गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २४ गरुडपुराणम्
अध्यायः २५
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २६ →

श्रीगरुडमहापुराणम् २५
श्रीविष्णुरुवाच ।
अतः परं प्रवक्ष्यामि पुरुषस्त्री विनिर्णयम् ।
जीवन्वापि मृतो वापि पञ्चवर्षाधिकोऽपि वा ॥ २,२५.१ ॥

पूर्णे तु पञ्चमे वर्षे पुमांश्चैव प्रतिष्ठितः ।
सर्वैन्द्रियाणि जानाति रूपारूपविपर्ययौ ॥ २,२५.२ ॥

पूर्वकर्मविपाकेन प्राणिनां वधबन्धनम् ।
विप्रादीनन्त्यजान्सर्वान्पापं मारयति ध्रुवम् ॥ २,२५.३ ॥

गर्भे नष्टे क्रिया नास्ति दुग्धं देयं मृते शिशौ ।
परं च पायसं क्षीरं दद्याद्वलविपत्तितः ॥ २,२५.४ ॥

एकादशाहं द्वादशाहं वृषं वृषविधिं विना ।
महादानविहीनं च कुमारे कृत्यमादिशेत् ॥ २,२५.५ ॥

कुमाराणां चैव बालानां भोजनं वस्त्रवेष्टनम् ।
बाले वा तरुणे वृद्धे घटो भवति वै मृते ॥ २,२५.६ ॥

भूमौ विनिः क्षिपेद्बालं द्विमासोनं द्विवार्षिकम् ।
ततः परं खगश्रेष्ठ देहदाहो विधोयते ॥ २,२५.७ ॥

शिशुरा दन्तजननाद्बालः स्याद्यावदाशिखम् ।
कथ्यते सर्वशास्त्रेषु कुमारो मौञ्जिबन्धनात् ॥ २,२५.८ ॥

शूद्रादीनां कथं कुर्यात्संशयो मौञ्जिवर्जनात् ।
गर्भाच्च नवमं हित्वा शिशुरामासषोडशम् ॥ २,२५.९ ॥

बालश्चाथ परञ्ज्ञेय आमाससप्तविंशति ।
आ पञ्च वर्षात्कौमारः पौगण्डो नवहांयनः ॥ २,२५.१० ॥

किशोरः षोडशाब्दः स्यात्ततो यौवनमादिशेत् ।
मृतोऽपि पञ्चमे वर्षे अवृतः सवृतोऽपि वा ॥ २,२५.११ ॥

पूर्वोक्तमेव कर्तव्यमीहते दशपिण्डकम् ।
स्वल्पकर्मप्रसङ्गाच्च स्वल्पाद्विषयबन्धनात् ॥ २,२५.१२ ॥

स्वल्षाद्वपुषि वस्त्राच्च क्रियां स्वल्पामपीच्छति ।
यावदुपचयो जन्तुर्यावद्विषयवेष्टितः ॥ २,२५.१३ ॥

यद्यद्यस्योपजीव्यं स्यात्तत्तद्देयमिहेच्छति ।
ब्रह्मबीजोद्भवाः पुत्रा देवर्षोणां च वल्लभाः ॥ २,२५.१४ ॥

यमेन यमदूतैश्च शास्यन्ते निश्चितं खग ।
बालो वृद्धो युबा वापि घटमिच्छन्ति देहिनः ॥ २,२५.१५ ॥

सुखं दुः खं सदा वेत्ति देही वै सर्वगस्त्विह ।
परित्यज्य तदात्मानं जीर्णां त्वचमिवोरगः ॥ २,२५.१६ ॥

अङ्गुष्ठमात्रः पुरुषो वायुभृतः क्षुधान्वितः ।
तस्माद्देयानि दानानि मृते बाले सुनिश्चितम् ॥ २,२५.१७ ॥

जन्मतः पञ्च वर्षाणि भुङ्क्ते दत्तमसंस्कृतम् ।
पञ्चवर्षाधिके बाले विपत्तिर्यदि जायते ॥ २,२५.१८ ॥

वृषोत्सर्गादिकं कर्म सपिण्डीकरणं विना ।
द्वादशे हनि सम्प्राप्ते कुर्याच्छ्राद्धानि षोडश ॥ २,२५.१९ ॥

पायसेन गुडेनापि पिण्डान्दद्याद्यथाक्रमम् ।
उदकुम्भप्रदानं च पद (उप) दानानि यानि च ॥ २,२५.२० ॥

भोजनानि द्विजे दद्यान्महादानादि शक्तितः ।
दीपदानादि यत्किञ्चित्पञ्चवर्षाधिके सदा ॥ २,२५.२१ ॥

कर्तव्यं च खगश्रेष्ठ व्रतात्प्राक्प्रेततृप्तये ।
यदा नक्रियते सर्वं मुद्गलत्वं स गच्छति ॥ २,२५.२२ ॥

व्रतात्प्राङ्गेव देयं तु ततः पितृगणस्य च ।
स्वाहाकारेण वै कुर्यादेकोद्दिष्टानि षोडश ॥ २,२५.२३ ॥

ऋजुदर्भैस्तिलैः शुक्लैः प्राचीनावीति निश्चितम् ।
अपसव्यं च कर्तव्यं कृते यान्ति परां गतिम् ॥ २,२५.२४ ॥

