गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १८ गरुडपुराणम्
अध्यायः १९
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २० →

श्रीगरुडमहापुराणम् १९
गरुड उवाच ।
त्वयोक्तं कृष्ण गोविन्द रुद्राच्छतगुणादपि ।
ब्रह्माणी भारती चोभे अधिके देवसत्तम ॥ ३,१९.१ ॥

मया श्रुतं विरिञ्चेन उमापर्यन्तमेव च ।
अनन्तांशैर्विहीनत्वं विरिञ्चोक्तं सुराधिप ॥ ३,१९.२ ॥

सहस्रांशैर्विहीनत्वं त्वयोक्तं कृष्ण माधव ।
सर्वेषां चैव पूर्वेषामवेक्ष्यैव हरे विभो ॥ ३,१९.३ ॥

ज्ञानानन्दबलादीनां वायुपर्यन्तमेव च ।
सहस्रांशैर्विहीनत्वं ज्ञानादीनां महेश्वर ॥ ३,१९.४ ॥

निर्णयं ब्रृहि गोविन्द सर्वज्ञोसि न संशयः ।
गरुडेनैवमुक्तस्तु वासुदेवोब्रवीद्ध्रुवम् ॥ ३,१९.५ ॥

श्रीकृष्ण उवाच ।
आनन्दांशैर्विहीनत्वमपेक्ष्यैव खगाधिप ।
उत्तरेषामुत्तरेषां योगादेवमिति स्फुटम् ॥ ३,१९.६ ॥

परिमाणे शतगुणे आनन्दे स्फुटतावशात् ।
अनन्तगुणवत्त्वं च ब्रह्मणा समुदीरितम् ॥ ३,१९.७ ॥

सहस्रगुणितत्वं च वायुना समुदीरितम् ।
यथानन्दे तथा ज्ञाने विष्णौ भक्तौ बलाधिके ॥ ३,१९.८ ॥

सर्वे गुणैः शतगुणाः क्रमेणोक्ता नु तेऽखिलाः ।
भारत्याश्च शतं ज्ञानं सुखं भक्तिबलाधिके ॥ ३,१९.९ ॥

एवं ज्ञानं सुविज्ञेयं मारुतेस्तु बलादिकम् ।
एवं ज्ञानं शतं ज्ञेयं मारुते नात्र संशयः ॥ ३,१९.१० ॥

भारत्याश्च शतं ज्ञानं बलं च समुदाहृतम् ।
एवमेव च वायोश्च ज्ञानं चैवमिति स्फुटम् ॥ ३,१९.११ ॥

यथा दीपाच्छतगुणा अग्निज्वाला न दीपवत् ।
स्फुटीभवेद्यथैवाग्निर्बहुलोपि न सूर्यवत् ॥ ३,१९.१२ ॥

यथैव सूर्याद्द्विगुणश्चन्द्रो नैव स्फुटीभवेत् ।
आनन्दतारतम्यं च यथोक्तं तु मया तव ॥ ३,१९.१३ ॥

तथैव जानीहि खग नान्यथा तु कथञ्चन ।
अहं विजानामि मयि स्थितान् गुणान्सर्वैर्विशेषैश्च खगेन्द्र संयुतान् ॥ ३,१९.१४ ॥

सुसूक्ष्मरूपांश्च सदा खगेन्द्र मयाप्यदृष्टो नास्ति नास्त्येव कश्चित् ॥ ३,१९.१५ ॥

सर्वावतारेष्वपि विद्यमानं हरिं विजानाति रमापि देवी ॥ ३,१९.१६ ॥

हरेर्गुणान्सर्वविशेषसंयुतानखण्डरूपान्सा विजानाति देवी ।
सुसूक्ष्मरूपान्सा विजानाति देवी ब्रह्मादिभ्यो मत्प्रसादाधिकं च ॥ ३,१९.१७ ॥

स्वात्मस्वरूपं प्रविजानाति देवी सुसूक्ष्मरूपं सुविशेषैश्च युक्तम् ।
स्वान्यं प्रपञ्चं प्रविजानाति लक्ष्मीस्तथाप्यशेषैः सुविशेषैश्च युक्तम् ॥ ३,१९.१८ ॥

ब्रह्मापि पश्येत्सर्वगं वासुदेवं वाय्वादिभ्यो ह्यधिकान्सद्गुणांश्च ।
श्रोत्रं न जानाति हरेर्गुणांश्च सुसूक्ष्मरूपांश्च विशेषसंयुतान् ॥ ३,१९.१९ ॥

स्पष्टस्वरूपेण यथा विदुः सुरा मुक्त्वा ब्रह्माणं न तथा तेप्यमुक्ताः ।
स्वात्मानमन्यच्च सदा विशेषर्युक्तं विजानाति विधिश्च मारुतः ॥ ३,१९.२० ॥

