणम्, द्वादशलग्नतः कन्यायाः शुभाशुमकथनम्, चरस्थिरद्विस्वभावराशिनिरूपणम्, तत्तत्फलकथनञ्च ।।
६३ सामुद्रिकानुसारेण पुँल्लक्षणहस्तरेखाफलनिरूपणम् ।।
६४ सामुद्रिकानुसारतः स्त्रीलक्षणहस्तरेखाफलनिरूपणम् ।।
६५ विस्तरतः सामुद्रिकानुसारेण स्त्रीनरलक्षणम् ।।
६६ ज्योतिःशास्त्रनिरूपितशालग्रामशिलालक्षणषष्ट्यब्दस्वरोदयानांसंक्षपतो निरूपणम् ।।
६७ संक्षेपतः स्वरोदयानुसारेण वामदक्षनाडीस्वरतः शुभाशुभकार्यप्रवृत्तिनिरूपणम् ।।
६८ यज्ञे वरव्याजेन पशुतां याचमानैर्बलासुरपरिभूतैर्देवतैः परासुतामापादितस्यास्यासुरस्यास्थिसमुद्भूतानां वज्रादिरत्नविशेषाणां परीक्षादिवर्णनम् ।।
६९ मुक्ताफलानां समुद्भवस्थानप्रमाणमूल्यपरीक्षादिनिरूपणम् ।।
७० असुरासृक्संजातपद्मरागाभिधरत्नस्योत्पत्तिस्थानपरीक्षणमूल्यादिनिरूपणम् ।।
७१ दानवपित्ततः समुद्भूतस्य मरकतस्य गुणदोषमूल्यादिनिरूपणम् ।।
७२ इन्द्रनीलाख्यरत्नोत्पत्तिस्थानपरीक्षादिनिरूपणम् ।।
७३ वैदूर्यरत्नसमुद्भवस्थानमूल्यपरीक्षणशुभाशुभादिनिरूपणम् ।।
७४ पुष्परागरत्नोत्पत्तिमूल्यगुणादिपरीक्षानिरूपणम् ।।
७५ कर्केतनाख्यरत्नोत्पत्तिधारणगुणपरीक्षणनिरूपणम् ।।
७६ भीष्मनामकरत्नोत्पत्तिधारणगुणमूल्यपरीक्षणादिनिरूपणम् ।।
७७ पुलकाख्यरत्नोत्पत्तिधारणगुणमूल्यपरीक्षणनिरूपणम् ।।
७८ रुधिराक्षाभिधरत्नोत्पत्तिमूल्यगुणपरीक्षावर्णनम् ।।
७९ स्फटिकोत्पत्तिधारणगुणमूल्यपरीक्षानिरूपणम् ।।
८० विद्रुमोत्पत्तिस्थानगुणमूल्यपरीक्षणवर्णनम् ।।
८१ संक्षेपतो गंगादिसर्वतीर्थवर्णनम् ।।
८२ गयासुरस्य महता तपोबलेन तापितानां देवानां वचनात् हरिणा क्षीराब्धितः कमलान्यानीय शिवपूजनं तैः परिकल्प्य साष्टांगप्रणतस्य गदा
प्रहारेण हननात् पञ्चक्रोशपरिमितस्य कीकटदेशान्तर्भागस्य गयाक्षेत्राभिधानं तन्माहात्म्यवर्णनञ्च ।।
८३ संक्षेपतः पितृगणोद्धारकपञ्चक्रोशपरिमितगयाक्षेत्रस्थितयात्रावर्णनम् ।।
८४ श्राद्धं विधाय कार्पटिकवेषधारी पादचारी नरो गयायां गयशीर्षे पितृभ्यः पिडान्निर्वपेत् तेन पितृणां सल्लोकाप्तिरिति दर्शयितुं मध्ये संक्षेपेण पिशाचवणिक्संवादनिरूपणम् ।।
८५ गयायां पिंडदानयोग्यानां मन्त्राणां निरूपणम् ।।
८६ गयायां मुण्डपृष्ठे प्रेतशिलास्ति तत्र गदाधरसहिताः सर्वे देवा निवसन्ति ततस्तत्र पिंडनिर्वपणात्पितॄणां निरयगतानामपि परमगतिलाभनिरूपणम् ।।
८७ संक्षेपतश्चतुर्दशमन्वंतरस्थमनुतत्पुत्रसप्तर्षिदेवगणभगवदवतारदैत्यनाशादीनांवर्णनम् ।।
८८ दारपरिग्रहं दुःखपापाधोगतिमूलं मन्यमानेन रुच्यभिधप्रजापतिनाऽअनग्निकेन विचरता पितृणां समागमःतत्र विना सुतं उभयोरपि गत्यलाभ इति सम्यगुपदिश्य पितॄणामंतर्धानञ्च ।।
८९ कन्याभिलाषी कन्यामलभमानो रुचिस्तपस्यया ब्रह्माणं संतोष्य तत्कथनात् पितॄंस्तुष्टाव तुष्टेभ्यः पितृभ्यस्तस्य सुंदरीं भार्यां प्राप्य तस्यां मन्वन्तरकर्ता पुत्रो भविष्यतीति वरलाभः, पितृस्तोत्रपठनश्रवणफलकथनञ्च ।।
९० वरुणपुत्रात्पुष्करात्प्रम्लोचायामुत्पन्नाया मानिन्या रुचिना सह विवाहः, रुचेर्मानिन्यां रौच्यमनोरुत्पत्तिश्च ।।
९१ स्वायंभुवादिमुनिभिर्हृदि ध्यातस्य हरेर्भगवतो ध्याननिरूपणम् ।।
९२ भगवतो हरेर्मूर्तामूर्तध्यानमध्ये पूर्वाध्यायोक्तादमूर्तध्यानादन्यस्य मूर्तध्यानस्य निरूपणम् ।।
