गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४९

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४८ गरुडपुराणम्
अध्यायः ४९
वेदव्यासः
<poem>

श्रीगरुडमहापुराणम् ४९ गरुड उवाच । श्रुता मया दयासिन्धो ह्यज्ञानाज्जीवसंसृतिः । अधुना श्रोतुमिच्छामि मोक्षोपायं सनातनम् ॥ २,४९.१ ॥
भगवन्देवदेवेश शरणागतवत्सल । असारे घोरसंसारे सर्वदुः खमलीमसे ॥ २,४९.२ ॥
नानाविधशरीरस्था अनन्ता जीवराशयः । जायन्ते च म्रियन्ते च तेषामन्तो न विद्यते ॥ २,४९.३ ॥
सदा दुः खातुरा एव न सखी विद्यते क्कचित् । केनोपायेन मोक्षेश मुच्यन्ते वद मे प्रभो ॥ २,४९.४ ॥
श्रीभगवानुबाच । शृणु तार्क्ष्य प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ २,४९.५ ॥
अस्ति देवः परब्रह्मस्वरूपो निष्कलः शिवः । सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोऽद्वयः ॥ २,४९.६ ॥
स्वयञ्ज्योतिरनाद्यन्तो निर्विकारः परात्परः । निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः ॥ २,४९.७ ॥
अनाद्यविद्योपहता यथाग्नौ विस्फुलिङ्गकाः । देहाद्युपाधिसम्भिन्नास्ते कर्मभिरनादिभिः ॥ २,४९.८ ॥
सुखदुः खप्रदैः पुण्यपारूपैर्नियन्त्रिताः । तत्तज्जातियुतं देहमायुर्भोगञ्च कर्मजम् ॥ २,४९.९ ॥
प्रतिजन्म प्रपद्यन्ते तेषामपि परं पुनः । ससूक्ष्मलिङ्गशरीरमामोक्षादक्षरं खग ॥ २,४९.१० ॥
स्थावराः कृमयश्चाजाः पक्षिणः पशवो नगः । धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ २,४९.११ ॥
चतुर्विधशरीराणि धृत्वा मुक्त्वा सहस्रशः । सुकृतान्मा नवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् ॥ २,४९.१२ ॥
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् । न मानुषं विनान्यत्र तत्त्वज्ञानन्तु लभ्यते ॥ २,४९.१३ ॥
अत्र जन्मसहस्राणां सहस्रैरपि कोटिभिः । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ २,४९.१४ ॥
सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् । यस्तार यति नात्मानं तस्मात्पापतरोऽत्र कः ॥ २,४९.१५ ॥
नरः प्राप्येतरज्जन्म लब्ध्वा चेन्द्रियसौष्ठवम् । न वेत्त्यात्महितं यस्तु स भवेद्ब्रह्मघातकः ॥ २,४९.१६ ॥
विना देहेन कस्यापि पुरुषार्थो न विद्यते । तस्माद्देहं धनं रक्षेत्पुण्यकर्माणि साधयेत् ॥ २,४९.१७ ॥
रक्षेच्चसर्वदात्मानमात्मा सर्ब्वस्य भाजनम् । रक्षणे यत्नमातिष्ठेज्जीवन् भद्राणि पश्यति ॥ २,४९.१८ ॥
पुनर्ग्रामः पुनः क्षेत्र पुनर्वित्तं पुनर्गृहम् । पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥ २,४९.१९ ॥
शरीररक्षणोपायाः क्रि यन्ते सर्वदा बुधैः । नेच्छन्ति च पुनस्त्यागमपि कुष्ठादिरोगिणः ॥ २,४९.२० ॥
तद्गोपितं स्याद्धर्मार्थं धर्मो ज्ञानार्थमेव च । ज्ञानं तु ध्यानयोगार्थमचिरात्प्रविमुच्यते ॥ २,४९.२१ ॥
आत्मैव यदि नात्मानमहीतेभ्यो निवारयेत् । कोऽन्यो हितकरस्तस्मादात्मानं सुखयिष्यति ॥ २,४९.२२ ॥
