गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १४ गरुडपुराणम्
अध्यायः १५
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १६ →

श्रीगरुडमहापुराणम् १५
गरुड उवाच ।
बगवन्ब्रूहि मे सर्वं यमलोकस्य निर्णयम् ।
जन्तोः प्रयाणमारभ्य माहात्म्यं वर्त्मविस्तरम् ॥ २,१५.१ ॥

श्रीभगवानुवाच ।
शृणु तार्क्ष्य प्रवक्ष्यामि यममार्गस्य निर्णयम् ।
प्रयाणकानि सर्वाणि नगराणि च षोडश ॥ २,१५.२ ॥

षाडशीतिसहस्राणि योजनानां प्रमाणतः ।
यमलोकस्य चोर्ध्वं वै अन्तरा मानुषस्य च ॥ २,१५.३ ॥

कुकृतं दुष्कृतं वापि भुक्त्वा लोके यथार्जितम् ।
कर्मयोगाद्यदा कश्चिद्व्याधिरुत्पद्यते खग ॥ २,१५.४ ॥

निमित्तमात्रं सर्वेषां कृतकर्मानुसारतः ।
यस्य यो विहितो मृत्युः स तं ध्रुवमवाप्नुयात् ॥ २,१५.५ ॥

कर्मयोगाद्यदा देही मुञ्चत्यत्र निजं वपुः ।
तदा भूमिगतं कुर्याद्गोमयेनोपलिप्य च ॥ २,१५.६ ॥

तिलान्दर्भान्विकीर्याथ मुखे स्वर्णं विनिः क्षिपेत् ।
तुलसींसन्निधौ कृत्वा शालग्रामशिलां तथा ॥ २,१५.७ ॥

सेतु (एवं) सामादिसूक्तैस्तु मरणं मुक्तिदायकम् ।
शलाकास्वर्णविक्षपैः प्रतप्राणिगृहेषुच ॥ २,१५.८ ॥

एका वक्त्रे तु दातव्या घ्राणयुग्मे तथा पुनः ।
अक्ष्णोश्च कर्णयोश्चैव द्वेद्वे देये यथाक्रमम् ॥ २,१५.९ ॥

अथ लिङ्गे तथा चैका त्वेकां ब्रह्माण्डकेक्षिपेत् ।
करयुग्मे च कण्ठे च तुलसीं च प्रदापयेत् ॥ २,१५.१० ॥

वस्त्रयुग्मं च दातव्यं कङ्कुमैश्चाक्षतैर्यजेत् ।
पुष्पमालायुतं कुर्यादन्यद्वारेण सन्नयेत् ॥ २,१५.११ ॥

पुत्रस्तु बान्धवैः सार्धं विप्रस्तु पुरवासिभिः ।
पितुः प्रेतं स्वयं पुत्रः स्कन्धमारोप्य बान्धवैः ॥ २,१५.१२ ॥

गत्वा श्मशानदेशे तु प्राड्मुखश्चोत्तरामुखम् ।
अदग्धपूर्वा या भूमिश्चितां तत्रैव कारयेत् ॥ २,१५.१३ ॥

श्रीखण्डतुलसीकाष्ठसमित्पालाशसंभृताम् ।
विकलेन्द्रियसङ्घाते चैतन्ये जडतां गते ॥ २,१५.१४ ॥

प्रचलन्ति ततः प्राणा याम्यैर्निकटवर्तिभिः ।
एकीभूतं जगत्पश्येद्दैवी दृष्टिः प्रजायते ॥ २,१५.१५ ॥

बीभत्सं दारुणं रूपं प्रणैः कण्ठं समाश्रितैः ।
फेनमुद्गिरते कोपि मुखं लालाकुलं भवेत् ॥ २,१५.१६ ॥

दुरात्मानश्च ताड्यन्ते किङ्करैः पाशबन्धनैः ।
सुखेन कृतिनस्तत्र नीयन्ते नाकनायकैः ॥ २,१५.१७ ॥

