गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २९ गरुडपुराणम्
अध्यायः ३०
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३१ →

श्रीगरुडमहापुराणम् ३०
श्रीकृष्ण उवाच ।
शृणु तार्क्ष्य परं गुह्यं दानानां दानमुत्तमम् ।
परमं सर्वदानानां परं गोप्यं दिवौकसाम् ॥ २,३०.१ ॥

देयमेकं महादानं कार्पासं चोत्तमोत्तमम् ।
येन दत्तेन प्रीयन्ते भूर्भुवः स्वरिति क्रमात् ॥ २,३०.२ ॥

ब्रह्माद्या देवताः सर्वाः कार्याच्च प्रीतिमाप्नुयुः ।
देयमेतन्महादानं प्रेतोद्धरणहेतवे ॥ २,३०.३ ॥

चिरं वसेद्रुद्रलोके ततो राजा भवेदिह ।
रूपवान्सुभगो वाग्मी श्रीमानतुल विक्रमः ।
यमलोकं विनिर्जित्य स्वर्गं ताक्ष्य स गच्छति ॥ २,३०.४ ॥

गां तिलांश्च क्षितं हेम यो ददाति द्विजन्मने ।
तस्य जन्मार्जिर्त पापं तत्क्षणादेवनश्यति ॥ २,३०.५ ॥

तिला गावो महादानं महापातकनाशनम् ।
तद्द्वयं दीयते विप्रे नान्यवर्णे कदाचन ॥ २,३०.६ ॥

कल्पितं दीयते दानं तिला गावश्चमेदिनी ।
अन्येषु नैव वर्णेषु पोष्यवर्गे कदाचन ॥ २,३०.७ ॥

पोष्यवर्गे तथा स्त्रीषु दानं देयमकल्पितम् ।
आतुरे वोपरागे च द्वयं दानं विशिष्यते ।
आतुरे दीयते दानं तत्काले चोपतिष्ठति ॥ २,३०.८ ॥

जीवतस्तु पुनर्दत्तमुपतिष्ठत्यसंस्कृतम् ।
सत्यंसत्यं पुनः सत्यं यद्दत्तं विकलेन्द्रिये ॥ २,३०.९ ॥

यच्चानु मोदते पुत्रस्तच्च दानमनन्तकम् ।
अतो दद्यात्स पुत्रो वा यावज्जीवत्ससौ चिरम् ।
अतिवाहस्तथा प्रेतो भोगांश्च लभते यतः ॥ २,३०.१० ॥

अस्वस्था तुरकाले तु देहपाते क्षितिस्थिते ।
देहे तथातिवाहस्य परतः प्रीणनं भवेत् ॥ २,३०.११ ॥

पङ्गावन्धे च काणे च ह्यर्धोन्मीलितलोचने ।
तिलेषु दर्भान्संस्तीर्य दानमुक्तं तदक्षयम् ॥ २,३०.१२ ॥

तिला लौहं हिरण्यञ्च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥ २,३०.१३ ॥

लोहदानाद्यमस्तुष्येद्धर्म राजस्तिलार्पणात् ।
लवणे दीयमाने तु न भयं विद्यते यमात् ॥ २,३०.१४ ॥

कर्पासस्य तु दानेन न भूतेभ्यो भयं भवेत् ।
तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात् ॥ २,३०.१५ ॥

हेमदानात्सुखं स्वर्गे भूमिदानान्नृपो भवेत् ।
हेमभूमिप्रदानाच्च न पीडा नरके भवेत् ॥ २,३०.१६ ॥

सर्वेऽपि यमदूताश्च यमरूपा विभीषणाः ।
सर्वे ते वरदा यान्ति सप्तधान्येन प्रीणिताः ॥ २,३०.१७ ॥

विष्णोः स्मरणमात्रेण प्राप्यते परमा गतिः ।
एतत्ते सर्वमाख्यातं मर्त्यैर्या गतिराप्यते ॥ २,३०.१८ ॥

तस्मात्पुत्रं प्रशंसन्ति ददाति पितुराज्ञया ।
भूमिष्ठं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम् ॥ २,३०.१९ ॥

तस्मिन् काले सुतो यस्तु सर्वदानानि दापयेत् ।
गयाश्राद्धाद्विशिष्येत स पुत्रः कुलनन्दनः ॥ २,३०.२० ॥

स्वस्थानाच्चलितश्चासौ विकलस्य पितुस्तदा ।
पुत्रैर्यत्नेन कर्तव्या पितरं तारयन्ति ते ॥ २,३०.२१ ॥

किं दत्तैर्बहुभिर्दानैः पितुरन्त्येष्टिमाचरेत् ।
अश्वमेधो महायज्ञः कलां नार्हति षोडशीम् ॥ २,३०.२२ ॥

धर्मात्मा स नु पुत्रो वैदेवैरपि सुपूज्यते ।
दापयेद्यस्तु दानानि ह्यातुरं पितरं भुवि ॥ २,३०.२३ ॥

लोहदानञ्च दातव्यं भूमियुक्तेन पाणिना ।
यमं भीमञ्च नाप्नोति न गच्छेत्तस्य वेश्मनि ॥ २,३०.२४ ॥

कुठारो मुसलो दण्डः खड्गश्च च्छुरिका तथा ।
एतानि यमहस्तेषु दृश्यानि पापकर्मिणाम् ॥ २,३०.२५ ॥

तस्माल्लोहस्य दानन्तु ब्राह्मणायातुरो ददेत् ।
यमायुधानां सन्तुष्ट्यै दानमेतदुदाहृतम् ॥ २,३०.२६ ॥