९३ मिथिलायां मुनिपृष्टयाज्ञवक्त्येन निरूपितेषु वणर्धर्मादिषु गर्भाधानमारभ्य चूडान्तं खीणाममन्त्रकसंस्कारकरणं विवाहस्य समन्त्रकत्वनिरूपणञ्च ।।
९४ ब्राह्मणक्षत्रियविशामुपनयनकालकथनपूर्वकं ब्रह्मचर्याश्रमधर्मनिरूपणम्
९५ वर्णत्रयस्य ब्राह्मादिविवाहविधीनुक्त्वा संक्षेपतो गृहस्याश्रमधर्मनिरूपणम् ।।
९६ संकरोत्पन्नानां नामनिरूपणपर्वूकं विशेषतो गार्हस्थ्यावश्यककर्मनिरूपणम् ।।
९७ सौवर्णराजतादिपात्राणां तथाऽन्येषामपि द्रव्याणां याज्ञवल्क्योक्तशुद्धिनिरूपणम् ।।
९८ प्रथमं पात्रमुक्त्वा प्रतिग्रहाधिकार्यनधिकारिगुणदोषाविष्ककरणसहितदानधर्मनिरूपणम् ।।
९९ अमावास्यादिकालकथनपूर्वकं श्राद्धविधिनिरूपणम् ।।
१०० विनायकाख्यग्रहोपसृष्टस्य लक्षणानि प्रतिपाद्य तत्पीडानिरसनायाम्बिकापूजाविधिनिरूपणम् ।।
१०१ ग्रहदृष्ट्यभिचारशान्तये मन्त्रप्रतीककथनपूर्वकं सूर्यादिनवग्रहशान्तिदानादिनिरूपणम् ।।
१०२ संक्षेपतो वानप्रस्थाश्रमधर्मनिरूपणम् ।।
१०३ समासतो याज्ञवल्क्यनिरूपितसंन्यासिधर्मनिरूपणम् ।।
१०४ नरस्य संचितपातकानिनरकयातनाभोगेन क्षपयित्वाऽवशिष्टपातकांशेन नानाविधदेहरोगादिधारणनिरूपणम् ।।
१०५ ब्रह्महत्यादिपञ्चविधमहापापोपपातककथनपर्वूकं प्रायश्चित्तविधिनिरूपणम् ।।
१०६ शावाशौचे खननाग्निदाहयोग्यकथनपर्वूकं आपद्वृत्तिनिरूपणम् ।।
१०७ सामान्यतः पराशरोक्तवर्णाश्रमधर्मनिरूपणम् ।।
१०८ शुभोदयकारिबृहस्पतिप्रोक्तनीतिमार्गनिरूपणम् ।।
१०९ संसृतौ वर्तमानस्यापि नरस्य सुखाभिवृद्धिकरनीतिकथनम् ।।
११० सुरगुरुप्रणीतनीतिकथनम् ।।
१११ नीतिसारनिरूपणम् ।।
११२ भृत्यस्वामिगुणदोषनिरूपणम् ।।
११३ नीतिनिरूपणम् ।।
११४ नीतिप्रतिपादनम् ।।
११५ शौनकोक्तनीतिसारनिरूपणम् ।।
११६ भगवत्तोपकरप्रतिपदाद्यमान्ततिथिव्रततद्देवतानिरूपणम् ।।
११७ मार्गशीर्षे सिते पक्षे त्रयोदश्यां शिवस्य धत्तूरपुष्पैः पूजनवर्णनम्, पौषादिष्वपि देवतापुष्पनैवेद्यभेदकथनपूर्वकमनङ्गत्रयोदशीव्रतनिरूपणम् ।।
११८ श्रीविष्णुप्रीतिकराखण्डद्वादशीव्रतनिरूपणम् ।।
११९ सिंहगते भास्करे दिनत्रयात्मकागस्त्यार्घ्यव्रतनिरूपणम् ।।
१२० सौभाग्यश्रीसुतादिफलप्रदरम्भातृतीयाव्रतनिरूपणम् ।।
१२१ संक्षेपतो भगवत्संतोषकरचातुर्मास्यव्रतनिरूपणम् ।।
१२२ आश्विनशुक्लैकादशीमारभ्य कार्तिकशुक्लैकादशीपर्यंतमासोपवासव्रतनिरूपणम् ।।
१२३ भगवत्प्रीणनाय कार्तिक एकादशीमारभ्य पौर्णमासीपर्यंतं भीष्मपंचकव्रतनिरूपणम् ।।
१२४ माघकृष्णचतुर्दश्यां शिवरात्रिव्रतमुक्त्वा तन्माहात्म्यप्रख्यापनाय सकुक्कुरस्य सुन्दरसेनकाख्यनिषादस्य चतुर्दश्यां मृगयायां किमप्यशनमलब्ध्वा बिल्ववृक्षावस्थितस्य रात्रौ मृगाशया जागरणोदृष्टिरोधकबिल्वपत्राणां शिवोपरि प्रक्षेपेण तस्य शिवलोकावाप्तिकथनम् ।।
१२५ उपोष्यानुपोष्याविचारप्रकाशनपूर्वकमेकादशीव्रतनिरूपणम् ।।
१२६ परमगतिप्रदनारायणार्चनविधिनिरूपणम् ।।
१२७ भीमोपोषिता सूर्यनक्षत्रयुता माघशुक्लैकादशी सर्वपातकहारिणी पितॄणां मुक्तिप्रदा, तस्यां स्वर्णवराहदेवतापूजनविधिः, एकादशीव्रतविधिश्च ।।
१२८ समग्रफलावाप्तिकामस्य व्रतकर्तुः सामान्यतो नियमसूचनाय व्रतपरिभाषानिरूपणम् ।।
१२९ प्रतिपत्तृतीयाचतुर्थीदृष्टोद्धारपंचमीव्रतनिरूपणम् ।।