दुः खेन पापिनो यान्ति यममार्गे च दुर्गमे ।
यमश्चतुर्भुजो भूत्वा शङ्खचक्रगदादिभृत् ॥ २,१५.१८ ॥

पुण्यकर्मरतान्सम्यक्शुभान्मित्रवदाचरेत् ।
आहूय पापिनः सर्वान्यमो दण्डेन रज्जयेत् ॥ २,१५.१९ ॥

प्रलयाम्बुदनिर्घोषस्त्वञ्जनाद्रिसमप्रभः ।
महिषस्थो दुराराध्यो विद्युत्तेजः समद्युतिः ॥ २,१५.२० ॥

योजनत्रयविस्तारदेहो रौद्रोऽतिभीषणः ।
लोहदण्डधरो भीमः पाशपाणिर्दुराकृतिः ॥ २,१५.२१ ॥

वक्रनेत्रोऽतिभयदो दर्शनं याति पापिनाम् ।
अङ्गुष्ठमात्रः पुरुषो हाहा कुर्वन् कलेवरात् ॥ २,१५.२२ ॥

तदैव नीयते दूतैर्याम्यैर्वोक्षन्स्वकं गृहम् ।
निर्विचेष्टं शरीरं तु प्राणैर्मुक्तं जुगुप्सितम् ॥ २,१५.२३ ॥

अस्पृश्यं जायते तूर्णं दुर्गन्धं सर्वनिन्दितम् ।
त्रिधावस्था हि देहस्य कृमिविड्मस्मसंज्ञिता ॥ २,१५.२४ ॥

को गर्वः क्रियते तार्क्ष्य क्षणविध्वंसिभिर्नरैः ।
दानं वित्तादृता वाचः कीर्तिधर्मौ तथायुषः ॥ २,१५.२५ ॥

परोपकरणं कायादसतः सारमुद्धृतम् ।
तस्यैवं नीयमानस्य दूताः सन्तर्जयन्ति हि ॥ २,१५.२६ ॥

दर्शयन्तो भयं तीव्रं नरकाय पुनः पुनः ।
शीघ्रं प्रचल दुष्टात्मन् गतोऽसित्वं यमालये ॥ २,१५.२७ ॥

कुंभीपाकादिनरकांस्त्वां नेष्यामश्च मा चिरम् ।
एवं वाचस्तदा शृण्वन्बन्धूनां रुदितं तथा ॥ २,१५.२८ ॥

उच्चैर्हाहेति विलपन्नीयते यमकिङ्करैः ।
स्थाने श्राद्धं प्रकुर्वीत तथा चेकादशेऽहनि ॥ २,१५.२९ ॥

मृस्योत्क्रान्तिसमयात्षट्पिण्डान्क्रमशो ददेत् ।
मृतस्थाने तथा द्वारे चत्वरे तार्क्ष्य कारणात् ॥ २,१५.३० ॥

विश्रामे काष्ठचयने तथा सञ्चयने च षट् ।
शृणु तत्कारणं तार्क्ष्य षट्पिण्डपरिकल्पने ॥ २,१५.३१ ॥

मृतस्थाने शवो नाम तेन नाम्ना प्रदीयते ।
तेन दत्तेन तृप्यन्ति गृहवास्त्वधिदेवताः ॥ २,१५.३२ ॥

तेन भूमिर्भवेत्तुष्टातदधिष्ठातृदेवता ।
द्वारे तु पिण्डं देयं च पान्थमित्यभिधाय तु ॥ २,१५.३३ ॥

दत्तेन तेन प्रीणन्ति द्वारस्था गृहदेवताः ।
चत्वरे खेचरो नाम तमुद्दिश्य प्रदापयेत् ॥ २,१५.३४ ॥

न चोपघातं कुर्वन्ति भूताद्या देवयोनयः ।
विश्रामे भूतसंज्ञोऽयं तेन तत्र प्रदापयेत् ॥ २,१५.३५ ॥

पिशाचा राक्षसा यक्षा ये चान्ये दिशि वासिनः ।
तस्य होतव्यदेहस्यनैवायोग्यत्वकारकाः ॥ २,१५.३६ ॥

