गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः २७
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २६ | गरुडपुराणम् अध्यायः २७ वेदव्यासः |
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २८ → |
श्रीगरुडमहापुराणम् २७
तार्क्ष्य उवाच ।
कथं प्रेता वसन्त्यत्र कीदृग्रूपा भवन्ति ते ।
महाप्रेताः पिशाचाश्च कैःकैः कर्मफलैर्विभो ।
सर्वेषामनुकम्पार्थं ब्रूहि मे मधुसूदन ॥ २,२७.१ ॥
प्रेतत्वान्मुच्यते येन दानेन च शुभे न च ।
तन्मे कथय देवेश मम चेदिच्छसि प्रियम् ॥ २,२७.२ ॥
श्रीकृष्ण उवाच ।
साधु पृष्टं त्वया तार्क्ष्य मानुषाणां हिताय वै ।
शृणुचावहितो भूत्वा यद्वच्मि प्रेतलक्षणम् ॥ २,२७.३ ॥
गुह्यद्गुह्यतरं ह्येतन्नाख्येयं यस्य कस्यचित् ।
भक्तस्त्वं हि महाबाहो तेन ते कथयाम्यहम् ॥ २,२७.४ ॥
पुरा त्रेतायुगे तात राजासीद्बभ्रुवाहनः ।
महोदयपुरे रम्ये धर्मनिष्ठो महाबलः ॥ २,२७.५ ॥
यज्वा दानपतिः श्रीमान्ब्रह्मण्यः साधुसंमतः ।
शीलाचारगुणोपेतो दयादाक्षिण्यसंयुतः ॥ २,२७.६ ॥
प्रजाः पालयते नित्यं पुत्रानिव महाबलः ।
क्षत्त्रधर्मरतो नित्यं स दण्ड्यान्दण्डयन्नृपः ॥ २,२७.७ ॥
स कदाचिन्महाबाहुः ससैन्योमृगयां गतः ।
वनं विवेश गहनं नानावृक्षसमन्वितम् ॥ २,२७.८ ॥
शार्दूलशतसंजुष्टं नानापक्षिनिनादितम् ।
वनमध्ये तदा राजा मृगं दूरादपश्यत ॥ २,२७.९ ॥
तेन विद्धो मृगोऽतीव बाणेन सुदृढेन च ।
बाणमादाय तं तस्य स वनेऽदर्शनं ययौ ॥ २,२७.१० ॥
कक्षे तच्छोणितस्त्रावात्स राजानुजगाम तम् ।
ततो मृगप्रसङ्गेन वनमन्यद्विवेश सः ॥ २,२७.११ ॥
क्षुत्क्षामकण्ठो नृपतिः श्रमसन्तापमूर्छितः ।
जलस्थानं समासाद्य साश्व एवावगाहत ॥ २,२७.१२ ॥
पीत्वा तदु दकं शीतं पद्मगन्धाधिवासितम् ।
तत उत्तीर्य सलिलाद्विमलाद्बभ्रुवाहनः ॥ २,२७.१३ ॥
न्यग्रोधवृक्षमासाद्य शीतच्छायं मनोहरम् ।
महाविटपिनं हृद्यं पक्षिसङ्घातनादितम् ॥ २,२७.१४ ॥
वनस्य तस्य सर्वस्य केतुभूतमिवोच्छ्रितम् ।
तं महातरुमासाद्य निषसाद महीपतिः ॥ २,२७.१५ ॥
अथ प्रेतं ददर्शासौ क्षुत्तृष्णाव्याकुलेन्द्रियम् ।
उत्कचं मलिनं कुब्जं (रूक्षं) निर्मांसं भीमदर्शनम् ॥ २,२७.१६ ॥
स्नायुबद्धास्थिचरणं धावमानमितस्ततः ।
अन्यैश्च बहुभिः प्रेतैः समन्तात्परिवारितम् ॥ २,२७.१७ ॥
तं दृष्ट्वा विकृतं घोरं विस्मितो बभ्रुवाहनः ।
प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नृपम् ॥ २,२७.१८ ॥
तदा हृष्टमना भूत्वा तस्यान्तिकमुपागतः ।
अब्रवीत्स तदा तार्क्ष्य प्रेतराजो नृपं वचः ॥ २,२७.१९ ॥
प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि परमां गतिम् ।
त्वत्संयोगान्महाबाहो नास्तिधन्यतरो मम ॥ २,२७.२० ॥
नृपतिरुवाच ।
कृष्णवर्णः करालास्यस्त्वं प्रेत इव लक्ष्यसे ।
कथयस्व मम प्रीत्या यथैवं चासि तत्त्वतः ॥ २,२७.२१ ॥