गर्भस्थाः शिशवो ये च युवानः स्थविरास्तथा ।
एभिर्दानविशेषैस्तु निर्दहेयुः स्वपातकम् ॥ २,३०.२७ ॥

छुरिणः श्यामशबलौ षण्डामर्का उदुम्बराः ।
शबला श्यामदूता ये लोहदानेन प्रीणिताः ॥ २,३०.२८ ॥

पुत्राः पौत्रास्तथा बन्धुः सगोत्राः सुहहृदस्तथा ।
ददते नातुरे दानं ब्रह्मघ्नैस्तु समा हि ते ॥ २,३०.२९ ॥

पञ्चत्वे भूमियुक्तस्य शृणु तस्य च या गतिः ।
अतिवाहः पुनः प्रेतोवर्षोर्ध्वं सुकृतं लभेत् ॥ २,३०.३० ॥

अग्नित्रयं त्रयो लोकास्त्रयो वेदास्त्रयोऽमराः ।
कालत्रयं त्रिसन्ध्यं च त्रयो वर्णास्त्रिशक्तयः ॥ २,३०.३१ ॥

पादादूर्ध्वं कटिं यावत्तावद्ब्रह्याधितिष्ठति ।
ग्रीवां यावद्धरिर्नाभेः शरीरे मनुजस्य च ॥ २,३०.३२ ॥

मस्तके तिष्ठतीशानो व्यक्ताव्यक्तो महेश्वरः ।
एकमूर्तेस्त्रयो भागा ब्रह्मा विष्णुहेश्वराः ॥ २,३०.३३ ॥

अहं प्राणः शरीरस्थो भूतग्रामचतुष्टये ।
धर्माधर्मे मतिं दद्यात्सुखदुःखे कृताकृते ॥ २,३०.३४ ॥

जन्तोर्वुद्धिं समास्थाय पूर्वमर्माधिवासिताम् ।
अहमेव तथा जीवान्प्रेरयामि च कर्मसु ।
स्वर्गं च नरकं मोक्षं प्रयान्ति प्राणिनो ध्रुवम् ॥ २,३०.३५ ॥

स्वर्गस्थं नरकस्थं वा श्राद्धे वाप्यायनं भवेत् ।
तस्माच्छ्राद्धानि कुर्वीत त्रिविधानि विचक्षणः ॥ २,३०.३६ ॥

मत्स्यं कर्मं च वाराहं नारसिंहञ्च वामनम् ।
रामं रामं च कृष्णं च बुद्धं चैव सकल्किनम् ।
एतानि दश नामानि स्मर्तव्यानि सदा बुधैः ॥ २,३०.३७ ॥

स्वर्गं जीवाः सुखं यान्ति च्युताः स्वर्गाच्च मानवाः ।
लब्ध्वा सुखं च वित्तं च दयादाक्षिण्यसंयुताः ।
पुत्रपौत्रैर्धनैराढ्या जीवेयुः शरदां शतम् ॥ २,३०.३८ ॥

आतुरे च ददेद्दानं विष्णुपूजाञ्च कारयेत् ।
अष्टाक्षरं तथा मन्त्रं जपेद्वा द्वादशाक्षरम् ॥ २,३०.३९ ॥

पूजयेच्छुक्लपुष्पैश्च नैवेद्यैर्घृतपाचितैः ।
तथा गन्धैश्च धूपैश्च श्रुतिस्मृतिमनूदितैः ॥ २,३०.४० ॥

विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः ।
यत्र विष्णुं न पश्यामि तेन वासेन किं मम ॥ २,३०.४१ ॥

जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ २,३०.४२ ॥

वयमापो वयं पृथ्वी वयं दर्भा वयं तिलाः ।
वयं गावो वयं राजा वयं वायुर्वयं प्रजाः ॥ २,३०.४३ ॥

वयं हेम वयं धान्यं वयं मधु वयं घृतम् ।
वयं विप्रा वयं देवा वयं शम्भुश्च भूर्भुवः ॥ २,३०.४४ ॥

अहं दाता अहं ग्राही अहं यज्वा अहं क्रतुः ।
अहं हर्ता अहं धर्मो अहं पृथ्वी ह्यहं जलम् ॥ २,३०.४५ ॥

धर्माधर्मे मतिं दद्यां कर्मभिस्तु शुभाशुभैः ।
यत्कर्म क्रियते क्वापि पूर्वजन्मार्जितं खग ॥ २,३०.४६ ॥

धर्मे मतिमहं दद्यामधर्मेऽप्यहमेव च ।
यातनां कुरुते सोऽपि धर्मे मुक्तिं ददाम्यहम् ॥ २,३०.४७ ॥

मनुजानां हिता तार्क्ष्य अन्ते वैतरणी स्मृता ।
तयावमत्य पापौघं विष्णुलोकं स गच्छति ॥ २,३०.४८ ॥

बालत्वे यच्च कौमारे यच्च परिणतौ च यत् ।
सर्वावम्थाकृतं पापं यच्च जन्मान्तरेष्वपि ॥ २,३०.४९ ॥

यन्निशायां तथा प्रातर्यन्मध्याह्नापराह्नयोः ।
सन्ध्ययोर्यत्कृतं कर्म कर्मणा मनसा गिरा ॥ २,३०.५० ॥

दत्त्वा वरां सकृदपि कपिलां सर्वकामिकाम् ।
उद्धरेदन्तकाले स आत्मानं पापसञ्चयात् ॥ २,३०.५१ ॥

गावो ममाग्रतः सन्तु पृष्ठतः पार्श्वतस्तथा ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ २,३०.५२ ॥

या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ २,३०.५३ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नानादाननिरूपणं नाम त्रिंसोऽध्यायः