गरुडपुराणम्/आचारकाण्डः/अध्यायः ७३

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ७२ गरुडपुराणम्
अध्यायः ७३
वेदव्यासः
आचारकाण्डः, अध्यायः ७४ →

            ॥सूत उवाच ॥
वैदूर्य्यपुष्परागाणां कर्केते भीष्मके वदे ॥
परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विजा ॥ 73.1 ॥

कल्पान्तकालक्षुबिताम्बुराशेर्निर्ह्रादकल्पाद्दितिजस्य नादात् ॥
वैदूर्य्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिवर्णबीजम् ॥ 73.2 ॥

अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः ॥
कामभूतिकसीमानमनु तस्याकरो भवेत् ॥ 73.3 ॥

तस्य नादसमुत्थत्वादाकरः सुमहागुणः ॥
अभूदुत्तरीतो लोके लोकत्रयविभूषणः ॥ 73.4 ॥

तस्यैव दानवपतेर्निनदानुरूपाः प्रवृट्पयोदवरदर्शित चारुरूपाः ॥
वैदूर्य्यरत्नमणयो विविधावभासस्तस्मात्स्फुलिङ्गनिवहा इव संबभूवुः ॥ 73.5 ॥

पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ ॥
सर्वांस्तान्वर्णशोभाभिर्वैदूर्य्यमनुगच्छति ॥ 73.6 ॥

तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्रकाशम् ॥
चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता मणिशास्त्रविद्भिः ॥ 73.7 ॥

गुणवान्वैदूर्य्यमणिर्योजयति स्वामिनं परंभा (भो) ग्यैः ॥
दोषैर्युक्तो दोषैस्तस्माद्यत्नात्परीक्षेत ॥ 73.8 ॥

गिरिकाचशिशुपालौ काच स्फटिकाश्च धूमनिर्भिन्नाः ॥
वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति ॥ 73.9 ॥

लिख्याभावात्काचं लघुभावाच्छैसुपालकं विद्यात् ॥
गिरिकाचसदीप्तित्वात्स्फटिकं वर्णोज्ज्वलत्वेन ॥ 73.10 ॥

यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम् ॥
तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापि तगौरवस्य ॥ 73.11 ॥

जात्यस्य सर्वेऽपि मणेस्तु यादृग्विजातयः सन्ति समानवर्णाः ॥
तथापि नानाकरणानुमेयभेदप्रकारः परमः प्रदिष्टः ॥ 73.12 ॥

सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषा नरेण ॥
स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु सार्वजन्यम् ॥ 73.13 ॥

कुशलाकुशलैः प्रपूर्य्यमाणाः प्रतिबद्धाः प्रतिसत्क्रियाप्रयोगैः ॥
गुणदोषसमुद्भवं लभन्ते मणयोऽर्थोन्तरमूल्यमेव भिन्नाः ॥ 73.14 ॥

क्रमशः समतीतवर्त्तमानाः प्रतिबद्धा मणिबन्धकेन यत्नात् ॥
यदि नाम भवन्ति दोषहीना मणयः षड्गुणमाप्नुवन्ति मूल्यम् ॥ 73.15 ॥

आकरान्समतीतानामुदधेस्तीरसन्निधौ ॥
मूल्यमेतन्मणीनां तु न सर्वत्र महीतले ॥ 73.16 ॥

सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः ॥
तस्य सप्ततितमो भागः संज्ञारूपं करिष्यति ॥ 73.17 ॥

शाणश्चतुर्माषमानो माषकः पंचकृष्णलः ॥
पलस्य दशमो भागो धरणः परिकीर्त्तितः ॥ 73.18 ॥

इत्थं मणिविधिः प्रोक्तो रत्नानां मूल्यनिश्चये ॥ 73.19 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैदूर्य्यपरीक्षणं नाम त्रिसप्ततितमोऽध्यायः ॥ 73 ॥