१३० मरीचसप्तमी-फलसप्तमी-ओदनसप्तमी-विजयसप्तमीव्रतनिरूपणम् ।।
१३१ भाद्रशुक्लाष्टम्यां दूर्वाष्टमीव्रतनिरूपणम्, कृष्णाष्टम्यां रोहिणीयोगे श्रीकृष्णजन्मोत्सवव्रतनिरूपणम् ।।
१३२ बुधवारेण युक्तायां पौषाष्टम्यां जलाशये बुधस्य पूजनविधिः, पाटलिपुत्रनगरगतवीराख्यद्विजेतिहासकथनम् ।।
१३३ चैत्रमासि सिते पक्षेऽष्टम्यामशोकाष्टमीव्रतनिरूपणम्, आश्विनशुक्लाष्टम्यामुत्तराषाढायुतायां दुर्गाप्रीतिकरमहानवमीव्रतनिरूपणञ्च ।।
१३४ महाकौशिकमन्त्रकथनपूर्वक महानवम्यां ब्रह्माण्यादिमातृकादेवीपूजाविधिनिरूपणम् ।।
१३५ देवीप्रीतिकरमाश्विनशुक्लनवम्यां वीरनवमीव्रतम्, चैत्रशुक्लनवम्यां दमनकैर्देव्या वजनाद्दमनकनवमीव्रतम्, दिग्दशमीव्रतम्, एकादश्यां मरीच्यादिऋषिप्रीतये ऋष्येकादशीव्रतञ्च ।।
१३६ श्रवणनक्षत्रयुतैकादशी द्वादशी वा विजयेति प्रोच्यते तस्यां (भाद्रशुक्ल द्वादश्यां) श्रवणद्वादशीव्रतनिरूपणम् ।।
१३७ अनंगत्रयोदश्यां दमनकादिभिरशोकपूजाविधिनिरूपणम, शिवचतुर्दश्यष्टमीव्रतनिरूपणम्, कार्तिक्यां धामव्रतकथनम्, वारव्रतकथनम्, द्वादशर्क्षेषु अच्युतार्चनविधिनिरूपणश्च ।।
१३८ विष्णुनाभितो ब्रह्मा, तदंगुष्ठाद्दक्षः, तत अदितिः, अदितेः सूर्यः, ततस्तदन्वयगतानां राज्ञां वंशवर्णनम् ।।
१३९ नारायणतोऽब्जयोनिस्ततोऽत्रिस्ततः सोमः, शोमाद्गुरुपत्न्यां तारायां बुधः, कर्णसुतवृषसेनपर्यंतं तदन्वयजातनृपतिवंशवर्णनम् ।।
१४० सोमवंशे पारीक्षितजनमेजयान्तं पूरुवंशगतनृपतिकथनम् ।।
१४१ सोमवंशे जनमेजयतो भाविनृपतिवंशवर्णनम् ।।
१४२ संक्षेपतो दशावतारचरितवर्णनम, सीतापातिव्रत्यवर्णनप्रसंगेन कुष्ठिकौशिकभार्यापातिव्रत्यमाहात्म्यकथनञ्च ।।
१४३ संक्षेपतः श्रीरामचरित्रवर्णनम् ।। -
१४४ संक्षेपेण श्रीकृष्णचरितवर्णनम् ।।
१४५ संक्षेपतो भारतेतिहासकथनम् ।।
१४६ समासेन रोगाणां सामान्यतो निदाननिरूपणम् ।।
१४७ अग्निवेश्यहारीतमतानुसारेण कफवातपित्तजज्वरलक्षणनिरूपणम् ।।
१४८ संक्षेपेण रक्तपित्तरोगनिदानलक्षणोपायादिनिरूपणम् ।।
१४९ कासरोगनिदानलक्षणोपायादिनिरूपणम् ।।
१५० श्वासरोगनिदानलक्षणोपायादिनिरूपणम् ।।
१५१ हिक्कारोगनिरूपणम् ।।
१५२ राजयक्ष्मरोगनिदाननिरूपणम् ।।
१५३ अरोचकरोगनिदाननिरूपणम् ।।
१५४ हृद्रोगाम्लपित्तरोगनिरूपणम्।।
१५५ मदात्ययादिनिदानलक्षणनिरूपणम् ।।
१५५ अर्शोनिदानलक्षणनिरूपणम् ।।
१५७ अतीसाररोगनिदानलक्षणादिनिरूपणम् ।।
१५८ मूत्राघातमूत्रकृच्छ्ररोगनिदाननिरूपणम् ।।
१५९ प्रमेहरोगनिदाननिरूपणम् ।।
१६० विद्रधिगुल्मरोगनिदाननिरूपणम् ।।
१६१ उदररोगनिदानलक्षणोपायादिनिरूपणम् ।।
१६२ पाण्डुशोथरोगनिदाननिरूपणम् ।।
१६३ विसर्परोगनिदानलक्षणोपायादिनिरूपणम्।।
१६४ कुष्ठरोगनिदानलक्षणनिरूपणम् ।।
१६५ बाह्याभ्यंतरक्रिमिरोगनिदाननिरूपणम् ।।
१६६ वातव्याधिरोगनिदाननिरूपणम् ।।
१६७ वातरक्तरोगनिदाननिरूपणम् ।।
१६८ सामान्यतो वैद्यशास्त्रपरिभाषानिरूपणम् ।।
१६९ सर्वरोगाणां हिताहितविवेककार्यनुपानविधिनिरूपणम् ।।
१७० कफवातपित्तजनितज्वररोगचिकित्सानिरूपणम् ।।
१७१ नाडीव्रणरोगचिकित्सानिरूपणम्, कुष्ठरोगचिकित्सानिरूपणम्, आम्लपित्तचिकित्सानिरूपणम्, नाडीव्रणरोगचिकित्सानिरूपणञ्च ।।
१७२ स्त्रीरोगचिकित्सानिरूपणम्।।
१७३ रोगहरमधुरादिद्रव्यगुणनिरूपणम् ।।