इहैव नरकव्याधेश्चिकित्सां न करोति यः । गत्वा निरौषधं देशं व्याधिम्थः किं करिष्यति ॥ २,४९.२३ ॥
व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत् । निघ्नन्ति रिपुवद्रोगास्तस्माच्छ्रेयः समभ्यसेत ॥ २,४९.२४ ॥
यावन्नाश्रयते दुः खं यावन्नायान्ति चापदः । यावन्नेन्द्रियवैकल्यं तावच्छ्रेयः समभ्यसेत् ॥ २,४९.२५ ॥
यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेत् । सन्दीप्तकोशभवने कूपं खनति दुर्मतिः ॥ २,४९.२६ ॥
कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः । सुखं दुःखं जनो हन्त न वेत्ति हितमात्मनः ॥ २,४९.२७ ॥
जातानार्तान्मृतानापद्भष्टान्दृष्ट्वा च दुः खितान् । लोको मोहसुरां पीत्वा न बिभेति कदाचन ॥ २,४९.२८ ॥
सम्पदः स्वप्नसंकाशा यौवनं कुसुमोपमम् । तडिच्चपलमायुष्यं कस्य स्याज्जानतो धृतिः ॥ २,४९.२९ ॥
शतं जीवितमत्यल्पं निद्रालस्यैस्तदर्धकम् । बाल्यरोगजरादुः खैरल्पं तदपि निष्फलम् ॥ २,४९.३० ॥
प्रारब्धव्ये निरुद्योगी जागर्तव्ये प्रसुप्तकः । विश्वस्तश्च भयस्थाने हा नरः को न हन्यते ॥ २,४९.३१ ॥
तोयफेनसमे देहे जीवेनाक्रम्य संस्थिते । अनित्याप्रयसवासे कथ तिष्ठति निर्भयः ॥ २,४९.३२ ॥
अहिते हितसंज्ञः स्यादध्रुवे ध्रुवसंज्ञकः । अनर्थे चार्थविज्ञानः स्वमर्थं यो न वेत्ति सः ॥ २,४९.३३ ॥
पश्यन्नपि प्रस्खलति शृण्वन्नपि न बुध्यति । पठन्नपि न जानाति देवमायाविमोहितः ॥ २,४९.३४ ॥
तन्निमज्जज्जगदिदं गम्भीरे कालसागरे । मृत्युरोगजराग्राहैर्न कश्चिदपि बुध्यते ॥ २,४९.३५ ॥
प्रतिक्षणभयं कालः क्षीयमाणो न लक्ष्यते । आमकुंभ इवांभः स्थो विशीर्णो न विभाव्यते ॥ २,४९.३६ ॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते ॥ २,४९.३७ ॥
पृथिवी दह्यते येन मेरुश्चापि विशीर्यते । शुष्यते सागरजलं शरीरस्य च का कथा ॥ २,४९.३८ ॥
अपत्यं मे कलत्रं मे धनं मे बान्धवाश्च मे । जल्पन्तमिति मर्त्याजं हन्ति कालवृको बलात् ॥ २,४९.३९ ॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् । एवमीहासमायुक्तं कृतान्तः कुरुते वशम् ॥ २,४९.४० ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् । न हि मृत्युः प्रतीक्षेत कृतं वाप्यथ वाकृतम् ॥ २,४९.४१ ॥
जरादर्शितपन्थानं प्रचण्डव्याधिसैनिकम् । अधिष्ठितो मृत्युशत्रुं त्रातारं किं न पश्यति ॥ २,४९.४२ ॥
तृष्णासूचीविनिर्भिन्नं सिक्तं विषयसर्पिषा । रागद्वेषानले पक्वं मृत्युरश्राति मानवम् ॥ २,४९.४३ ॥
बालांश्च यौवनस्थांश्च वृद्धान गर्भगतानपि । सर्वानाविशते मृत्युरेवम्भूमिदं जगत् ॥ २,४९.४४ ॥
स्वदेहमपि जीवोऽयं मुक्त्वा याति यमालयम् । स्त्रीमातृपितृपुत्त्रादिसम्बन्धः केन हेतुना ॥ २,४९.४५ ॥
दुः खमूलं हि संसारः स यस्यास्ति स दुः खितः । तस्य त्यागः कृतो येन स सुखी नापरः क्वचित् ॥ २,४९.४६ ॥
