गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १६ गरुडपुराणम्
अध्यायः १७
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १८ →

श्रीगरुडमाहापुराणम् १७

गरुड उवाच ।
एको मे संशयो देव हृदये सम्प्रबाधते ।
श्रमणाः कस्य पुत्राश्च कथं यमपुरे स्थिताः ॥ २,१७.१ ॥
मानुषैश्च कृतं कर्म कस्माज्जानन्ति ते प्रभो ।
कथं शृण्वन्ति ते सर्वे कस्माज्ज्ञानं समागतम् ॥ २,१७.२ ॥
कुत्र भुञ्जन्ति देवेश क्रथयस्व प्रसादतः ।
पक्षिराजवचः श्रुत्वा भगवान्वाक्यमब्रवीत् ॥ २,१७.३ ॥
श्रीकृष्ण उवाच ।
शृणुष्व वचनं सत्यं सर्वेषां सौख्यदायकम् ।
तदहं कथयिष्यामि श्रवणानां विचेष्टितम् ॥ २,१७.४ ॥
एकीभूतं यदा सर्वं जगत्स्थावरजङ्गमम् ।
क्षीरोदसागरे पूर्वं मयि सुप्ते जगत्पतौ ॥ २,१७.५ ॥
नाभिस्थोजस्तपस्तेपे वर्षाणि सुबहून्यपि ।
एकीभूतं जगत्सृष्टं भूतग्रामचतुर्विधम् ॥ २,१७.६ ॥
ब्रह्मणा निर्मितं पूर्वं विष्णुना पालितं तदा ।
रुद्रः संहारमूर्तिश्च निर्मितो ब्रह्मणा ततः ॥ २,१७.७ ॥
वायुः सर्वगतः सृष्टः सूर्यस्तेजोभिवृद्धिमान् ।
धर्मराजस्ततः सृष्टश्चित्रगुप्तेन संयुत) ॥ २,१७.८ ॥
सृष्ट्वैतदादिकं सर्वं तपस्तेपे तु पद्मजः ।
गतानि बहुवर्षाणि ब्रह्मणो नाभिपङ्कजे ॥ २,१७.९ ॥
योयो हि निर्मितः पूर्वं तत्तत्कर्म समाचरेत् ।
कस्मिंश्चित्समये तत्र ब्रह्मा लोकसमन्वितः ॥ २,१७.१० ॥
रुद्रो विष्णुस्तथा धर्मः शासयन्ति वसुन्धराम् ।
न जानीमो वयं किञ्चिल्लोककृत्यमिहोच्यताम् ॥ २,१७.११ ॥
इति चिन्तापराः सर्वे देवा विममृशुस्तदा ।
संचिन्त्य ब्रह्मणो मन्त्रं विबुधैः प्रेरितस्तदा ॥ २,१७.१२ ॥
गृहीत्वा पुष्पपत्राणि सोसृजद्द्वादशात्मजान् ।
तेजोराशीन्विशालाक्षान्ब्रह्मणो वचनात्तु ते ॥ २,१७.१३ ॥
योयं वदति लोकेस्मिञ्छुभं वा यदि वाशुभम् ।
प्रापयन्ति ततः शीघ्रं ब्रह्मणः कर्णगोचरम् ॥ २,१७.१४ ॥
दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम् ।
सर्वे शृण्वन्ति यत्पक्षिंस्तेनैव श्रवणा मताः ॥ २,१७.१५ ॥
स्थित्वा चैव तथाकाशे जन्तूनां चेष्टितं च यत् ।
तज्ज्ञात्वा धर्मराजाग्रे मृत्युकाले वदन्ति च ॥ २,१७.१६ ॥
धर्मं चार्थं च कामं च मोक्षं च कथयन्ति ते ।
एको हि धर्ममार्गश्च द्वितीयश्चार्थमार्गकः ॥ २,१७.१७ ॥
अपरः काममार्गश्च मोक्षमार्गश्चतुर्थकः ।
उत्तमा धममार्गेण वैनतेय प्रयान्ति हि ॥ २,१७.१८ ॥
अर्थदाता विमानैस्तु अश्वैः कामप्रदायकः ।
हंसयुक्तविमानैश्च मोक्षाकाङ्क्षी विसर्पति ॥ २,१७.१९ ॥
इतरः पादचारेण त्वसिपत्रवनानि च ।
पाषाणैः कण्टकैः क्लिष्टः पाशबद्धोऽथ याति वै ॥ २,१७.२० ॥
यः कश्चिन्मानुषे लोके श्रवणान्पूजयेदिह ।
वर्धन्या जलपात्रेम पक्वान्नपरिपूर्णया ॥ २,१७.२१ ॥
श्रवणान्पूजयेत्तत्र मया सह खगेश्वर ।
तस्याहं तत्प्रदास्यामि यत्सुरैरपि दुर्लभम् ॥ २,१७.२२ ॥
संभोज्य ब्राह्मणान् भक्त्या त्वेकादश शुभाञ्छुचीन् ।
द्वादशं सकलत्रं च मम प्रीत्यै प्रपूजयेत् ॥ २,१७.२३ ॥
देवैः सर्वैश्च संपूज्य स्वर्गं यान्ति सुखेप्सया ।
तैः पूजितैरह तुष्टश्चित्रगुप्तेन धर्मराट् ॥ २,१७.२४ ॥
तैस्तुष्टैर्मत्पुरं यान्ति लोका धर्मपारायणाः ।
श्रवणानां च माहात्म्यमुत्पत्तिं चेष्टितं शुभम् ॥ २,१७.२५ ॥
शृणोति पक्षिशार्दूल स च पापैर्न लिप्यते ।
इह लोके सुखं भुक्त्वा स्वर्गलोके महीयते ॥ २,१७.२६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रवणमहात्म्यनिरूपणं नाम सप्तदशोऽध्यायः