वाणी विजानाति हरेर्गुणांश्च स्वयंभुवो नैव तावद्विशेषान् ।
त्रैगुण्यरूपात्परतः सदैव पश्येद्विष्णुं कृष्णरूपं खगेन्द्र ॥ ३,१९.२१ ॥

शेषो रुद्रो वीन्द्र एतैश्च सर्वे तमो मात्रे प्रविजानन्ति संस्थम् ।
वाणीदृष्टान्सविशेषान् गुणांस्ते जानन्ति नो सत्यमेवोक्तमङ्ग ॥ ३,१९.२२ ॥

उमा सुपर्णा वारुणी चेति तिस्रः सहैव तः प्रविजानन्ति सुस्थम् ।
हरेर्विशेषानरुद्र दृष्टान्खगेन्द्र जानन्ति नैताः क्वापि देशे च काले ॥ ३,१९.२३ ॥

इन्द्रादयः प्रविजानन्ति वीन्द्र अहङ्कारे व्याप्तरूपं हरिं च ।
दक्षाद्या वै बुद्धितत्त्वे स्थितं तं जानन्ति ते सोमसूर्यादयश्च ॥ ३,१९.२४ ॥

विष्णुं हरिं भूततत्त्वे स्थितं च ये चान्ये च प्रविजानन्ति नित्यम् ।
अन्ये च पश्यन्ति यथा स्वयोग्यमण्डान्तरस्थं हरिरूपं खगेन्द्र ॥ ३,१९.२५ ॥

केचित्प्रपश्यन्ति हरेश्च रूपं त्वदीयहृत्स्थं हृदि केचित्सदैव ।
एवंप्रकारं प्रविजानीहि वीन्द्र ह्यथो शृणु त्वंमम भार्याः षडेताः ॥ ३,१९.२६ ॥

रुक्मिण्याद्याः षण्महिष्यो ममश्रीर्नीला च या मम भार्या खगेन्द्र ।
सर्गे पूर्वस्मिन्हव्यवाहस्य पुत्री तास्ता भजे सद्य एवा विशेषात् ॥ ३,१९.२७ ॥

कन्यैव सा कृष्णपत्नी च कामांस्तांस्तान् भजेन्मनसा चिन्तितांश्च ।
अतीव यत्नं कव्यवाहं खगेन्द्र पितृष्वेकः सर्वदा वै चकार ॥ ३,१९.२८ ॥

तथैव सा नैव भर्तारमाप यतस्तु सा कृष्णनिष्ठैकचित्ता ॥ ३,१९.२९ ॥

तदाब्रवीत्कव्यवाहश्च पुत्ररिं पतिं किमर्थं नेच्छसि मूढबुद्धे ।
तदाब्रवीत्कव्यवाहं च पुत्त्री हरिं विना सर्वगुणोपपन्ने ।
जन्मन्यस्मिन् भर्तृता नास्ति देव यतो भर्ता हरिरवैक एव ॥ ३,१९.३० ॥

यतो लोके सुस्त्रियः सर्व एव संदा ज्ञेया विधवास्ते हि नित्यम् ।
अनादि नित्यं भुवनैकसारं सुसुंदरं मोक्षदं कामदं च ॥ ३,१९.३१ ॥

एतादृशं न विजानन्ति यास्तु सर्वास्ता वै विधवाः सर्वदैव ।
निमित्तभूतं भर्तृरूपं च जीवं दैवोपेतं हरिभक्त्या विहीनम् ॥ ३,१९.३२ ॥

सुकश्मलं नवरन्ध्रैः स्त्रवन्तं दुर्गन्धयुक्तं सर्वदा कुत्सितं च ।
एताः दृशे भर्तृजीवे नु तात प्रयोजनं नास्ति कृष्णं विहाय ॥ ३,१९.३३ ॥

देवस्त्रियो निजभर्तॄन्विहायु तत्र स्थितं प्रीणयन्त्येव नित्यम् ।
अतश्च ताः सधवाः सर्वदैव लोकैर्वन्द्या नात्र विचार्यमस्ति ॥ ३,१९.३४ ॥

भर्तास्ते हरिभक्ता यदि स्युरासां स्त्रीणां जन्मसाफल्यमेव ।
अनेकजन्मार्जितपुण्यसंचयैस्तद्भर्तारो हरिभक्ता भवेयुः ॥ ३,१९.३५ ॥

यद्भर्तारो हरिभक्ता न संति ताभिस्त्याज्यं स्वीयगात्रं भृशं हि ।
स्वभर्तृतं कृष्णरूपं हरिं च स्मृत्वा सम्यग्यदि गात्रं त्यजेयुः ॥ ३,१९.३६ ॥

