गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४५

विकिस्रोतः तः
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४४ गरुडपुराणम्
अध्यायः ४५
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४६ →

श्रीगरुडमहापुराणम् ४५
श्रीविष्णुरुवाच ।
प्रत्यब्दं श्राद्धमेवं ते कथयामि खगेश्वर ।
प्रत्यब्दं पार्वणेनैव कुर्यातां क्षेत्रजोरसौ ॥ २,४५.१ ॥

विधिनाचेतरैरेवमेकोद्दिष्टं न पार्वणम् ॥ २,४५.२ ॥

अनग्नेश्च सुतौ स्यातामनग्नी क्षेत्रजोरसौ ।
एकोद्दिष्टं न कुर्यातां प्रत्यब्दं तौ तु पार्वणम् ॥ २,४५.३ ॥

यदा त्वन्यतरः साग्निः पुत्रो वाप्यथवा पिता ।
प्रत्यब्दं पार्वणं तत्र कुर्यातां क्षेत्रजौरसौ ॥ २,४५.४ ॥

अनग्नयः साग्नयो वा पुत्रा वा पितरोऽपि वा ।
एकोद्दिष्टं सुतैः कार्यं क्षयाह इति केचन ॥ २,४५.५ ॥

दर्शकाले क्षयो यस्य प्रेतपक्षेऽथ वा पुनः ।
प्रत्यब्दं पार्वणं कार्यं तस्य सर्वैः सुतैरपि ॥ २,४५.६ ॥

एकोद्दिष्टमपुत्राणां पुंसां स्याद्योपितामपि ।
एकोद्दिष्टे कुशा ग्राह्याः समूला यज्ञकर्मणि ।
बहिर्लूनाः सकृल्लनाः श्राद्धं वृद्धिमृते सदा ॥ २,४५.७ ॥

कर्तव्ये पार्वणे श्राद्धे आशौचं यदि जायते ।
आशौचावगमे कुर्याच्छ्राद्धं हि तदनन्तरम् ॥ २,४५.८ ॥

एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते ।
मासेन्यस्मिन् तिथौ तस्यां कुर्याच्छ्राद्धं तदैव हि ॥ २,४५.९ ॥

तूष्णीं श्राद्धान्तु शूद्रस्य भार्यायास्तत्सुतस्य च ।
कन्यायाश्च द्विजातीनामनुपेतद्विजस्य च ॥ २,४५.१० ॥

एककाले गता सूनां बहूनामथ वा द्वयोः ।
तन्त्रेण श्रपणं कुर्याच्छ्राद्धं कुर्यात्पृथक्पृथक् ॥ २,४५.११ ॥

दद्यात्पूर्वं मृतस्यादौ द्वितीयस्य ततः पुनः ।
तृतीयस्य ततः कुर्यात्संनिपाते त्वयं विधिः (क्रमः) ॥ २,४५.१२ ॥

प्रत्यब्दमेवं यः कुर्याद्यथातथमतन्द्रितः ।
तारयित्वा पितॄन् सर्वान् प्राप्नोति परमां गतिम् ॥ २,४५.१३ ॥

न ज्ञायते मृताहश्चेत्प्रस्थानदिनमेव च ।
मासश्चेत्स्यात्परिज्ञातस्तद्दर्शे स्यान्मृताहिकम् ॥ २,४५.१४ ॥

यदा मासो न विज्ञातो विज्ञातं दिनमेव च ।
तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत् ॥ २,४५.१५ ॥

दिनमासावविज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानदिनमासौ तु ग्राह्यौ श्राद्धे मयोदितौ ॥ २,४५.१६ ॥

प्रस्थानस्यापि न ज्ञातौ दिनमासौ यदा पुनः ।
मृतवार्ताश्रुतौ ग्राह्यौ पूर्वप्रोक्तक्रमेण तु ॥ २,४५.१७ ॥