प्रभवं सर्वदुः खानामालयं सकलापदाम् । आश्रयं सर्वपापानां संसारं वर्जयेत्क्षणात् ॥ २,४९.४७ ॥
लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते । पुत्त्रदारमयैः पाशैर्मुच्यते न कदाचन ॥ २,४९.४८ ॥
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ २,४९.४९ ॥
वञ्चिताशेषवित्तैस्तैर्नित्यं लोको विनाशितः । हा हन्त विषयाहारैर्देहस्थोन्द्रियतस्करैः ॥ २,४९.५० ॥
मांसलुब्धो यथा मत्स्यो लोहशङ्कुं न पश्यति । सुखलुब्धस्तथा देही यमवाधां न पश्यति ॥ २,४९.५१ ॥
हिताहितं न जानन्तो नित्यमुन्मार्गगामिनः । कुक्षिपूरणनिष्ठा ये ते नरा नारकाः खग ॥ २,४९.५२ ॥
निद्राभीमैथुनाहाराः सर्वेषां प्राणिनां समाः । ज्ञानवान्मानवः प्रोक्तो ज्ञानहीनः पशुः स्मृतः ॥ २,४९.५३ ॥
प्रभाते मलमूत्त्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ । रात्रौ मदननिद्राभ्यां बाध्यन्ते मूढमानवाः ॥ २,४९.५४ ॥
स्वदेहधनदारादिनिरताः सर्वजन्तवः । जायन्ते च म्रियन्ते च हा हन्ताज्ञानमोहिताः ॥ २,४९.५५ ॥
तस्मात्सङ्गः सदा त्याज्यः सचेत्त्यक्तुं न शक्यते । महद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २,४९.५६ ॥
सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् । यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः ॥ २,४९.५७ ॥
स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः । न जानन्ति परं धर्मं वृथा नश्यन्ति दाम्भिकाः ॥ २,४९.५८ ॥
किमायासपराः केचिद्व्रतचर्यादिसंयुताः । अज्ञानसंवृतात्मानः सञ्चरन्ति प्रचारकाः ॥ २,४९.५९ ॥
नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः । मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः ॥ २,४९.६० ॥
एकभुक्तोपवासाद्यैर्नियमैः कायशोषणैः । मूढाः परोक्षमिच्छन्ति मम मायाविमोहिताः ॥ २,४९.६१ ॥
देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् । वल्मीकताडनादेव मृतः किन्नु महोरगः ॥ २,४९.६२ ॥
जटाभाराजिनैर्युक्ता दाम्भिका वेषधारिणः । भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि ॥ २,४९.६३ ॥
संसारजसुखासक्तं ब्रह्मज्ञोऽस्मीतिवादिनम् । कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥ २,४९.६४ ॥
गृहारण्यसमा लोके गतव्रीडा दिगम्बराः । चरन्ति गर्दभाद्याश्च विरक्तास्ते भवन्ति किम् ॥ २,४९.६५ ॥
मृद्भस्मोद्धूलनादेव मुक्ताः स्युर्यदि मानवाः । मृद्भस्मवासी नित्यं श्वा स किं मुक्तो भविष्यति ॥ २,४९.६६ ॥
तृणपर्णोदकाहाराः सततं वनवासिनः । जम्बूकाखुमृगाद्याश्च तापसास्ते भवन्ति किम् ॥ २,४९.६७ ॥
आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः । मण्डूकमत्स्यप्रमुखा योगिनस्ते भवन्ति किम् ॥ २,४९.६८ ॥
पारावताः शिलाहाराः कदाचिदपि चातकाः । न पिबन्ति महीतोयं व्रतिनस्ते भवन्ति किम् ॥ २,४९.६९ ॥
तस्मान्नित्यादिकं कर्म लोकरञ्जनकारकम् । मोक्षस्य कारणं साक्षातत्त्वज्ञान खगेश्वर ॥ २,४९.७० ॥
षर्ड्शनमहाकूपे पतिताः पशवः खग । परमार्थं न जानन्ति पशुपाशनियन्त्रिताः ॥ २,४९.७१ ॥
वेदशास्त्रार्णवैर्घेरैरुह्यमाना इतस्ततः । षडूर्मिनिग्रहग्रस्तास्तिष्ठन्ति हि कुतार्किकाः ॥ २,४९.७२ ॥
वेदागमपुराणज्ञः परमार्थं न वेत्ति यः । विडम्बकस्य तस्यैव तत्सर्वं काकभाषितम् ॥ २,४९.७३ ॥
इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः । पठन्त्यहर्निशं शास्त्रं परतत्त्वपराङ्मुखाः ॥ २,४९.७४ ॥
वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिताः । चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः ॥ २,४९.७५ ॥
अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा । अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा ॥ २,४९.७६ ॥
कथयन्त्युवन्मनीभावं स्वयं नानुभवन्ति च । अहङ्कारस्ताः केचिदुपदेशादिवार्जिताः ॥ २,४९.७७ ॥
पठन्ति वेदशास्त्राणि बोधयन्ति परस्परम् । न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा ॥ २,४९.७८ ॥
शिरो वहति पुष्पाणि गन्धं जानाति नासिका । पठन्ति वेदशास्त्राणि दुर्लभो भावबोधकः ॥ २,४९.७९ ॥
तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु मुह्यति । गोपः कक्षागते च्छागे कूपं पश्यति दुर्मतिः ॥ २,४९.८० ॥
संसारमोहनाशाय शाब्दबोधो न हि क्षमः । न निवर्तेत तिमिरं कदाचिद्दीपवार्तया ॥ २,४९.८१ ॥
प्रज्ञाहीनस्य पठनं यथान्धस्य च दर्पणम् । अतः प्रज्ञावतां शास्त्रं तत्त्वज्ञानस्य लक्षणम् ॥ २,४९.८२ ॥
इदं ज्ञानमिदं ज्ञेयं सर्वन्तु श्रोतुमिच्छति । दिव्यवर्षसहस्राच्च शास्त्रान्तं नैव गच्छति ॥ २,४९.८३ ॥
अनेकानि च शास्त्राणि स्वल्पायुर्विघ्नकोटयः । तस्मात्सारं विजानीयात्क्षीरं हंस इवाम्भसि ॥ २,४९.८४ ॥
अभ्यस्य वेदशास्त्राणि तत्त्वं ज्ञात्वाथ बुद्भिमान् । पलालमिव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् ॥ २,४९.८५ ॥
यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् । तत्त्वज्ञस्य तथा तार्क्ष्य न शास्त्रेण प्रयोजनम् ॥ २,४९.८६ ॥
न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि । ज्ञानादेव हि कैवल्यं नान्यथा विनतात्मजः ॥ २,४९.८७ ॥
नाश्रमः कारणं मुक्तेर्दर्शनानि न कारणम् । तथैव सर्वकर्माणि ज्ञानमेव हि कारणम् ॥ २,४९.८८ ॥
मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बिकाः । शास्त्रभारसहस्रेषु ह्येकं सञ्जीवनं परम् ॥ २,४९.८९ ॥
अद्वैतं हि शिवं प्रोक्तं क्रिययापरिवर्जितम् । गुरुवक्त्रेण लभ्येत नाधीतागमकोटिभिः ॥ २,४९.९० ॥
आगमोक्तं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते । शब्दव्रह्मागममयं परं ब्रह्म विवेकजम् ॥ २,४९.९१ ॥
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे । समं तत्त्वं न जानन्ति द्वैताद्द्वैतविवर्जितम् ॥ २,४९.९२ ॥