१७४ मेधाजनकब्राह्मीघृतविधिनिरूपणम, वायुभग्नगात्रोपयोगिनारायणतैलविधिनिरूपणम्, गण्डमालापहार्य जमोदातैलनिरूपणञ्च ।।
१७५ धन्वन्तरिप्रयुक्तयोगकथनानन्तरं हरिप्रयुक्तयोगेषु ज्वरहरनानाविधयोगनिरूपणम् ।।
१७६ सप्तरात्रात्खल्वाटस्यापि केशोत्पत्तिकरस्य भृंगराजतैलस्य विधिकथनम्, कर्णरोगहारिदेवदारुतैलकथनम्, लिंगबाहुस्तनकर्णवृद्धिकारिकुष्ठादिलेपकथनम् ।।
१७७ नेत्ररोगहराञ्जनादिकथनम्, कामलाविनाशकोपायकथनम्, अग्निदग्धव्यथाहराभ्यङ्गनिरूपणम्, डाकिनीमातृकाब्रह्मराक्षसपीडानिवारकनस्यनिरूपणम्, मक्षिकामशकविनाशकधूपनिरूपणम् ।।
१७८ स्त्रीपुरुषवशीकरणधूपलेपतिलकतांबूलादिनिरूपणम् ।।
१७९ कर्णस्रावनाशकमूलकरसनिरूपणम्, अजीर्णविषूचिकाहरगुटिकानिरूपणञ्च ।।
१८० कामवन्महीविचरणार्थं धूपनिरूपणम्,स्त्रीवशीकरणलेपकथनम्,योनिसंकोचकरगुटिकाकथनम्, चातुर्थिकहरधूपकथनम्, मशकनाशकधूपकथनञ्च ।।
१८१ चक्षुःशूलहरद्रव्यकथनम्, लोमशातनलेपकथनम्, दन्तशोधनद्रव्य.निरूपणञ्च ।।
१८२ परिणामशूलाजीर्णनाशकक्वाथनिरूपणम्, अग्निस्तंभनयोगनिरूपणम्, जलस्तंभनयोगकथनम्, रिपूच्चाटनकथनम्, गुल्मनाशकलेपकथनम्,
रक्तातिसारनाशकपेयकथनञ्च ।।
१८३ ज्वरहरमन्त्रनिरूपणम्, सर्वज्वरहरधूपनिरूपणम्, कुष्ठनाशकलेपकथनञ्च । ।
१८४ अदृश्यकारकधूपकथनम्, रौप्यस्वर्णकरणयोगकथनम्, शिरःशूलविनाशकलेपकथनम, वातपित्तजशूलहारिक्वाथनिरूपणञ्च ।।
१८५ धनविद्याप्रदगणेशमन्त्रविधिकथनम्, कामिनीसोत्कामकरमन्त्रकथनम् जगद्वश्यकरतिलककथनम्, अक्षिरोगहरवर्त्तिकादिनिरूपणञ्च ।।
१८६ गण्डमालाहरलेपकथनम्, भगन्दरविनाशकलेपकथनम्,अग्निवृद्धिकरचूर्णादिनिरूपणञ्च ।।
१८७ सर्वरोगहरैकयोगकथनम्, पयोदधिगुणकथनञ्च ।।
१८८ नाडीव्रणापहयोगकथनम्, विद्रधिनाशकयोगकथनम्, ग्रहहराञ्जनधूपादिकथनञ्च ।।
१८९ स्त्रीगुल्मशूलहरयोगकथनम, धवलगुञ्जामूलपुष्पयोगकथनम्, विष्णुक्रान्तामूलयोगकथनञ्च ।।
१९० सिध्मरोगविनाशिरम्भापामार्गाभ्यञ्जनकथनम्, दुर्गन्धिनाश्युद्वर्तनकथनम्, रक्तपित्तकामलापाण्डुरोगहरयोगकथनम्, कासहरधूमपानकथनञ्च ।।
१९१ भल्लूकदन्तनिर्मितगरुडमूर्तिधरस्यभुजंगपीडानिरासकथनम्, विषहरलेपकथनम, वृश्चिकविषहरयोगकथनम्, कुक्कुरविषहरलेपकथनम्, लूताबिषहरयोगादिकथनञ्च ।।
१९२ पाण्डुरोगहरमोदककथनम्, वातविकारहारितैलयोगकथनम्,चिरकालभवव्रणहरतैलादिनिरूपणञ्च ।।
१९३ निर्मलमतिकरचूर्णकथनम्, ज्वरोन्मादहरधूपकथनम्, सर्वरोगहरविष्णुभजनपूजनादिकथनञ्च ।।
१९४ सर्वरोगोपशमक्षमवैष्णवकवचनिरूपणम् ।।
१९५ सप्तरात्रपठनाच्चित्रकेतोर्विद्याधराधिपत्यप्रापिकाया विद्याया निरूपणम्।।
१९६ अशेषवशीकरणाखिलकलुषौघौघनाशकस्वर्गाद्युत्तमपदप्रदविष्णुधर्माख्यविद्यानिरूपणम् ।।
१९७ अशेषनागजातिवशंकरगारुडमन्त्रनिरूपणम् ।।
१९८ नित्यक्लिन्नाख्यविद्यानिरूपणम् ।।
१९९ नरस्य शुभाशुभसूचनायचूडामणिसंज्ञकयन्त्रोद्धारकथनम् ।।
२०० जयापजयसूचकदक्षिणवामनासापुटगतवायुलक्षणनिरूपणम् ।।
२०१ तुरंगगजायुर्वेदस्य संक्षेपेण निरूपणम् ।।
२०२ योनिशूलहरयोगनिरूपणम,जराहरणयोगनिरूपणम्,वाजीकरणयोगकथनञ्च ।।
२०३ चतुष्पदादीनां नानौषधप्रयोगविधिनिरूपणम् ।।
२०४ वन्यौषधिनामनिरूपणम् ।।
२०५ सिद्धशब्दविवेकाय व्याकरणनिरूपणम् ।।
२०६ संहितादिषु स्थितानां सिद्धप्रयोगाणां निरूपणम् ।।