चितापिण्ढप्रभृतितः प्रेतत्वमुपजायते ।
चितायां साधकं नाम वदन्त्येके खगेश्वर ॥ २,१५.३७ ॥

केचित्तं प्रेतमेवाहुर्यथा कल्पविदो बुधाः ।
तदादि तत्रतत्रापि प्रेतनाम्ना प्रदीयते ॥ २,१५.३८ ॥

इत्येवं पञ्चभिः पिण्डैः शवस्याहुतियोग्यता ।
अन्यथा चोपघाताय पूर्वोक्तास्ते भवन्ति हि ॥ २,१५.३९ ॥

उत्क्रामे प्रथमं पिण्डं तथा चार्धपयेपि च ।
चितायां तु तृतीयं स्यात्त्रयः पिण्डाश्च कल्पिताः ॥ २,१५.४० ॥

विधाता प्रथमे पिण्डे द्वितीये गरुडध्वजः ।
तृतीये यमदूताश्च प्रयोगः परिकीर्तितः ॥ २,१५.४१ ॥

दत्ते तृतीये पिण्डेऽस्मिन्देहदोषैः प्रमुच्यते ।
आधारभूतजीवश्चज्वलनैर्ज्वालयेच्चिताम् ॥ २,१५.४२ ॥

संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम् ।
अभ्युक्ष्योपसमाधाय वह्निं तत्रः विधानतः ॥ २,१५.४३ ॥

पुष्पाक्षतैश्च सम्पूज्य देवं क्रव्यादसंज्ञकम् ।
त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः ॥ २,१५.४४ ॥

उपसंहारकस्तस्मादेनं स्वर्गं मृतं नय ।
इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥ २,१५.४५ ॥

अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः ।
लोमभ्यः स्वोतिवाक्येन कुर्याद्धोमं यथाविधि ॥ २,१५.४६ ॥

चितामारोप्य तं प्रेतं हुनेदाज्याहुतिं ततः ।
यमाय चान्तकायेति मृत्यवे ब्रह्मणे तथा ॥ २,१५.४७ ॥

जातवेदोमुके देया एका प्रेतमुखे तथा ।
ऊर्ध्वं तु ज्वालयेद्वह्निं पूर्वभागे चितां पुनः ॥ २,१५.४८ ॥

अस्मात्त्वमधिजातोसि त्वदयं जायतां पुनः ।
असौ स्वर्गाय लोकाय स्वाहा ज्वलति पावकः ॥ २,१५.४९ ॥

एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकाम् ।
ततो दाहः प्रकर्तव्यः पुत्रेण किल निश्चितम् ॥ २,१५.५० ॥

रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत् ।
दाहस्यानन्तरं तत्र कृत्वा सञ्चयनक्रियाम् ॥ २,१५.५१ ॥

प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग ।
तावद्भूताः प्रतीक्षन्ते तं प्रेतं बान्धवार्थिनम् ॥ २,१५.५२ ॥

दाहस्यानन्तरं कार्यं पुत्रैः स्नानं सचैलकम् ।
तिलोदकं ततो दद्यान्नामगोत्रेण तिष्ठतु ॥ २,१५.५३ ॥

ततो जनपदैः सर्वैर्दातव्या करतालिका ।
विष्णुर्विष्णुरिति ब्रूयाद्गुणैः प्रेतमुदीरयेत् ॥ २,१५.५४ ॥

जनाः सर्वे समास्तस्य गृहमागत्य सर्वशः ।
द्वारस्य दक्षिणे भागे गोमयं गौरसर्षपान् ॥ २,१५.५५ ॥

निधाय वरुणं देवमन्तर्धाय स्ववेश्मनि ।
भक्षयेन्निम्बपत्राणि घृतं प्राश्य गृहं व्रजेत् ॥ २,१५.५६ ॥

केचिद्दुग्धेन सिञ्चन्ति चितास्थानं खगेश्वर ।
अश्रुपातं न कुर्वीत दद्यादस्मै जलाञ्जलीन् ॥ २,१५.५७ ॥