तथा पृष्टः स वै राज्ञा प्रोवाच सकलं स्वकम् ॥ २,२७.२२ ॥
प्रेत उवाच ।
कथयामि नृपश्रेष्ठ सर्वमेवादितस्तव ।
प्रेतत्वे कारणं श्रुत्वा दयां कर्तुं ममार्हसि ॥ २,२७.२३ ॥
वैदिशं नाम नगरं सर्वसम्पत्समन्वितम् ।
नानाजनपदाकीर्णं नानारत्नसमाकुलम् ।
नानापुण्यसमायुक्तं नानावृक्षसमाकुलम् ॥ २,२७.२४ ॥
तत्राहं न्यवसं भूयो देवार्चनरतः सदा ।
वैश्यो जात्या सुदेवोऽहं नाम्ना विदितमस्तु ते ॥ २,२७.२५ ॥
हव्येन तर्पिता देवाः कव्येन पितरस्तथा ।
विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया ॥ २,२७.२६ ॥
आवाहाश्च विवाहाश्च मया वै सुनिवेशिताः ।
दीनानाथविशिष्टेभ्यो मया दत्तमनेकधा ॥ २,२७.२७ ॥
तत्सर्वं विफलं तात मम दैवादुपागतम् ।
यथा मे निष्फलं जातं सुकृतं तद्वदामि ते ॥ २,२७.२८ ॥
न मेऽस्ति सन्ततिस्तात न सुहृन्न च बान्धवः ।
न च मित्रं हि मे तादृग्यः कुर्यादौर्ध्वदैहिकम् ॥ २,२७.२९ ॥
प्रेतत्वं सुस्थिरं तेन मम जातं नृपोत्तम ।
एकादशं त्रिपक्षं च षाण्मासिकमथाब्दिकम् ।
प्रतिमास्यानि चान्यानि एवं श्राद्धानि षोडश ॥ २,२७.३० ॥
यस्यैतानि न दीयन्ते प्रेतश्राद्धानि भूपते ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २,२७.३१ ॥
एवं ज्ञात्वा महाराज प्रेतत्वादुद्धरस्व माम् ।
वर्णानां चापि सर्वेषां राजा बन्धुरिहोच्यते ॥ २,२७.३२ ॥
तन्मां तारय राजेन्द्र मणिरत्नं ददामि ते ।
यथा मम शुभावाप्तिर्भवेन्नृपवरोत्तम ॥ २,२७.३३ ॥
तथा कार्यं महाबाहो कृपा यदि मयीष्यते ।
आत्मनश्च कुरु क्षिप्रं सर्वमेवौर्ध्वेदैहिकम् ॥ २,२७.३४ ॥
नृपतिरुवाच ।
कथं प्रेता भवन्तीह कृतैरप्यौर्ध्वदैहिकैः ।
पिशाचाश्च भवन्तीह कर्मभिः कैश्च तद्वद ॥ २,२७.३५ ॥
प्रेत उवाच ।
देवद्रव्यं च ब्रह्मस्वं स्त्रीबालधनसञ्चयम् ।
ये हरन्ति नृपश्रेष्ठ प्रेतयोनिं व्रजन्ति ते ॥ २,२७.३६ ॥
तापसीं च सगोत्रां च अगम्यां ये भजन्ति हि ।
भवन्ति ते महाप्रेता अम्बुजानि हरन्ति ये ॥ २,२७.३७ ॥
प्रवालवज्रहर्तारो ये च वस्त्रापहारकाः ।
तथा हिरण्यहर्तारः संयुगेऽसन्मुखागताः ॥ २,२७.३८ ॥
कृतघ्ना नास्तिका रौद्रास्तथा साहसिका नराः ।
पञ्चयज्ञविनिर्मुक्ता महादानरताश्च ये ॥ २,२७.३९ ॥
स्वामिद्रोहकरा मित्रब्राह्मद्रोहकराश्च ये ।
तीर्थपापकरा राजञ्जायन्ते प्रेतयोनयः ।
एवमाद्या महाराज जायन्ते प्रेतयोनयः ॥ २,२७.४० ॥
राजोवाच ।
कथं मुक्ता भवन्तीह प्रेतत्वात्त्वं च तेऽपि च ।
कथं चापि मया कार्यमौर्ध्वदैहिकमात्मनः ।
विधिना केन तत्कार्यं सर्वमेतद्वदस्व मे ॥ २,२७.४१ ॥
प्रेत उवाच ।
शृणु राजेन्द्र संक्षेपाद्विधिं नारायणात्मकम् ।
सच्छास्त्रश्रवणं विष्णोः पूजा सज्जनसंगतिः ॥ २,२७.४२ ॥
प्रेतयोनिविनाशाय भवन्तीति मया श्रुतम् ।
अतो वक्ष्यामि ते विष्णुपूजां प्रेतत्वनाशिनीम् ॥ २,२७.४३ ॥
सुवर्णद्वयमाहृत्य मूर्तिं भूप प्रकल्पयेत् ।