२०७ संक्षेपेण छंदःशास्त्रगतसंज्ञापरिभाषानिरूपणम् ।।
२०८ आर्यावृत्तादिछन्दोलक्षणनिरूपणम् ।।
२०९ समवृत्तछन्दोलक्षणनिरूपणम् ।।
२१० अर्द्धसमवृत्तछन्दोलक्षणनिरूपणम् ।।
२११ विषमवृत्तछन्दोलक्षणनिरूपणम् ।।
२१२ छन्दःशास्त्रगतप्रस्तारलक्षणनिरूपणम् ।।
२१३ गृहस्थाश्रमिणां सदाचारनिरूपणम् ।।
२१४ समन्त्रकस्नानविधिनिरूपणम् ।।
२१५ देवर्षिमनुष्यतर्पणनिरूपणम् ।।
२१६ वैश्वदेवनिरूपणम् ।।
२१७ ब्राह्मणावश्यानषेयसंध्याविधिनिरूपणम्
२१८ पार्वणश्राद्धविधिनिरूपणम् ।।
२१९ वृद्धिश्राद्धविधिनिरूपणम् ।।
२२० सपिण्डीकरणश्राद्धविधिनिरूपणम् ।।
२२१ सामान्यतोवर्णचतुष्टयोपकारिधर्मसारनिरूपणम् ।।
२२२ वर्णचतुष्टयोपयोगिमहापातकोपपातकप्रायश्चित्तविधिकथनम् ।।
२२३ कृतादियुगचतुष्टयवृत्तवर्तिष्यमाणधर्मादिनिरूपणम् ।।
२२४ नैमित्तिकप्राकृतिकप्रलयव्यवस्थानिरूपणम् ।।
२२५ प्रायश्चित्तमकुर्वाणस्य पातकिनो नरस्य नरकयातना उपभुज्यावशिष्टपातकफलभोगाय नानाविधप्राणिदेहधारणनिरूपणम् ।।
२२६ शमदमाद्यष्टांगयोगगतपृथक्पृथग्भेदनिरूपणम् ।।
२२७ सर्वमनोरथपूरकभगवत्प्रीतिकरविष्णुभक्तिनिरूपणम् ।।
२२८ दुर्गसंसारकान्ताराकूपारपारकराक्रूरसहचरकृष्णभक्तिनिरूपणम् ।।
२२९ श्रीपुरुषसूक्तादिभिर्विष्णुपूजाविधिनिरूपणम् ।।
२३० चराचरैकगुरोर्भगवतो विष्णोर्माहात्म्यवर्णनम् ।।
२३१ अंधकासुरविनाशाय स्वतः सृष्टानां मातॄणां जगद्भक्षणमवलोक्य तद्रक्षणाय शिवकृतश्रीनृसिंहस्तोत्रनिरूपणम् ।।
२३२ महेश्वरेण नारदाय निरूपितस्य मृत्युसंसारविमोचनस्य भगवद्ध्यानस्य माहात्म्यवर्णनम् । ।
२३३ अन्तकमतिचिक्रमिषुणा मार्कंडेयमुनिना निरूपितस्य मृत्य्वष्टकस्य कथनम ।।
२३४ ब्रह्मणा नारदाय प्रतिपादितस्य भगवत्प्रीतिकराच्युतस्तोत्रस्य निरूपणम् । ।
२३५ मुक्त्युपकारकभगवद्ध्यानकथनपूर्वकब्रह्मविज्ञानस्वरूपनिरूपणम् ।।
२३६ अतीतारब्धागामिकर्मबंधविमोचनोपयोग्यात्म्यज्ञानस्वरूपवणर्नम् ।।
२३७ अर्जुनाय भगवतोपदिष्टस्य श्रीगीतासारस्य ज्ञानयज्ञस्य संक्षेपतो निरूपणम् ।।
२३८ यमनियमासनाद्यष्टांगयोगव्यवस्थानिरूपणम् ।।
२३९ ब्रह्मगीतासारनिरूपणम् ।।
२४० मन्त्रतंत्रज्योतिषवैद्यकादिनानाविधविषयालंकृतस्य गरुडपुराणस्यैतस्य पठनश्रवणफलनिरूपणम् ।।

।। इति श्रीगरुडपुराणान्तर्गताआचारकांडस्थितविषयानुक्रमणिका ।।




'अथ गरुडपुराणगतप्रेतखंडधर्मकाण्डविषयानुक्रमणिका ।।

१ तृणजलौकेव देही देहान्तरमासादयति व याम्ययातना उपभुज्येति नैमिशे शौनकस्य सूतं प्रति प्रश्नः ऋषिसंशयमपाकरिष्णुः सूतः कृष्णगरुडसंवादात्मक प्रेतकल्पं वर्णयिष्यन् शरीरपतनसमकालमेव जीवोऽन्यासङ्गी भवति वा शरीरसंपादितसुकृताद्युपभुज्य पुत्रादिभिर्मृतस्याब्दावधिक्रिया कथं वा कार्येत्यादिप्रश्नान्वैकुंठे भगवते गरुडश्चकारेतिनिरूपयति ।।
२ गरुडप्रश्नानवधार्य भगवता विष्णुना प्रतिपादितानां मृतस्यौर्ध्वदैहिकविधिकर्मविपाकादीनां निरूपणम् ।।
३ रौरवकालसूत्रातिशीतादिनानाविधनरकयातनाप्रापकपातकनिरूपणम् उद्भिज्जस्वेदजाण्डजस्वेदजभेदेन चतुरशीतिलक्षदेहावाप्तिकथनञ्च ।।
४ प्राणान्तसमयेऽज्ञातज्ञातपातकापहरणाय नानाविधदशाष्टदानादिनिरूपणम्, संक्षेपतः शवदाहविधिनिरूपणम्, कृच्छ्रलक्षणकथनम्, धनिष्ठापंचकोपरि मृतस्यदाहविधिनिरूपणम्, शवं दग्ध्वा स्मशानतोजनागमनरजस्वलामरणविधिनिरूपणञ्च ।।