श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ २,१५.५८ ॥

दुग्धं च मृन्मये पात्रे तोयं दद्याद्दिनत्रयम् ।
सूर्ये चास्तं गते तार्क्ष्य वलभ्यां चत्वरेऽपि वा ॥ २,१५.५९ ॥

बद्धः संमूढहृदयो देहमिच्छन्कृतानुगः ।
श्मशानं चत्वरं गेहं वीक्षन्याम्यैः स नीयते ॥ २,१५.६० ॥

गर्ते पिण्डा दशाहं च दातव्याश्च दिनेदिने ।
जलाञ्जलीः प्रदातव्याः प्रेतमुद्दिश्य नित्यशः ॥ २,१५.६१ ॥

तावद्वृद्धिश्च कर्तव्या यावत्पिण्डं दशाहिकम् ।
पुत्त्रेण हि क्रिया कार्या भार्यया तदभावतः ॥ २,१५.६२ ॥

तदभावे च शिष्येण तदभावे सहोदरः ।
श्मशाने चान्यतीर्थे वा जलं पिण्डं च दापयेत् ॥ २,१५.६३ ॥

ओदनानि च सक्तूंश्च शाकमूलफलादिना ।
प्रथमेऽहनि यद्दद्यात्तद्दद्यादुत्तरेऽहनि ॥ २,१५.६४ ॥

दिनानि दश पिण्डांश्च कुर्वन्त्यत्र सुतादयः ।
प्रत्यहं ते विभज्यन्ते चतुर्भागाः खगेश्वर ॥ २,१५.६५ ॥

भागद्वयं तु देहार्थं प्रीतिदं भूतपञ्चके ।
तृतीयं यमदूतानां चतुर्थं चोपजीव्यति ॥ २,१५.६६ ॥

अहोरात्रैस्तु नवभिः प्रेतो निष्पत्तिमाप्नुयात् ।
जन्तोर्निष्पन्नदेहस्य दशमे वलवत्क्षुधा ॥ २,१५.६७ ॥

न विधिर्नैव मन्त्रश्च न स्वधावाहनाशिषः ।
नाम गोत्रं समुच्चार्य यद्दत्तं तद्दशाहिकम् ॥ २,१५.६८ ॥

दग्धे देहे पुनर्देहमेवमुत्पद्यते खग ।
प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते ॥ २,१५.६९ ॥

ग्रीवा स्कन्धौ द्वितीये च तृतीये हृदयं भवेत् ।
चतुर्थेन भवेत्पृष्ठं पञ्चमे नाभिरेव च ॥ २,१५.७० ॥

षट्सप्तमे कटी गुह्यमृरू चाप्यष्टमे तथा ।
तालू पादौ च नवमे दशमेऽह्नि क्षुधा भवेत् ॥ २,१५.७१ ॥

देहं प्राप्तः क्षुधाविष्टो गृहे द्वारे च तिष्ठति ।
दशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु ॥ २,१५.७२ ॥

यतो देहे समुत्पन्ने प्रेतोऽतीव क्षुधान्वितः ।
अतस्त्वामिषबाह्येन क्षुधा तस्य न नश्यति ॥ २,१५.७३ ॥

एकादशे द्वादशाहे प्रेतो भुङ्क्ते दिनद्वयम् ।
योषितः पुरुषास्यापि प्रेतशब्दं समुच्चरेत् ॥ २,१५.७४ ॥

दीपमन्नं जलं वस्त्रं यत्किञ्चिद्वस्तु दीयते ।
प्रेतशब्देन तद्देयं मृस्यानन्ददायकम् ॥ २,१५.७५ ॥

त्रयोदशेऽह्नि स प्रेतो नीयते च महापथे ।
पिण्डजं देहमाश्रित्य दिवा नक्तं बुभुक्षितः ॥ २,१५.७६ ॥

