गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४७

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४६ गरुडपुराणम्
अध्यायः ४७
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४८ →

श्रीगरुडमहापुराणम् ४७
गरुड उवाच ।
भगवन्देवदेवेश कृपया परया वद ।
दानं दानस्य माहात्म्यं वैतरण्याः प्रमाणकम् ॥ २,४७.१ ॥

श्रीकृष्ण उवाच ।
या सा वैतरणी नाम यममार्गे महासरित् ।
अगाधा दुस्तरा पापैर्दृष्टमात्रा भयावहा ॥ २,४७.२ ॥

पूयशोणिततोयाढ्या मांसकर्दमसकुंला ।
पापिनञ्चागतान्दृष्ट्वा नानाभयसमावृता ॥ २,४७.३ ॥

क्वाथ्यते सत्वरं तोयं पात्रमध्ये घृतं यथा ।
क्रिमिभिः सङ्कुलं पूयं वज्रतुण्डैः समावृतम् ॥ २,४७.४ ॥

शिशुमारैश्च मकरैर्वज्रकर्तरिकायुतैः ।
अन्यैश्च जलजीवैश्च हिंसकैर्मांसभेदिभिः ॥ २,४७.५ ॥

उद्यान्ति द्वादशादित्याः प्रलयान्ते तथा हि ते ।
तपन्ति तत्र वै मर्त्याः क्रन्द मानास्तु पापिनः ॥ २,४७.६ ॥

हा भ्रातः पुत्र तातेति प्रलपन्ति मुहुर्मुहुः ।
विचरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ॥ २,४७.७ ॥

चतुर्विधैः प्राणिगणैर्दृष्टा व्याप्ता महानदी ।
तरन्ति गोप्रदानेन त्वन्यथा च पतन्ति ते ॥ २,४७.८ ॥

मां नरा येऽवमन्यन्ते चाचार्यं गुरुमेव च ।
वृद्धानन्यांश्चापि मूढास्तेषां वासस्तु तत्र वै ॥ २,४७.९ ॥

पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम् ।
परित्यजन्ति ये मूढास्तेषां वासस्तु सन्ततम् ॥ २,४७.१० ॥

विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम् ।
स्त्रीबालविकलादीनां वधं कृत्वा पतन्ति हि ।
पच्यन्ते तत्र मध्ये तु क्रन्दमानास्तु पापिनः ॥ २,४७.११ ॥

शान्तं बुभुक्षितं विप्रंयो विघ्नायोपसर्पति ।
क्रिमिभिर्भक्ष्यते तत्र यावदाभूतसंप्लवम् ॥ २,४७.१२ ॥

ब्राह्मणाय प्रतीश्रुत्य यमार्थं न ददाति तम् ।
आहूय नास्ति यो ब्रूयात्तस्य वासस्तु तत्र वै ॥ २,४७.१३ ॥

अग्निदो गरदश्चैव कूटसाक्षी च मद्यपः ।
यज्ञविध्वंसकश्चैव राज्ञीगामी च पैशुनः ॥ २,४७.१४ ॥

कथाभङ्गकरश्चैव स्वयन्दत्ता पहारकः ।
क्षेत्रसेतुविभेदी च परदारप्रधर्षकः ॥ २,४७.१५ ॥

ब्राह्मणो रसविक्रेता तथा यो वृषलीपतिः ।
गोधनस्य तृषार्तस्य वाप्या भेदं करोति यः ॥ २,४७.१६ ॥

कन्याविदूषकश्चैव दानं दत्त्वानुतापकः ।
शूबद्रस्तु कपिलापायी ब्राह्मणो मांसभोजनः ॥ २,४७.१७ ॥

एते वसन्ति सततं मा विचारं कृथाः क्वचित् ।
कृपणो नास्तिकः क्षुद्रः स तस्यां निवसेत्खग ॥ २,४७.१८ ॥

सदामर्षो सदा क्रोधी निजवाक्यप्रमाणकृत् ।
परोक्त्युच्छेदको नित्यं वैतरण्या वसेच्चिरम् ॥ २,४७.१९ ॥

यस्त्वहङ्कारवान्पापी स्वविकत्थनकारकः ।
कृतघ्नो गर्भसन्तापी वैतरण्यां स मज्जति ॥ २,४७.२० ॥

कदापि भाग्ययोगेन तरणेच्छा भवेद्यदि ।
सानुकूला भवेद्येन तदाकर्णय काश्यप ॥ २,४७.२१ ॥

अयने विषुवे पुण्ये व्यतीपाते दिनोदये ।
चन्द्रसूर्योपरागे वा संक्रान्तौ दर्शवासरे ॥ २,४७.२२ ॥

अन्येषु पुण्यकालेषु दीयते दानमुत्तमम् ।
यदा तदा भवेद्वापि श्राद्धा दानं प्रति ध्रुवम् ॥ २,४७.२३ ॥

तदैब दानकालः स्याद्यतः सम्पत्तिरस्थिरा ।
अनित्यानि शरीराणि विभवो नैव शाश्वतः ॥ २,४७.२४ ॥

नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंगहः ।
कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ॥ २,४७.२५ ॥

स्वर्णशृङ्गीं रौप्यखुरां कांस्यपात्रोपदोहनीम् ।
कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ॥ २,४७.२६ ॥

कार्पासद्रोणशिखरे आसीनं ताम्रभाजने ।
यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।
इक्षुदण्डमयं बद्ध्वा प्लवं सुदृढबन्धनैः ॥ २,४७.२७ ॥

उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।
कृत्वा प्रकल्पयेद्विप्रश्छत्रोपानहसंयुतम् ॥ २,४७.२८ ॥

अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।
इममुच्चारयेन्मन्त्रं संगृह्य सजलान्कुशान् ॥ २,४७.२९ ॥

यमद्वारे महाघोरे श्रुत्वा वैतरणीं तदीम् ।
तर्तुकामो ददाम्येनां तुभ्यं वैतरणीं नमः ॥ २,४७.३० ॥

गावो मे अग्रतः सन्तु गावो मे सन्तु पार्श्वतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ २,४७.३१ ॥

विष्णुरूप द्विजश्रेष्ठ मामुद्धर महीसुर ।
सदक्षिणा मया दत्ता तुभ्यं वैतरणीनमः ॥ २,४७.३२ ॥

धर्मराजञ्च सर्वेशं वैतरण्याख्यधेनुकाम् ।
सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत् ॥ २,४७.३३ ॥

पुच्छं संगृह्य धेन्वाश्च अग्रे कृत्वा तु वै व्दिजम् ।
धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ॥ २,४७.३४ ॥

उत्तारणाय देवेशि वैतरण्ये नमोऽस्तु ते ।
अनुव्रजेत्तु गच्छन्तं सर्वं तस्य गृहं नयेत् ॥ २,४७.३५ ॥

एवं कृते वैनतेय सा सरित्सुतरा भवेत् ।
सर्वान्कामानवाप्नोति यो दद्याद्भुवि मानवः ॥ २,४७.३६ ॥

सुकृतस्य प्रभावेण सुखञ्चेह परत्र च ।
स्वस्थे सहस्रगुणितमातुरे शतसंमितम् ॥ २,४७.३७ ॥

मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।
स्वहस्तेन ततो देयं मृते कः कस्य दास्यती ॥ २,४७.३८ ॥

दानधर्मविहीनानां कृपणैर्जीवेतक्षितैः ।
अस्थिरेण शरीरेण स्थिरं कर्म समाचरेत् ॥ २,४७.३९ ॥

अवश्यमेव यास्यन्ति प्राणाः प्राघुणि (घूर्णि) का इव ॥ २,४७.४० ॥

इतीदमुक्तं तव पक्षिराज विडम्बनं जन्तुगणस्य सर्वम् ।
प्रेतस्य मोक्षाय तदौद्ध्वन्दैहिकं हिताय लोकस्य चरेच्छुभाय तु ॥ २,४७.४१ ॥

सूत उवाच ।
एवं विप्राः समाद्दिष्टो विष्णुना प्रभविष्णुना ।
गरुड प्रेतचरितं श्रुत्वा सन्तुष्टिमागतः ॥ २,४७.४२ ॥

व्रततीर्थादिकं सर्वं पुनः पप्रच्छ केशवम् ।
ध्यात्वा मनसि सर्वेशं सर्वकारणकारणम् ॥ २,४७.४३ ॥

ऋषयः सर्वमेवैतज्जन्तूनां प्रभवादिकम् ।
मरणं जन्म च तथा प्रेतत्वञ्चौर्ध्वदैहिकम् ॥ २,४७.४४ ॥

मया प्रोक्तं वै मुक्त्यै निदानं चैव सर्वशः ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ २,४७.४५ ॥

धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
क्षमा जयति न क्रोधो विष्णुर्जयति नासुराः ॥ २,४७.४६ ॥

विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः ।
येषामेव स्थिरा बुद्धिर्न तेषां दुर्गतिर्भवेत् ॥ २,४७.४७ ॥

मङ्गलं भगवान्विष्णुर्मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ २,४७.४८ ॥

हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः ।
भागीरथी हरिर्विप्राः सारमेतज्जगत्त्रये ॥ २,४७.४९ ॥

इति सूतमुखोद्गीर्णां सर्वशास्त्रार्थमण्डिताम् ।
वैष्णविं वाक्सुधां पीत्वा ऋषयस्तुष्टिमाययुः ॥ २,४७.५० ॥

प्रशशंसुस्तथान्योन्यं सूतं सर्वार्थदर्शिनम् ।
प्रहर्षमतुलं प्रापुर्मुनयः शौनकादयः ॥ २,४७.५१ ॥

अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरं शुचिः ॥ २,४७.५२ ॥

इति श्रीगारुडे महापु उत्तरखण्डे द्वितीदृ धर्मकादृप्रेतदृश्रीकृष्णगरुडसंवादे कर्मविपाकादिनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः