गरुडपुराणम्/आचारकाण्डः/अध्यायः ९६
← आचारकाण्डः, अध्यायः ९५ | गरुडपुराणम् अध्यायः ९६ वेदव्यासः |
आचारकाण्डः, अध्यायः ९७ → |
॥ याज्ञवल्क्य उवाच ॥
वक्ष्ये सङ्करजात्यादिगृहस्थादि विधिं परम् ॥
विप्रान्मूर्धावषिक्तो हि क्षात्त्रियायां विशः स्त्रियाम् ॥ 96.1 ॥
जातोऽम्बष्ठस्तु शूद्रायां निषादः पर्वतोऽपि वा ॥
माहिष्यः क्षत्त्रियाज्जातो वैश्यायां म्लेच्छसंज्ञितः ॥ 96.2 ॥
शूद्रायां करणो वैश्याद्विन्नास्वेष विधिः स्मृतः ॥
ब्राह्मण्यां क्षत्त्रियात्सूतो वैश्याद्वैदेहकस्तथा ॥ 96.3 ॥
शूद्राज्जातस्तु चांडालः सर्ववर्णविगर्हितः ॥
क्षत्त्रिया मागधं वैश्याच्छूद्रा क्षेत्रावमेव च ॥ 96.4 ॥
शूद्रादयोगवं वैश्या जनयामास वै सुतम् ॥
माहिष्येण करण्यां तु रथकारः प्रजायते ॥ 96.5 ॥
असत्सन्तस्तु वै ज्ञेयाः प्रतिलोमानुलोमजाः ॥
जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा ॥ 96.6 ॥
व्यत्यये कर्मणां साम्यं पूर्ववच्चोत्तरावरम् ॥
कर्म स्मार्त्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ॥ 96.7 ॥
दायकालादृते वापि श्रौतं वैतानिकाग्निषु ॥
शरीरचिन्तां निर्वर्त्त्य कृतशौचविधिर्द्विजः ॥ 96.8 ॥
प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् ॥
हुत्वाग्नौ सूर्य्यदेवत्याञ्जपेन्मन्त्रान्समाहितः ॥ 96.9 ॥
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥
योगक्षोमादिसिद्ध्यर्थमुपेयादीश्वरं गृही ॥ 96.10 ॥
स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा ॥
वेदानथ पुराणानि सेतिहासानि शक्तितः ॥ 96.11 ॥
जपयज्ञानुसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥
बलिकर्मस्वधाहोमस्वाध्यायातिथिसक्रियाः ॥ 96.12 ॥
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥
देवेभ्यस्तु हुतं चाग्नौ क्षिपेद्भूतबलिं हरेत् ॥ 96.13 ॥
अन्नं भूमौश्वचाण्डालवायसेभ्यश्च निः क्षिपेत् ॥
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ॥ 96.14 ॥
स्वाध्यायमन्वहं कुर्य्यान्न पचेच्चान्नमात्मने ॥
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ॥ 96.15 ॥
संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम् ॥
प्राणाग्निहोत्रविधिनाश्रीयादन्नमकुत्सयन् ॥ 96.16 ॥
मितं विपाकं च हितं भक्ष्यं बालादिपूर्वकम् ॥
आपोशानेनोपरिष्टादधस्ताच्चैव भुज्यते ॥ 96.17 ॥
अनग्नममृतं चैव कार्य्यमन्नं द्विजन्मना ॥
अतिथिभ्यस्तु वर्णेभ्यो देयं शक्त्याऽनुपूर्वशः ॥ 96.18 ॥
अप्रणोद्योऽतिथिः सायमपि नात्र विचारणा ॥
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च ॥ 96.19 ॥
आगतान् भोजयेत्सर्वान्महोक्षं श्रोत्रियाय च ॥
प्रतिसंवत्सरं त्वर्च्याः स्नातकाचार्य्यपार्थिवाः ॥ 96.20 ॥
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृर्त्विजः पुनः ॥
अध्वनीनोऽतिथिः प्रोक्तः श्रोत्रियो वेदपारगः ॥ 96.21 ॥
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ॥ 96.22 ॥
वाक्पाणिपादचापल्यं वर्जयच्चातिभोजनम् ॥
श्रोत्रियं वातिथिं तृप्तमासीमान्तादनुव्रजेत् ॥ 96.23 ॥
अहः शेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥
उपास्य पश्चिमां सन्ध्यां हुत्वाग्नौ भोजनं ततः ॥ 96.24 ॥