५ आशौचिनां सामान्यनियमाः, संक्षेपेणाशौचलक्षणम, अस्थिसंचयनंकालः,प्रेताञ्जलिदानप्रकारः, दशदिनपिंडदानात्कर्मभोगशरीरोत्पत्तिः वृषोत्सर्गाकरणे प्रेतत्वनिवृत्यभावः, नवश्राद्धकालनिरूपणम्, समासेनाब्दावधिकृत्यनिरूपणम्, यमभटैर्निंतान्तमापीडितस्य विलापकरणम्, वैतरणीवर्णनस्, दूतानां यमसन्निधौ जीवस्य प्रापणञ्च ।।
६ विराधनगराधिपतिवीरवाहननृपवसिष्ठसंवादेन वृषोत्सर्गविधिनिरूपणं, वशिष्ठवचनान्मथुरायां वृषोत्सर्गेण नृपस्य स्वर्लोकावाप्तिकथनञ्च ।।
१७ सन्तप्तकद्विजस्य यात्रार्थमटतो देववशान्मार्गभ्रष्टस्य महारण्ये पञ्चप्रेतैः समागमः, पञ्चप्रेतेतिहासकथनम्, प्रेतमुखतस्तेषामाचाराहारादि निरूपणम्, भगवत्कृपातो द्विजेन सह तेषां वैकुंठावाप्तिश्च ।।
८ क्रियाधिकारिनिरूपणम, और्ध्वदैहिकाकर्तुरभावे स्वतः क्रियमाणात्मश्राद्धविधिनिरूपणञ्च ।।
९ क्रियाकर्तुरभावे राज्ञोऽधिकार इति प्रदर्शयितुं बभ्रुवाहनेतिहासारंभः, राज्ञो वभ्रुवाहनस्य मार्गभ्रंशेन घोरवने प्रेतसमागमः, स्वस्य प्रेतत्वकारणमुक्त्वा तन्निवृत्तये राज्ञे प्रेतविज्ञापनम्, प्रेतपीडालिंगकथनम, राजकृतवृषोत्सर्गादिक्रियया प्रेतस्योत्तमगतिलाभनिरूपणञ्च ।।
१० श्राद्धे दत्तमन्नं द्विजशरीरे प्रविश्य पितरो भुञ्जते इति श्राद्धस्यात्यन्तावश्यकताकथनम्, पुष्करे रामेण श्राद्धनिमन्त्रितान् द्विजान् दृष्ट्वा
सीतायागुल्मान्तरेऽन्तर्धानम्, रामेण सर्वं श्राद्धं समाप्य पृष्टं सीताया दशरथादिदर्शनवर्णनम्, तृणजलौकेव जीवस्य देहावाप्तिकथनम् ।।
११ ऊर्ध्वाधोगतिशापकोत्क्रमणद्वारादिनिरूपणम् ।।
२२ अण्डजादिचतुर्भेदेन चतुरशीतिलक्षदेहनिरूपणम्, सर्वमत्र परित्यज्य जीवस्य केवलं धर्म्ममात्रयायित्वकथनञ्च । ।
१३ वृषोत्सर्गकालदानधर्मपुत्रप्रशंसावर्णनम्, आत्मश्राद्धादिनिरूपणञ्च ।।
१४ मृयमाणार्तकर्तव्यनिरूपणम्, गोदानवृषोत्सर्गदशदानभूभिदानादिविधिनिरूपणञ्च ।।
१५ मरणसमये मरणानन्तरञ्च पुत्रादिक्रियाकरणकथनम्, यमलोकविस्तारवर्णनम्, तत्रत्यानेकविधयातनावर्णनञ्च ।।
१६ यातनाशरीराश्रितस्य जीवस्य मरणानन्तरं यमदूतैर्नीयमानस्य संवत्सरान्ते यमपुरगमनवर्णनम् ।।
१७ त्रैलोक्यवृत्तपरिज्ञानाय ब्रह्मोत्पादितानां श्रमणाख्यदेवतानां माहात्म्यनिरूपणम् ।।
१८ वृषोत्सर्गोदकुंभशथ्यादिदानफलयमलोककर्मजदेहप्राप्त्यादिनिरूपणञ्च
१९ जीवस्य यममन्दिरप्रवेशवर्णनम, यमाज्ञयैव लब्धमनुष्यादिनानाविधदेहान्तरप्राप्तिवर्णनञ्च ।।
२० चतुरशीतिलक्षनरकयातना उपभुज्य वात्यारूपेण प्रेतानां स्वगृहमित्रगृहादिषु पीडोत्पादनम, तेषां पानाशनासनादिनिरूपणम, तद्बाधाप्रकारनिरूपणञ्च ।।
२१ प्रेतपीडानिरसनाय प्रेतस्य प्रेतत्वमुक्तये च तदुद्देशेनायुतगायत्रीजपकृष्णबलिवृषोत्सर्गादिनिरूपणम् ।।
२२ जीवस्य प्रेतत्वप्रापकदुष्कर्मनिरूपणम्, भीष्मयुधिष्ठिरसंवादेन संतप्तकाख्यद्विजेतिहासकथनम् तत्र प्रेताहारप्रेतावासनिरूपणम्, प्रेतत्वाप्रापकसदाचारवर्णनञ्च । ।
२३ प्रेतकृतिस्वरूपचिह्नस्वप्नादिनिरूपणम् ।।
२४ वेदादिषु वर्णितस्य पुरुषशतायुर्मानस्य ह्रासकराकालिकमरणहेतुनिरूपणम्, बालकस्यांत्येष्टिनिरूपणञ्च ।।
२५ मृतस्य बालकस्य वृषोत्सर्गमहादानादिरहितान्त्येष्टिवर्णनम्, सुतकृतमातापित्र्यन्त्येष्टिमहत्ववर्णनञ्च।।