शीतोष्णशङ्कुक्रव्यादवह्निमार्गस्तु पापिनाम् ।
क्षुधा तृष्णात्मिका चैव सव्व सौम्यं कृतात्मनाम् ॥ २,१५.७७ ॥

मार्गे चैतानि दुः खानि असिपत्रवनान्विते ।
क्षुत्पिपासार्दितो नित्यं यमदृतैः प्रपीडितः ॥ २,१५.७८ ॥

अहन्यहनि वै प्रेतो योजनानां शतद्वयम् ।
चत्वारिंशत्तथा सप्त अहोरात्रेण गच्छति ॥ २,१५.७९ ॥

गृहीतो यमपाशैश्च हाहेति रुदिते तु सः ।
स्वगृहं तु परित्यज्य याम्यं पुरमनुव्रजेत् ॥ २,१५.८० ॥

क्रमेण याति स प्रेतः पुरं याम्यं शुभाशुभम् ।
अतीत्य तानितान्येव मार्गे पुरवराणि च ॥ २,१५.८१ ॥

याम्यं सौरिपुरं नगेन्द्रभवनं गन्धर्वशैलागमौ ।
क्रोञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुः खदम् ॥ २,१५.८२ ॥

नानाक्रन्दपुरं सुतप्रभवनं रौद्रं पयोवर्षणं शीताढ्यं बहुधर्मभीतभवनं याम्यं पुरं चाग्रतः ॥ २,१५.८३ ॥

त्रयोदशेऽह्नि स प्रेतो गृहीतो यमकिङ्करैः ।
तस्मिन्मार्गे ब्रजत्येको गृहीत इव मर्कटः ॥ २,१५.८४ ॥

तथव स व्रजन्मार्गे पुत्रपुत्रेति च ब्रुवन् ।
हाहेति क्रन्दते नित्यं कीदृशं तु मया कृतम् ॥ २,१५.८५ ॥

मानुष्यं लभ्यते कस्मादिति ब्रूते प्रसर्पति ।
महता पुण्ययोगेन मानुष्यं जन्म लभ्यते ॥ २,१५.८६ ॥

न तत्प्राप्य प्रदत्तं हि याचकेभ्यः स्वकं धनम् ।
पराधीनं तदभवदिति ब्रूते (रौति) सगद्गदः ॥ २,१५.८७ ॥

किङ्करैः पीड्यतेऽत्यर्थं स्मरते पूर्वदैहिकम् ॥ २,१५.८८ ॥

सुखस्य दुः खस्य न कोपि दाता परो ददातीति कुबुद्धिरेषा ।
पुरा कृतं कर्म सदैव भुज्यते देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.८९ ॥

मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे ।
न सेवितं गाङ्गमहो महाजलं देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.९० ॥

न नित्यदानं न गावाह्निकं कृतं न वेददानं न च शास्त्रपुस्तकम् ।
पुरा नदृष्टं न च सेवितोऽध्वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.९१ ॥

जलाशयो नैव कृतो हि निर्जले मनुष्यहेतोः पशुपक्षिहेतवे ।
गोतृप्तिहेतोर्न कृतं हि गोचरं देहिन्क्वचिन्नस्तर यत्त्वया कृतम् ॥ २,१५.९२ ॥

मया न भुक्तं पतिसङ्गसौख्यं वह्निप्रवेशो न कृतो मृते सति ।
तस्मिन्मृते तद्व्रतपालनं वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥ २,१५.९३ ॥

मासोपवासैर्न विशोषितं वपुश्चान्द्रायणैर्वा नियमैश्च संहतैः ।
नारीशरीरं बहुदुः खभाजनं लब्धं मया पूर्वकृतैर्विकर्मभिः ॥ २,१५.९४ ॥

उक्तानि वाच्यानि मया नराणामतः शृणुष्वावहितोऽपि पक्षिन् ।
स्त्रीणां शरीरं प्रतिलभ्य देही ब्रवीति कर्माणि कृतानि पूर्वम् ॥ २,१५.९५ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे यमलोकविस्तारतन्माहात्म्यतद्याननिरूपणं नाम पञ्चदशोऽध्यायः