कुर्य्याद्भृत्यैः समायुक्तैश्चिन्तयेदात्मनो हितम् ॥
ब्राह्मे मुहूर्त्ते चोत्थाय मान्यो विप्रो धनादिभिः ॥ 96.25 ॥
वृद्धार्त्तानां समादेयः पन्था वै भारवाहिनाम् ॥
इज्याध्ययनदानानि वैश्यस्य क्षत्त्रियस्य च ॥ 96.26 ॥
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥
प्रधानं क्षत्त्रिये कर्म प्रजानां परिपालनम् ॥ 96.27 ॥
कुसीदकृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम् ॥
शूद्रस्य द्विजशुश्रूषा द्विजो यज्ञान्न हापयेत् ॥ 96.28 ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ॥
दमः क्षमार्जवं दानं सर्वेषां धर्मसाधनम् ॥ 96.29 ॥
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥
त्रैवार्षिका धिकान्नो यः स सोमं पातुमर्हति ॥ 96.30 ॥
स्यादन्नं वार्षिकं यस्य कुर्य्यात्प्राकसौमिकीं क्रियाम् ॥
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ॥ 96.31 ॥
कर्त्तव्याऽऽग्रहणेष्टिश्च चातुर्मास्यानि यत्नतः ॥
एषामसम्भवे कुर्य्यादिष्टिं वैश्वानरीं द्विजः ॥ 96.32 ॥
हीनकल्पं न कुर्वोत सति द्रव्ये फलप्रदम् ॥
चण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात ॥ 96.33 ॥
यज्ञार्थलब्धं नादद्याद्भासः काकोऽपि वा भवेत् ॥
कुसूतकुम्भीधान्यो वा त्र्याहिकः श्वस्तनोऽपि वा ॥ 96.34 ॥
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥
न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ॥ 96.35 ॥
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ॥
दम्भहैतुकपाषण्डिबकवृत्तींश्च वर्जयेत् ॥ 96.36 ॥
शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः ॥
न भार्य्यादर्शनेऽश्रीयान्नैकवासा न संस्थितः ॥ 96.37 ॥
अप्रियं न वदेज्जातु ब्रह्मसूत्री विनीतवान् ॥
देवप्रदक्षिणाङ्कुर्य्याद्यष्टिमान्सकमण्डलुः ॥ 96.38 ॥
न तु मेहेन्नदीच्छायाभस्मगोष्टाम्बुवर्त्मसु ॥
न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनाम् ॥ 96.39 ॥
नेक्षेताग्न्यर्कनग्नां स्त्रीं न च संसृष्टमैथुनाम् ॥
न च मूत्रं पुरीषं वा स्वपेत्प्रत्यकूशिरा न च ॥ 96.40 ॥
ष्टीवनासृक्शकृन्मूत्रविषाण्यप्सु न संक्षिपेत् ॥
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ 96.41 ॥
पिबेन्नाञ्जलिना तोयं न शयानं प्रबोधयेत् ॥
नाक्षैः क्रीडेच्च कितवैर्व्याधितैश्च न संविशेत् ॥ 96.42 ॥
विरुद्धं वर्जयेत्कम प्रेतधूमं नदीतटम् ॥
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ 96.43 ॥
नाचक्षीत धयन्तीं गां नाद्वारेणाविशेत्क्वचित् ॥
न राज्ञः प्रतिगृह्णायाल्लुब्धस्योच्छास्त्रवर्त्तिनः ॥ 96.44 ॥
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ॥
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य च ॥ 96.45 ॥
पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥
जलान्ते छन्दसां कुर्य्यादुत्सर्गं विधिवद्वहिः ॥ 96.46 ॥
अनध्यायस्त्र्यहं प्रेते शिष्यर्त्त्विग्गुरुबन्धुषु ॥
उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये मृते ॥ 96.47 ॥
सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ॥
समाप्य वेदं त्वनिशमारण्यकमधीत्य च ॥ 96.48 ॥
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ॥