तदा नैव ह्यात्महत्यादिदोषाः स्त्रीणामेवं निर्णयोयं हि शास्त्रे ।
यद्भर्तारो न विजानन्ति विष्णुं तासां संगो नैव कार्यः कदापि ॥ ३,१९.३७ ॥

अनेक जन्मार्जितपुण्यसंचयात्तद्भर्तारो विष्णुभक्ता भवेयुः ।
कलौ युगे दुर्लभा विष्णुभक्ता हरेभक्तिर्दुर्लभा सर्वदैव ॥ ३,१९.३८ ॥

हरेः कथा दुर्लभा मर्त्यलोके हरेर्दीक्षा दुर्लभा दुर्लभा च ।
हरेस्तत्त्वे निर्णयो दुर्लभो हि हरेर्दासैः संगमो दुर्लभश्च ॥ ३,१९.३९ ॥

प्रदक्षिणं दुर्लभं वै मुरारेर्नमस्कारो दुर्लभो वै कलौ च ।
तद्भक्तानां पालनं दुर्लभं च सद्वैष्णवानां दुर्लभं ह्यन्नदानम् ॥ ३,१९.४० ॥

तन्त्रोक्तपूजा दुर्लभा वै मुरारेर्नामग्रहो दुर्लभश्चव विष्णोः ।
सुवैष्णवानां पुजनं दुर्लभं हि सद्वैष्णवानां भाषणं दुर्लभं च ॥ ३,१९.४१ ॥

शालग्रामस्पर्शनं दुर्लभं च सद्वैष्णवानां दर्शनं दुर्लभं हि ।
गोस्पर्शनं दुर्लभं मर्त्यलोके सद्गायनं दुर्लभं सद्गुरुञ्च ॥ ३,१९.४२ ॥

सद्भार्याः सत्पुत्रका दुर्लभा हि शेषाचलस्थस्य हरेश्च दर्शनम् ।
सुदुर्लभं रङ्गनाथस्य तीरे कावेर्या वै दर्शनं विष्णुपद्याः ॥ ३,१९.४३ ॥

काञ्चीक्षेत्रे वरदराजस्य सेवा सुदुर्लभा दर्शनं चैव लोके ।
सुदुर्लभं दर्शनं रामसेतोः सुदुर्लभा मध्वशास्त्रे च शक्तिः ॥ ३,१९.४४ ॥

भीमातीरे संस्थितस्यापि विष्णोः सुदुर्लभं दर्शनं चाहुरार्याः ।
रेवातीरे संस्थितस्यापि विष्णोर्गयाक्षेत्रे विष्णुपादस्य चैव ॥ ३,१९.४५ ॥

तथा बद्रौ संस्थित स्यापि विष्णोः सुदुर्लभं मर्त्यलोके स्थितानाम् ।
शेषाचले श्रीनिवासाश्रमे च तपस्विनो दुर्लभा मर्त्यलोके ॥ ३,१९.४६ ॥

प्रयागाख्ये माधवस्यापि नित्यं सुदर्शनं दुर्लभं वै नृणां हि ॥ ३,१९.४७ ॥

अतो नेच्छामि भर्तारं कृष्णादन्यं कदाचन ।
एवमुक्त्वा सा पितरं ययौ शेषाचलं प्रति ॥ ३,१९.४८ ॥

कपिलाख्यमहातीर्थे आरुरोह महागिरिम् ।
तत्रस्थं श्रीनिवासं च दृष्ट्वा नत्वा महासती ॥ ३,१९.४९ ॥

त्रिदिनं समुपोष्याथ गत्वा पापविनाशनम् ।
तत्रस्नात्वा विवाहार्थमेकान्तं प्रययावथ ॥ ३,१९.५० ॥

तस्या उत्तरदिग्भागे क्रोशयुग्मे महातले ।
गर्तभूते च एकान्ते चचार तप उत्तमम् ॥ ३,१९.५१ ॥

ध्यात्वा नारायणं देवं तत्रासीच्च कुमारिका ।
दिव्यवर्षसहस्रान्ते स्तोतुं समुपचक्रमे ॥ ३,१९.५२ ॥

कुमार्युवाच ।
त्वमेव माता च पिता त्वमेव भर्ता च सखात्वमेव ।
त्वमेव पुत्रश्च गुरुर्गरीयान्मित्रं स्वसा त्वं मम वल्लभश्च ॥ ३,१९.५३ ॥

अनाद्यनन्तेष्वपि जन्मसु प्रभो विचार्यमाणा न विजानेप्यहं च ।
एतै हि सर्वे च निमित्तमात्रतः पित्रादयस्त्वं ह्यनिमित्तमात्रतः ॥ ३,१९.५४ ॥

अतो मुरारेश्च तवैव भार्या भूयासमित्येव तदा व्रतं मे ।
दुः संगमात्रादिसमागमं न संसिद्धिरित्येव वदान्यमूर्ते ॥ ३,१९.५५ ॥

