गरुडपुराणम्/आचारकाण्डः/अध्यायः ८८

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः ८७ गरुडपुराणम्
अध्यायः ८८
वेदव्यासः
आचारकाण्डः, अध्यायः ८९ →

            ॥सूत उवाच ॥
हरिर्मन्वन्तराण्याह ब्रह्मादिभ्यो हराय च ॥
मार्कण्डेयः पितृस्तो त्रं क्रौञ्चुकिं प्राह तच्छृणु ॥ 88.1 ॥

मार्कण्डेय उवाच ॥
रुचिः प्रजापतिः पूर्वं निर्ममो निरहंकृतिः ॥
अत्रस्तोऽमितमायी च चचार पृथिवीमिमाम् ॥ 88.2 ॥

अनग्निमनिकेतं तमेकाहारमनाश्रमम् ॥
विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥ 88.3 ॥

पितर ऊचुः ॥
वत्स कस्मात्त्वया पुण्यो न कृतो दार संग्रहः ॥
स्वर्गापवर्गहे (से)तुत्वाद्वन्धस्तेनानिशं (निमिषं) विना ॥ 88.4 ॥

गृही समस्तदेवानां पितॄणां च तथार्हणम् ॥
ऋषीणामर्थिनां चैव कुर्वल्लो कानवाप्नुयात् ॥ 88.5 ॥

स्वाहोच्चारणतो देवान्स्वधोच्चारणतः पितृन् ॥
विभजत्यन्नदानेन भृत्याद्यानतिथीनपि ॥ 88.6 ॥

सत्त्वं दैवादृणाद्वन्धमिममस्मदृणादपि ॥
अवाप्तोऽसि मनुष्यर्षे भूतेभ्यश्च दिनेदिने ॥ 88.7 ॥

अनुत्पाद्य सुतान्देवानसन्तर्प्य पितॄस्तथा ॥
अकृत्वा च कथं मौण्ड्यं स्वर्गतिं प्राप्तुमिच्छसि ॥ 88.8 ॥

क्लेशबोधैककं पुत्रं अन्यायेन भवेत्तव ॥
मृतस्य नरकं त्यक्त्वा क्लेशं एवान्यजन्मनि ॥ 88.9 ॥

       ॥रुचिरुवाच ॥
परिग्रहोऽतिदुः खाय पापाया धोगतेस्तथा ॥
भवत्यतो मया पूर्वं न कृतो दारसंग्रहः ॥ 88.10 ॥

आत्मनः संशयोपायः क्रियते क्षणमन्त्रणात् ॥
स्वमुक्तिहेतुर्न भवत्यसावपि परिग्रहात् ॥ 88.11 ॥

प्रक्षाल्यतेऽनुदिवसं य आत्मा निष्परिग्रहः ॥
मम त्वपङ्कदिग्धोऽपि विद्याम्भोभिर्वरं हि तत् ॥ 88.12 ॥

अनेकभवसंभूतकर्मपङ्काङ्कितो बुधैः ॥
आत्मा तत्त्वज्ञानतोयैः प्रक्षाल्यो नियतेन्द्रियैः ॥ 88.13 ॥

पितर ऊचुः ॥
युक्तं प्रक्षालनं कर्त्तुमात्मनोऽपि यतेन्द्रियैः ॥
किं तु नोपायमार्गोऽयं यतस्त्वं पुत्र वर्त्तसे ॥ 88.14 ॥

पञ्चयज्ञैस्तपोदानैरशुभं नुदतस्तव ॥
फलाभिसन्धिरहितैः पूर्वकम शुभाशुभैः ॥ 88.15 ॥

एवं न बन्धो भवति कुर्वतः कारणात्मकम् ॥
न च बन्धाय तत्कर्म भवत्यनतिसन्निभम् ॥ 88.16 ॥

पूर्वकर्म कृतं भोगैः क्षीयते ह्यनिशन्तथा ॥
सुखदुः खात्मकैर्वत्स पुण्या पुण्यात्मकं नृणाम् ॥ 88.17 ॥

एवं प्रक्षाल्यते प्राज्ञैरात्मा बन्धाच्च रक्ष्यते ॥
रक्ष्यश्च स्वविवेकैर्न पापपङ्केन दह्यते ॥ 88.18 ॥

रुचिरुवाच ॥
अविद्या पच्यते वेदे कर्ममार्गात्पितामहाः ॥
तत्कथं कर्मणो मार्गे भवन्तो योजयन्ति माम् ॥ 88.19 ॥

पितर उचुः ॥
अविद्या सर्वमेवैतत्कर्मणैतन्मृषा वचः ॥
किं तु विद्यापरिप्राप्तौ हेतुः कर्म न संशयः ॥ 88.20 ॥

विहिताकरणानर्थो न सद्भिः क्रियते तु यः ॥
संयमो मुक्तये योऽन्यः प्रत्युताधोगतिप्रदः ॥ 88.21 ॥

प्रक्षालयामीति भवान्यदेतन्मन्यते वरम् ॥
विहिताकरणोद्भूतैः पापैस्त्वमपि दह्यसे ॥ 88.22 ॥

अविद्याप्युपकाराय विषवज्जायते नृणाम् ॥
अनुष्ठानाभ्युपायेन बन्धयोग्यापि नो हि सा ॥ 88.23 ॥

तस्माद्वत्स कुरुष्व त्वं विधिवद्दारसंग्रहम् ॥
आजन्म विफलन्तेऽस्तु असम्प्राप्यान्यलौकिकम् ॥ 88.24 ॥

      ॥रुचिरुवाच ॥
वृद्धोऽहं साम्प्रतं को मे पितरः सम्प्रिदास्यति ॥
भार्यान्तथा दरिद्रस्य दुष्करो दारसंग्रहः ॥ 88.25 ॥

    ॥पितर ऊचुः ॥
अस्माकं पतनं वत्स भवतश्चाप्यधोगतिः ॥
नूनं भावि भवित्री च नाभिनन्दसि नो वचः ॥ 88.26 ॥

इत्युक्त्वा पितरस्तस्य पश्यतो मुनिसत्तम ॥
बभूवुः सहसाऽदृश्या दीपा वातहता इव ॥ 88.27 ॥

मुनिः क्रौंचुकये प्राह मार्कण्डेयो महातपाः ॥
रुचिवृत्तान्तमखिलं पितृसंवादलक्षणम् ॥ 88.28 ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मज्ञानमा नामाष्टाशीतितमोऽध्यायः ॥ 88 ॥