प्रवासमन्तरेणापि स्यातां तौ विस्मृतौ यदा ।
तदानीमपि तौ ग्राह्यौ पूर्ववत्तु मृताहिके ॥ २,४५.१८ ॥

गृहस्थे प्रोषिते यच्च कश्चित्तु म्रियते गृहे ।
आसौचापगमे यत्र प्रारब्धे श्राद्धकर्मणि ॥ २,४५.१९ ॥

प्रत्यागतश्चेज्जानाति तत्र वृत्तं गृही तथा ।
आशौचं गृहिणस्तेषां न द्रव्यादेस्तदा भवेत् ॥ २,४५.२० ॥

पुत्रादिना यदारब्धं श्राद्धं तत्त्वेन वाखिलम् ।
समापनीयं तत्रापि श्राद्धं गृहीतु दूरतः ॥ २,४५.२१ ॥

दात्रा बोक्त्रा च न ज्ञातं सूतकं मृतकं तथा ।
उभयोरपि तद्दोषं नारोपयति कर्हिचित् ॥ २,४५.२२ ॥

यदा त्वन्यतरज्ञातं सूतकं मृतकं तथा ।
भोक्तुरेव तदा दोषो नान्यो दाता प्रदुष्यति ॥ २,४५.२३ ॥

इत्युक्तेन प्रकारेण यः कुर्यान्मृतवासरम् ।
अविज्ञातमृताहस्य सततं तारयत्यसौ ॥ २,४५.२४ ॥

नित्यश्राद्धेऽथ गन्धाद्यैर्द्विजानभ्यर्च्य भक्तितः ।
सर्वान् पितृगणान् सम्यक्सहैवोद्दिश्य योजयेत् ॥ २,४५.२५ ॥

आवाहनं स्वधाकारो पिण्डाग्नौकरणादिकम् ।
ब्रह्मचर्यादिनियमा विश्वदेवास्तथैव च ॥ २,४५.२६ ॥

नित्यश्राद्धे त्यजेदेतान् भोज्यमन्नं प्रकल्पयेत् ।
दत्त्वा तु दक्षिणां शक्त्या नमस्कारैर्विसर्जयेत् ॥ २,४५.२७ ॥

देवानुद्दिश्य विश्वादीन् यद्दद्याद्द्विजभोजनम् ।
तन्नित्यश्राद्धवत्कार्यं देवश्राद्धं तदुच्यते ॥ २,४५.२८ ॥

मातृश्राद्धन्तु पूर्वेण कर्मादौ पैतृकं तथा ।
उत्तरेऽहनि वृद्धौ स्यान्मातामहगणस्य तु ॥ २,४५.२९ ॥

श्राद्धत्रयं प्रकुर्र्वीत वैश्वदेवन्तुतान्त्रिकम् ॥ २,४५.३० ॥

मातृभ्यः कल्पयेत्पूर्वं पितृभ्यस्तदनन्तरम् ।
मातामहेभ्यश्च तथा दद्यादित्थं क्रमेण तु ॥ २,४५.३१ ॥

मातृश्राद्धे तु विप्राणामभावे सुकुलोद्गताः ।
पतिपुत्रान्विताः साध्व्यो योषितोऽष्टौ च भावयेत् ॥ २,४५.३२ ॥

इष्टापूर्तादिके श्राद्धं कुर्यादाभ्युदयं तथा ।
उत्पातादिनिमित्तेषु नित्य श्राद्धवदेव तु ॥ २,४५.३३ ॥

नित्यं दैवञ्च वृद्धिञ्च काम्यं नैमित्तिकं तथा ।
श्राद्धान्युक्तप्रकारेण कुर्वन् सिद्धिमवाप्नुयात् ।
इति ते कथितं तार्क्ष्य किमन्यत्परिपृच्छसि ॥ २,४५.३४ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रत्याब्दिकादिश्राद्धनिरूपणं नाम पञ्चचत्वारिंशोऽध्यायः