पुनश्चिरायुषो भूत्वा जायन्ते स्वकुले ध्रुवम् ।
सर्वसौख्यप्रदः पुत्रः पित्रोः प्रीतिविवर्धनः ॥ २,२५.२५ ॥

आकाशमेकं हि यथा चन्द्रादित्यौ यथैकतः ।
घटादिषु पृथक्सर्वं पश्य रूपं च तत्समम् ॥ २,२५.२६ ॥

आत्मा तथैव सर्वेषु पुत्त्रेषु विचरेत्सदा ।
या यस्य प्रकृतिः पूर्वं शुक्रशोणितसङ्गमे ॥ २,२५.२७ ॥

सा (स) तेन भावयोगेन पुत्त्रास्तत्कर्मकारिणः ।
पितृरूपं समादाय कस्यचिज्जायते सुतः ॥ २,२५.२८ ॥

पितृतः कोऽपि रूपाढ्यो गुणज्ञो दानतत्परः ।
सदृशः कोऽपि लोकेऽस्मिन्न भूतो न भविष्यति ॥ २,२५.२९ ॥

अन्धादन्धो न भवति मूकान्मूको न जायते ।
बधिराद्बधिरो नैव विद्यावान्विदुषो न हि ।
अनुरूपा न दृश्यन्ते मदीयं वचनं शृणु ॥ २,२५.३० ॥

गरुड उवाच ।
औरसक्षेत्रजाद्याश्च पुत्त्रा दशविधाः स्मृताः ।
संगृहीतः सुतो यस्तु दासीपुत्त्रश्च तेन किम् ॥ २,२५.३१ ॥

काङ्कां गतिमवाप्नोति जायो मृत्युवशं गतः ।
भवेन्न दुहिता यस्य न दौहित्रो न वा सुतः ॥ २,२५.३२ ॥

श्राद्धं तस्य कथं कार्यं विधिना केन तद्भवेत् ।
श्रीभगवानुवाच ।
मुखं दृष्ट्वा तु पुत्रस्य मुच्यते पैतृकादृणात् ॥ २,२५.३३ ॥

पौत्त्रस्य दर्शनाज्जन्तुर्मुच्यते चः ऋणत्रयात् ।
लोकानन्त्यं दिवः प्राप्तिः पुत्त्रपौत्त्र प्रपौत्त्रकैः ॥ २,२५.३४ ॥

अन्यक्षेत्रोद्भवाद्या ये भुक्तिमात्रप्रदाः सुताः ।
कुर्वीत पार्वणं श्राद्धमारैसो विधिवत्सुतः ॥ २,२५.३५ ॥

कुर्वन्त्यन्ये सुताः श्राद्धमे कोद्दिष्टं न पार्वणम् ।
ब्राह्मोढाजस्तून्नयति संगृहीतस्त्वधो नयेत् ।
श्राद्धं सांवत्सरं कुर्वञ्जायते नरकाय वै ॥ २,२५.३६ ॥

सर्वदानानि देयानि ह्यन्न दानादृते खग ।
संगृहीतः सुतः कुर्यादेकोद्दिष्टं न पार्वणम् ॥ २,२५.३७ ॥

प्रत्यब्दं पितृमातृभ्यां श्राद्धं दत्त्वा न लिप्यते ।
एकोद्दिष्टं परित्यज्य पार्वणं कुरुते यदि ॥ २,२५.३८ ॥

आत्मानं च पितॄंश्चैव स नयेद्यममन्दिरम् ।
संगृहीतस्तु यः केचिद्दासीपुत्त्रादयश्च ये ॥ २,२५.३९ ॥

तीर्थे कुर्युः पितृश्राद्धं दानं (मासं) दद्युर्द्विजन्मने ।
संगृहीतसुतो भूत्वा पाकं वा यः प्रयच्छति ॥ २,२५.४० ॥

वृथा श्राद्धं विजानीयाच्छूद्रान्नेन यथा द्विजः ।
न प्रीणयति तच्छ्राद्धं पितामहमुखान्पितॄन् ।
एवं ज्ञात्वा स्वगश्रेष्ठ हीनजातीन्सुतांस्त्यजेत् ॥ २,२५.४१ ॥

(ब्राह्मण्यां ब्राह्मणाज्जातश्चाण्डालादधमः स्मृतः ) ।
यस्तु प्रव्रजिताज्जातो ब्राह्मण्यां शूद्रतश्च यः ॥ २,२५.४२ ॥

द्वावेतौ विद्धि चाण्डालौ सगोत्राद्यस्तु जायते ।
स्वर्यातिविहितान्पुत्रः समुत्पाद्य खगेश्वर ॥ २,२५.४३ ॥

तैः सुवृत्तैः सुखं प्राप्यं कुवृत्तैर्नरकं व्रजेत् ।
हीनजातिसमुद्भूतैः सुवृत्तैः सुखमेधते ॥ २,२५.४४ ॥

कलिकलुषविमुक्तः पूजितः सिद्धसङ्घैरमरचमरमालावीज्यमानोऽप्सरोभिः ।
पितृशतमपि बन्धून्पुत्त्रपौत्त्रप्रपौत्त्रानपि नरकनिमग्नानुद्धरेदेक एव ॥ २,२५.४५ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धमकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसवादे मृतबालान्त्येष्टिभिन्नाभिन्नसुतकृतान्त्येष्ट्योर्वर्णनं नाम पञ्चविंशोऽध्यायः