२६ सपिण्डीकरणकालनिरूपणम्, सपिण्डीकरणादर्वाक् स्वगोत्रे सर्वत्राशुचित्वकथनम्, सपिंडीकरणाधिकारिनिरूपणञ्च ।।
२७ बभुवाहनप्रेतसंवादे प्रेतत्वनिवृत्युपायभूतघटदानादिनिरूपणम् ।।
२८ गरुडकृतौर्ध्वदैहिककर्मकालक्रियमाणनानादानादिफलप्रश्ननिरूपणम्।।
२९ जीवस्य परत्र मुखावाप्तये और्ध्वदैहिककर्मणिपुत्रदर्भतिलतुलतीगोभूलेपताम्रपात्रदानाद्यावश्यकत्वनिरूपणम् ।।
३० कार्पाससप्तधान्यलवणलोहहेमभूदानादिदानफलनिरूपणम् ।।
३१ मृतोद्देशेन पददानस्य विशेषतो वर्णनम्, पदस्थितवस्तुनिरूपणम्, जीवस्यान्यदेहप्रवेशादिवर्णनञ्च ।।
३२ स्त्रीपुरुषयोः शुक्रशोणिताभ्यां जीवस्य विशेषेण शरीरोत्पत्तिवर्णनम्, शरीरगतधात्वादिविभागवर्णनम्, भुवनादिविभागवर्णनञ्च ।।
३३ मानुषयमलोकान्तरवर्णनम्, वैवस्वतपुरमध्यगतयमचित्रगुप्तशूलादीनां मंदिरादिवर्णनञ्च ।।
३४ पुत्रशब्दार्थनिरूपणम्, विस्तरेण स्त्रीपुत्रभर्त्राद्यौर्ध्वदेहिकक्रियाकलापविवरणञ्च ।।
३५ पिंडमेलनविधिनिरूपणम्, षोडशश्राद्धनिरूपणम्, पञ्चकमृतस्य दाहविधिवर्णनम, शवस्मशाननयनविधिनिरूपणञ्च ।।
३६ मरणसमये भगवत्पादतीर्थसेविनो जीवस्यानशनमरणे सद्गतिलाभवर्णनम् ।।
३७ प्रेतस्य यमलोकमार्गे सुखार्थं पुत्रादिभिरवश्यप्रदेयसश्राद्धोदककुंभदानविधिनिरूपणम् ।।
३८ अयोध्यादिसप्तमोक्षपुरीमध्ये मरणफलनिरूपणम्, ब्राहणाद्यर्थे मृतस्य मोक्षलाभकथनम्, स्त्रीणां सहगमनमाहात्म्यनिरूपणम, दमान्वितादिसत्पात्रदानशून्यशिवलिंगपूजनानाथप्रेतसंस्काराणां महाफलनिरूपणञ्च ।।
३९ ब्राह्मणक्षत्रियविशां शूद्राणाञ्च सूतककालादिनिरूपणम् ।। ।
४० दुर्मरणमृतस्य जीवस्य सद्गतिलाभाय नारायणबलिक्रियादिनिरूपणम्।।
४१ वृषोत्सर्गविधिकालादिनिरूपणम् ।।
४२ भूमिसुवर्णगोदानादिनिरूपणम् ।।
४३ जलाग्निबन्धनादिनष्टानां शिशुरजस्वलादीनां शुद्धिनिरूपणम् ।।
४४ दुर्मरणमृतानां क्रियालोपात् वर्षांते शुक्लैकादश्यां सद्गतिलाभाय विष्णुयमादिपूजनपिण्डदानविधिनिरूपणम्, नागादिदष्टानां क्रियाविधिनिरूपणञ्च ।
४५ प्रत्याब्दिकादिश्राद्धनिर्णयनिरूपणम् ।।
४६ शुभाशुभफलाभ्युपभुज्यात्रागतानां जीवानां देइचिह्नादिनिरूपणम् ।।
४७ यममार्गस्थितवैतरणीसरिद्वर्णनम्, वैतरणीमज्जनोन्मज्जनदुःखभोगार्हपापिजीववर्णनम्, वैतरणीदुःखनिवृत्तये गोदानविधिनिरूपणञ्च ।।
४८ भारतभूप्रशंसापर्वूकं गर्भस्थितनानाविधयातनाप्रपन्नजीवपरिदेवितवर्णनम्, यमदूतैर्निरये नीयमानाय जीवाय प्रतिपादितोपदेशस्य वर्णनम् ।।
४९ मनुजशरीरस्य दौर्लभ्यवर्णनम्, जीवस्य मोक्षप्राप्तये चित्तशुद्धिकरसदाचारं निरूप्य मोक्षधर्मवर्णनम्, प्रेतकल्पस्य श्रवणपठनफलवर्णनञ्च ।।

।। समाप्तेयं गंरुडपुराणगतप्रेतखंडधर्मकाण्डविषयानुक्रमणिका ।।


' अथ गरुडपुराणगतब्रह्मखंडविषयानुक्रमणिका
१ कथं हरौ मनुष्याणामव्यभिचारेण भक्तिर्भवतीति नैमिषारण्यवासिनां ऋषीणां प्रश्नमाकर्ण्य सह तैः श्रीसिद्धाश्रमे सूतसन्निधौ शौनकस्य
गमनम्, पुराणादौ हरेरेव नमनपरिपाटी कैमर्थिकीति शौनकप्रश्नोत्तरं सूतस्याष्टादशपुराणेषु सात्विकादिभेदकथनपूर्वकं नम्यानम्यदेवताविभागादिवर्णनम् ।।
२ प्रलयानन्तरसृष्ट्यारंभे ब्रह्मविष्णुमहेशादिदेवतानां तारतम्यनिरूपणम्