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ 96.49 ॥
पशुमण्डूकनकुलश्वाहिमार्जारसूकरैः ॥
कृतेऽन्तरे त्वहोरात्रं शुक्रपाते तथोच्छ्रये ॥ 96.50 ॥
श्वक्रोष्टुगर्दभोलूकसामबाणार्त्तनिः स्वने ॥
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ 96.51 ॥
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ॥
भुक्त्वार्द्रपाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते ॥ 96.52 ॥
दिग्दाहे पांशुवर्षेषु सन्ध्यानी हारभीतिषु ॥
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ 96.53 ॥
खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे ॥
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ 96.54 ॥
वेददिष्टं तथाचार्य्यं राजच्छायां परस्त्रियम् ॥
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्त्तनानि च ॥ 96.55 ॥
विप्राहिक्षत्त्रियात्मानो नावज्ञेयाः कदाचन ॥
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ॥ 96.56 ॥
श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्मणि न स्पृशेत् ॥
न निन्दाताडने कुर्य्यात्सुतं शिष्यं च ताडयेत् ॥ 96.57 ॥
आचरेत्सर्वदा धर्मं तद्विरुद्धं तु नाचरेत् ॥
मातापित्रतिथीभ्याढ्यैर्विवादं नाचरेद्गृही ॥ 96.58 ॥
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ॥
स्नायान्नदीप्रस्रवणदेवखातह्रदेषु च ॥ 96.59 ॥
वर्जयेत्परशय्यादि न चाश्रीयादनापदि ॥
कदर्य्यबद्धचो (वै) राणां तथा चानम्निकस्य च ॥ 96.60 ॥
वैणाभिशस्तवार्द्धुष्यगणिकागणदीक्षिणाम् ॥
चिकित्सकातुरक्रुद्धक्लीबरङ्गोपजीविनाम् ॥ 96.61 ॥
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥
शास्त्रविक्रयिणश्चैव स्त्रीजितग्रामयाजिनाम् ॥ 96.62 ॥
नृशंसराजरजककृतघ्नवधजीविनाम् ॥
पिशुनानृतिनोश्चैव सोमविक्रयिणस्तथा ॥ 96.63 ॥
वन्दिनां स्वर्णकाराणामन्नमेषां कदाचन ॥
न भोक्तव्यं वृथा मांसं केशकीटसमन्वितम् ॥ 96.64 ॥
भक्तं पर्य्युषितोच्छिष्टं श्वस्पृष्टं पतितो (ते) क्षितम् ॥
उदक्यास्पृष्टसंघुष्टमपर्य्याप्तं च वर्जयेत् ॥ 96.65 ॥
गोघ्रातं शकुनोच्छिष्टं पादस्पृष्ट च कामतः ॥
शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणः ॥ 96.66 ॥
भोज्यान्नो नापितश्चैव यश्चात्मानं निवेदयेत् ॥
अन्नं पर्य्युषितं भोज्यं स्नेहाक्तं चिरसंभृ (स्थि) तम् ॥ 96.67 ॥
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥
औष्ट्रमैकशफं स्त्रीणां पयश्च परिवर्जयेत् ॥ 96.68 ॥
क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् ॥
सारसैकशफान्हंसान्बलाकबकटिट्टिभान् ॥ 96.69 ॥
वृथा कृसरसंयाव पायसापूपशष्कुलीः ॥
कुररं जालपादं च खञ्जरीटमृगद्विजान् ॥ 96.70 ॥
चाषान्मत्स्यात्रक्तपादञ्चग्द्ध्वा वै कामतो नरः ॥
बन्धुरं कामतो जग्द्ध्वा सोप वासस्त्र्यहं भवेत् ॥ 96.71 ॥
पलाण्डुलशुनादीनि जग्द्ध्वा चान्द्रायणं चरेत् ॥
श्राद्धे देवान्पितॄन्प्रार्च्य खादन्मांसं न दोषभाक् ॥ 96.72 ॥
वसेत्स नरके घोर दिनानि पशुरोमतः ॥
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥
मांसं सन्त्यज्य संप्रार्थ्य कामान्याति ततो हरिम् ॥ 96.73 ॥
इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तश्राद्धनिरूपणं नाम षण्णवतितमोऽध्यायः ॥ 96 ॥