द्वे पदे बन्धमोक्षाय नममेति ममेति च । ममेति बध्यते जन्तुर्नममेति प्रमुच्यते ॥ २,४९.९३ ॥
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तिदा । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ २,४९.९४ ॥
यावत्कर्माणि दीप्यन्ते यावत्संसारवासना । यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः ॥ २,४९.९५ ॥
यावद्देहाभिमानश्च ममता यावदेव हि । यावत्प्रयत्नवेगोऽस्ति यावत्संकल्पकल्पना ॥ २,४९.९६ ॥
यावन्नो मनसः स्थैर्यं न यावच्छास्त्रचिन्तनम् । यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः ॥ २,४९.९७ ॥
तावत्तपो व्रतं तीर्थं जपहोमार्चनादिकम् । वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दति ॥ २,४९.९८ ॥
तस्मात्सर्वप्रयत्नेन सर्वावस्थासु सर्वदा । तत्त्वनिष्ठो भवेत्तार्क्ष्य यदीच्छेन्मोक्षमात्मनः ॥ २,४९.९९ ॥
धर्मज्ञानप्रसूनस्य स्वर्गमोक्षफलस्य च । तापत्रयादिसन्तप्तश्छायां मोक्षतरोः श्रयेत् ॥ २,४९.१०० ॥
तस्माज्ज्ञानेनात्मतत्त्वं विज्ञेयं श्रीगुरोर्मुखात् । सुखेन मुच्यते जन्तुर्घोरसंसारबन्धनात् ॥ २,४९.१०१ ॥
तत्त्वज्ञस्यान्तिमं कृत्यं शृणु वक्ष्यामि तेऽधुना । येन मोक्षमवाप्नोति ब्रह्म निर्वाणसंज्ञकम् ॥ २,४९.१०२ ॥
अन्तकाले तु पुरुष आगते गतसाध्वसः । छिन्द्यादसंगशस्त्रेण स्पृहां देहेऽनु या च तम् ॥ २,४९.१०३ ॥
गृहात्प्रव्राजितो धीरः पुण्यतीर्थजलाप्लुतः । शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ २,४९.१०४ ॥
अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । मनो यष्छेज्जितश्वासो ब्रह्म बीजमविस्मरन् ॥ २,४९.१०५ ॥
नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धि सारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ २,४९.१०६ ॥
अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ॥ २,४९.१०७ ॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ २,४९.१०८ ॥
न यत्र दाम्भिका यान्ति ज्ञानवैराग्यवर्जिताः । सुधियस्तां गतिं यान्ति तानहं कथयामि ते ॥ २,४९.१०९ ॥
निर्मानमोहा जितसंगदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्ताः सुखदुः खसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ २,४९.११० ॥
ज्ञानह्रदे सत्यजले रागद्वेषमलापहे । यः स्नाति मानसे तीर्थे स वै मोक्षमवाप्नुयात् ॥ २,४९.१११ ॥
प्रौढवैराग्यमास्थाय भजते मामनन्यभाक् । पूर्णदृष्टिः प्रसन्नात्मा स वै मोक्षमवाप्नुयात् ॥ २,४९.११२ ॥
त्यक्त्वा गृहं च यस्तीर्थे निवसेन्मरणोत्सुकः । मुक्तिक्षेत्रेषु म्रियते स वै मोक्षमवाप्नुयात् ॥ २,४९.११३ ॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिक । पुरी द्वारवती ज्ञेयाः सप्तैता मोक्षदायिकाः ॥ २,४९.११४ ॥
इति ते कथितं तार्क्ष्य मोक्षधर्मं सनातनम् । ज्ञानवैराग्यसहितं श्रुत्वा मोक्षमवाप्नुयात् ॥ २,४९.११५ ॥