३ भगवद्वीर्यस्वरूपतदाधानद्वारकगुणत्रयसृष्टिजडेशभेदादिनिरूपणम् ।।
४ सत्त्वरजस्तमोगुणानां वैषम्यभेदेन जनितस्य ब्रह्मणो देहस्वरूपगुणसाम्यनिरूपणम् ।।
५ वैकारिकतैजसतामसभेदयुताहंतत्त्वाभिमानिदेवतोत्पत्तितारतम्यनिरूपणम् ।।
६ तत्त्वाभिमानिलक्ष्मीब्रह्मादिदेवताकृतविष्णुस्तुतितत्तद्देवतातारतम्यनिरूपणम् ।।
७ इन्द्राहंकारिकशचीप्रभृतिदेवताकृतविष्णुस्तवनतन्न्यूनाधिकतारतम्यवर्णनम् ।।
८ मित्रताराप्रवाहिविष्वक्सेनकृतभगवत्स्तववर्णनम्,तत्तारतम्यवर्णनञ्च।
९ आजानादिदेवकृतविष्णुस्तवनकथनपूर्वकं तत्तारतम्यनिरूपणम् ।।
१० कबंधादिसप्तावरणवेष्टितशतकोटिविस्तृतब्रह्मांडादिवैकृतैकदेशप्राकृतसृष्टिनिरूपणम् ।।
११ भगवतो नाभिकमलसमुद्भवस्य ब्रह्मणोऽज्ञानहेतुं निरूप्य स्वोत्पादकशोघनाय पद्मनाडीप्रवेशवर्णनम् । ।
१२ पद्मनाडीभ्रमणखिन्नस्य भगवंतमनुपलभ्य तद्वचनादेवतपस्यतो ब्रह्मणोऽग्रे भगवदाविर्भावः, ब्रह्मकृतभगवत्स्तुतिवर्णनञ्च ।।
१३ भगवत्प्रसादेन महत्तत्त्वात्मकब्रह्मणो देवतोत्पत्तिनिरूपणम् ।।
१४ वैश्वदेवाय भगवन्नैवेद्यसमर्पणाय च युक्तान्नकथनप्रसंगेन सामान्यतो वस्तुसारासारनिरूपणम् ।।
१५ भगवतो विष्णोरसंख्यातावतारेषु मुख्यावतारनिरूपणम् ।।
१६ विष्णुन्यूनलक्ष्म्यवतारनिरूपणम् ।।
१७ ब्रह्मशापात् भारत्या भूलोकेद्रौपद्यादिविशिष्टदेहसंप्राप्तिकारणनिरूपणम्
१८ सूत्रनाम्नो वायोर्गरुडस्य कालनान्म उत्पतिः, शेषावतारवर्णनम्, रुद्ररोदनहेत्वनन्तानंदतारतम्यवर्णनञ्च ।।
१९ नीलाया इव्यवाहकन्याया पितृवचनमनादृत्य श्रीकृष्णप्राप्तये तपश्चर्याकरणम, तपसा बोधितस्य भगवतो नीलायै वरप्रदानम्, हव्यवा-
हस्य नग्नजिदाख्या तस्य कन्या नीला तस्या विवाहवर्णनञ्च ।।
२० भद्राकृतभगवत्पतित्वप्रापकतपश्चर्यादिनिरूपणम्, मित्रविंदापाणिग्रहणकारणनिरूपणञ्च ।। ५
२१ सूर्यकन्याकालिंदितपसा तोषितस्य भगवतोऽर्जुनेन सह कालिंदीनदीतीरे तस्याः स्वीकरणवर्णनम् ।।
२२ स्त्रीपुरुषसुलक्षणवर्णनपूर्वकं लक्ष्मणाविवाहहेतुवर्णनम् । ।
२३ श्रीकृष्णभार्याया जाम्बवत्यापूर्वजन्माख्यायिकाकथनप्रसंगेन सोमपुत्र्याविष्णुप्राप्तये तपश्चर्तुं श्रीशेषाचलगमनवर्णनम् ।।
२४ वेंकटाचले सोमपुत्र्या जैगीषव्यमुनिसमागमः, जैगीषव्यकृतश्रीवेंकटाचलारोहणक्रमतत्पर्वतनामतद्यात्राक्रमादिनिरूपणम्।।
२५ सोमपुत्र्या जैगीषव्येण साकं श्रीवेंकटाचलारोहणम्, वेंकटेशदर्शनपू-र्वकं भगवत्स्तुतिवर्णनम् ।।
२६ श्रीवेंङ्कटगिरिमाहात्म्यप्रसंगेन स्वामिपुष्करिण्यादितीर्थतत्रत्यनृसिंहादिदेवताशालग्रामशिलालक्षणतद्दानफलादिनिरूपणम् । ।
२७ जैगीषव्यमुनिकृतनंदाख्यनदीमाहत्म्यवर्णनम्, कुमारीतीर्थवर्णनम, सोमपुत्र्याः पित्रासह श्रीनिवासदर्शनपूर्वकं तत्रैव तपश्चरणम्, तत्र देहं
परित्यज्य जांबवतो जन्म गृहीत्वा सा जांबवत्यभिधा कृष्णेनोद्वाहितेति तत्प्रसंगेन वेङ्कटाचलयात्राविधिवर्णनञ्च ।।
२८ रुद्रपत्न्यादिदेवतातारतम्यवणर्नम्, जीवस्य सुबुद्धिदुर्बुद्धिनामकभार्याद्वयकृतसदसदुपदेशकथनपर्वूकं विष्ण्वितरदेवतातिरस्कारविष्णूपास्यत्ववर्णनञ्च ।।
२९ ब्रह्मणस्त्वगुद्भवस्य धर्मस्य सौम्यरूपेण सज्जनानां धारणात् धर्माभिधानकथनम्, भागीरथ्यादिदेवतानां तारतम्यवर्णनम्, विष्णुसंतोषकारकधर्मवर्णनपूर्वकं भगवत्तत्त्वनिरूपणञ्च । ।