नारायणस्य देवस्य सर्वाभरणभूषिताम् ॥ २,२७.४४ ॥
पीतवस्त्रयुगाच्छन्नां चन्दनागुरुचर्चिताम् ।
स्नापयेद्विविधैस्तोयैरधिवास्य यजेत्ततः ॥ २,२७.४५ ॥
पूर्वे तु श्रीधरं देवं दक्षिणे मधुसूदनम् ।
पश्चिमे वानमं देवमुत्तरे च गदाधरम् ॥ २,२७.४६ ॥
मध्ये पितामहं पूज्य तथा देवं महेश्वरम् ।
पूजयेच्च विधानेन गन्धपुष्पादिभिः पृथक् ॥ २,२७.४७ ॥
ततः प्रदक्षिणीकृत्य अग्नौ सन्तर्प्य देवताः ।
घृतेन दध्ना क्षीरेण विश्वान्देवांस्तथा नृप ॥ २,२७.४८ ॥
ततः स्नातो विनीतात्मा यजमानः समाहितः ।
नारायणाग्रे विधिवत्स्वक्रियामौर्ध्वदैहिकीम् ॥ २,२७.४९ ॥
आरभेत विनीतात्मा क्रोधलोभविवर्जितः ।
श्राद्धानि कुर्यात्सर्वाणि वृषस्योत्सर्जनं तथा ॥ २,२७.५० ॥
त्रयोदशानां विप्राणां वस्त्रच्छत्राण्युपानहौ ।
अङ्गुलीयकमुक्तानि भाजनासनभोजनैः ॥ २,२७.५१ ॥
सान्नाश्च सोदका देया घटाः प्रेतहिताय वै ।
शय्यादानमथो दत्त्वा घटं प्रेतस्य निर्वपेत् ॥ २,२७.५२ ॥
नारायणेति सन्नाम संपुटस्थं समर्चयेत् ।
एवं कृत्वाथ विधिवच्छुभाशुभफलं लभेत् ॥ २,२७.५३ ॥
राजोवाच ।
कथं प्रेतघटं कुर्याद्दद्यात्केन विधानतः ।
ब्रूहि सर्वानुकम्पार्थं घटं प्रेतविमुक्तिदम् ॥ २,२७.५४ ॥
प्रेत उवाच ।
साधु पृष्टं महाराज कथयामि निबोध ते ।
प्रेतत्वं न भवेद्येन दानेन सुदृढेन च ॥ २,२७.५५ ॥
दानं प्रेतघटं नाम सर्वाशुभविनाशनम् ।
दुर्लभं सर्वलोकानां दुर्गतिक्षयकारकम् ॥ २,२७.५६ ॥
सन्तप्तहाटकमयं तु घटं विधाय ब्रह्मोशकेशवयुतं सह लोकपालैः ।
क्षीराज्यपूर्णविवरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ॥ २,२७.५७ ॥
ब्रह्मा मध्ये तथा विष्णुः शङ्करः शङ्करोऽव्ययः ।
प्राच्यादिषु च तत्कण्ठे लोकपालान्क्रमेण तु ॥ २,२७.५८ ॥
सम्पूज्य विधिवद्राजन्धूपैः कुसुमचन्दनैः ।
ततो दुग्धाज्यसहितं घटं देयं हिरण्मयम् ॥ २,२७.५९ ॥
सर्वदानाधिकञ्चैतन्महापातकनाशनम् ।
कर्तव्यं श्रद्धया राजन्प्रेतत्वविनिवृत्तये ॥ २,२७.६० ॥
श्रीभागवानुवाच ।
एवं संजल्षतस्तस्य प्रेतेन नियतात्मनः ।
सेनाजगामानुपदं हस्त्यश्वरथसंकुला ॥ २,२७.६१ ॥
ततो बले समायाते दत्त्वा राज्ञे महामणिम् ।
नमस्कृत्य पुनः प्रार्थ्य प्रेतोऽदर्शनमीयिवान् ॥ २,२७.६२ ॥
तस्माद्वनाद्विनिष्क्रम्य राजापि स्वपुरं ययौ ।
स्वपुरं स समासाद्य सर्वं तत्प्रेतभाषितम् ॥ २,२७.६३ ॥
चकार विधिवत्पक्षिन्नौर्ध्वदेहादिकं विधिम् ।
तस्य पुण्यप्रदानेन प्रेतो मुक्तो दिवं ययौ ॥ २,२७.६४ ॥
श्राद्धेन परदत्तेन गतः प्रेतोऽपि सद्गतिम् ।
किं पुनः पुत्रदत्तेन पिता यातीति चात्भुतम् ॥ २,२७.६५ ॥
इतिहासमिमं पुण्यं शृणोति श्रावयेच्च यः ।
न तौ प्रेतत्वमायातः पापाचारयुतावपि ॥ २,२७.६६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे बभ्रुवाहनप्रेतसंवादे प्रेतत्वहेतुतन्निवृत्त्युपायनिरूपणं नाम सप्तविंशोऽध्यायः