मोक्षं गच्छन्ति तत्त्वज्ञा धार्मिकाः स्वर्गतिं नराः । पापिनो दुर्गतिं यान्ति संसरन्ति खगादयः ॥ २,४९.११६ ॥
सूत उवाच । स्वप्रश्रोत्तरराद्धान्तमेवं भगवतो मुखात् । श्रुत्वा हृष्टतनुस्तार्क्ष्यो ननाम जगदीश्वरम् ॥ २,४९.११७ ॥
सन्देहो मे महान्नष्टो भवद्वाक्यविरोचनात् । इत्युक्त्वा विष्णुमामन्त्र्य स गतः कश्यपाश्रमम् ॥ २,४९.११८ ॥
सद्यो देहान्तरं याति यथा याति विलम्बतः । अनयोरुभयोश्चैव न विरोधस्तथैव वः ॥ २,४९.११९ ॥
सर्वमाख्यातवांस्तात श्रुतो भगवतो यथा । मारीचोऽपि मुदं लेभे श्रुत्वा वाक्यं रमापतेः ॥ २,४९.१२० ॥
अपाकृतस्तु सन्देहो ब्राह्मणा भवतां मया । उक्तं सुपर्णसंज्ञन्तु पुराणं परमाद्भुतम् ॥ २,४९.१२१ ॥
इदमाप हरेस्तार्क्ष्यस्तार्क्ष्यादाप ततो भृगुः । भृगोर्वसिष्ठः संप्राप वामदेवस्ततः पुनः ॥ २,४९.१२२ ॥
पराशरमुनिः प्राप तस्माद्व्यासस्ततो ह्यहम् । मया तु भवतां प्रोक्तं परं गुह्यं हरेरिदम् ॥ २,४९.१२३ ॥
य इदं शृणुयान्मर्त्यो यो वाप्यभिदधाति च । इहामुत्र च लोके स सर्वत्र सुखमाप्नुयात् ॥ २,४९.१२४ ॥
व्रजतः संयमन्यां यद्दुः खमत्र निरूपितम् । अस्य श्रवणतः पुण्यं तन्मुक्तो जायते ततः ॥ २,४९.१२५ ॥
अत्रोक्तकर्मपाकादिश्रवणाच्च नृणामिह । वैराग्यमावहेद्यस्मात्तस्माच्छ्रोतव्यमेव च ॥ २,४९.१२६ ॥
भजत जितहृषीकाः कृष्णमेनं मुनीशं समजनि बत यस्माद्गीः सुधासारधारा । पृषतमपि यदीयं वर्णरूपं निपीय श्रुतिपुटचुलुकेन प्राप्नुयादात्मनैक्यम् ॥ २,४९.१२७ ॥
व्यास उवाच । इति सूतमुखोद्गीर्णांसर्वशास्त्रार्थमण्डिताम् । वैष्णवीं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥ २,४९.१२८ ॥
प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम् । प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥ २,४९.१२९ ॥
इति हरिवचनानि सूतवाचा खगपतिसंशयभेदकानि यानि । स मुनिरपि निशम्य शौनकेन्द्रो बहुतरमानयति स्म चात्मनि स्वम् ॥ २,४९.१३० ॥
अपूजयंस्ते मुनयस्तदानीमुदाखाग्भिर्मुहुरेव सूतम् । धन्योऽसि सूत त्वमिहेत्युदैरयन्व्यसर्जयंस्तं च निवर्तितेऽध्वरे ॥ २,४९.१३१ ॥
पुराणं गारुडं पुण्यं पवित्रं पापनाशनम् ॥ शृण्वतां कामनापूरं श्रोतव्यं सर्वदैव हि ॥ २,४९.१३२ ॥
श्रुत्वा दानानि देयानि वाचकायाखिलानि च । पूर्वोक्तशयनादीनि नान्यथा सफलं भवेत् ॥ २,४९.१३३ ॥
पुराणं पूजयेत्पूर्वं वाचकं तदनन्तरम् । वस्त्रालङ्कारगोदानैर्दक्षिणाभिश्च सादरम् ॥ २,४९.१३४ ॥
अन्नदानैर्हेमदानैर्भमिदानैश्च भूरिभिः । पूजयेद्वाचकं भक्त्या बहुपुण्यफलाप्तये ॥ २,४९.१३५ ॥
यश्चेदं शृणुयान्मर्त्यो यथापि परिकीर्तयेत् । विहाय यातनां घोरां धूतपापो दिवं व्रजेत् ॥ २,४९.१३६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे मोक्षोपायनिरूपणं नामैकोनपञ्चाशत्तमोऽध्यायः इति श्रीगारुडे महापुराणे द्वितीयो धर्मकाण्डः समाप्तः