त्वद्दूषकाणां तव दासवर्य विदूषकाणां दर्शनं छिन्धि देव ।
गुरुद्रुहां दर्शनं छिन्धि विष्णो भक्तद्रुहां मित्रतां छिन्धि कृष्ण ॥ ३,१९.५६ ॥

तव ध्रुग्भिर्भाषणं छिन्धि देव त्वं संगमं देहि पदारविन्दे ।
श्रीशैलवासाय नमोनमस्ते नमोनमः श्रीनिवासाय तुभ्यम् ॥ ३,१९.५७ ॥

स्वामिन् परावर रमेश निदानमूर्ते कालो महानपि गतश्च निदर्शनन्ते ।
अनन्तजन्मार्जितसाधनैश्च त्वद्दर्शनं स्याच्च चतुर्भुजस्य ॥ ३,१९.५८ ॥

कथं मम स्यात्तव दर्शनं प्रभो सर्वैश्च दोषैश्च सुसंगतायाः ।
दास्यास्पदायास्तव दासदास्याः प्रसीद देवेश जगन्निवास ॥ ३,१९.५९ ॥

एवं स्तुतस्तथा विष्णुः श्रीनिवासो दयानिधिः ।
प्रादुरासीद्वरदराट्भक्त्या तस्या जनार्दनः ॥ ३,१९.६० ॥

वरं वरय भद्रं ते वरदोहमिहागतः ।
हरिणोदीरितं वाक्यं श्रुत्वा प्राह स्मितानना ॥ ३,१९.६१ ॥

उवाच परया भक्त्या श्रीनिवासं जगत्प्रभुम् ।
अहं हि भार्या भूयासं तव माधव सुंदर ॥ ३,१९.६२ ॥

इति तस्या वचः श्रुत्वा श्रीनिवासोऽब्रवीद्वचः ।
श्रीभगवानुवाच ।
अहं कुमारि सुभगे कृष्णजन्मनि भूतले ॥ ३,१९.६३ ॥

भवामि तव भर्ताहं नात्र कार्या विचारणा ।
एवमुक्ता सुता कन्या पुरण्यराशिं हरिं परम् ॥ ३,१९.६४ ॥

उवाच परमप्रीता हर्षगद्गदया गिरा ।
कन्योवाच ।
कृष्णजन्मन्यहं पत्नी भूयासं प्रथमेहनि ॥ ३,१९.६५ ॥

संस्कारात्प्रथमं चाहमं गनाभ्यः समावृणे ।
ओमित्युक्तः पुनर्वाक्यमुवाच मधुसूदनः ॥ ३,१९.६६ ॥

श्रीभगवानुवाच ।
कुमार्या विधृतत्वाच्च मत्प्रदानाच्च भामिनि ।
तेषां मनोभीष्टसिद्धिर्भविष्यति न संशयः ॥ ३,१९.६७ ॥

इति तस्यै वरं दत्त्वा तत्रैवान्तरधीयत ।
देहं तत्रैव संत्यज्य कुमारी चैव पुत्रिका ॥ ३,१९.६८ ॥

कुम्भ कस्य गृहे जाता नीला नाम्ना तु सा स्मृता ।
कुंभकस्तु महाभाग नन्दशोभस्य शालकः ॥ ३,१९.६९ ॥

कल्पवाहः स विज्ञेयः पितॄणां प्रथमः स्मृतः ।
तस्य गत्वा गृहमहं वृषभाचलवासिनः ।
शिवस्य वरतश्चैव त्वजेयः खगसत्तम ॥ ३,१९.७० ॥

दितिजान्विनिहत्यैव नीला प्राप्ता खगेश्वर ।
ततो नाग्निजितो राज्ञो गृहे जाता कुमारिका ॥ ३,१९.७१ ॥

नाग्निजित्कव्यवाहोभूत्कन्या नीलाह्वयाभवत् ।
तस्याः स्वयंवरे चाहं गोवृषान्सप्तसंख्यकान् ॥ ३,१९.७२ ॥

शिवस्य वरतश्चैवाप्यवध्यान्देवमानुषैः ।
बद्ध्वा वृषान्नृपाञ्जित्वा प्राप्ता नीला महाखग ॥ ३,१९.७३ ॥

कुंभकस्य सुता नीला देहस्थाः प्राविशन् भृशम् ।
एकावयवतो यस्मात्तस्मात्तत्रैव साविशत् ॥ ३,१९.७४ ॥

भूमौ द्विधा संप्रजाता कुमार्येव न संशयः ।
भद्राजन्म प्रवक्ष्यामि शृणु पक्षीन्द्रसत्तम ॥ ३,१९.७५ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे नीलाविवाहनिर्णयो नामैकोनविंशोऽध्यायः