गरुडपुराणम्/आचारकाण्डः/अध्यायः ४९

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः ४८ गरुडपुराणम्
अध्यायः ४९
वेदव्यासः
आचारकाण्डः, अध्यायः ५० →

।। ब्रह्मोवाच ।।
सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः ।।
विप्राद्यैः स्वेन धर्मेण तद्धर्मं व्यास ! वै श्रृणु ।। 49.1 ।।

यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ।।
अध्यापनञ्चाध्ययनं षट्‌ कर्माणिद्विजोत्तमे ।। 49.2 ।।

दानमध्ययनं यज्ञो धर्मः क्षत्त्रियवैश्ययोः ।।
दण्डस्तस्य कृषिर्वैश्यस्य शस्यते ।। 49.3 ।।

शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।।
कारुकर्म तथाऽऽजीवोपाकयज्ञोऽपि धर्मतः ।। 49.4 ।।

भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च ।।
सन्ध्याकर्माग्निकार्य्यञ्च धर्मोऽयं ब्रह्मचारिणः ।। 49.5 ।।

सर्वेषामाश्रमाणां च द्वैविध्यं तु चतुर्विधम् ।।
ब्रह्मचार्य्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ।। 49.6 ।।

योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ।। 49.7 ।।

अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।।
गृहस्थस्य समासेन धर्मोऽयं द्विजसत्तम ! ।। 49.8 ।।

उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।।
कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ।। 49.9 ।।

ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्य्याधनादिकम् ।।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ।। 49.10 ।।

भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च ।।
संविभागो यथान्यायं धर्मोऽयं वनवासिनः ।। 49.11 ।।

तपस्तप्यति योऽरण्ये यजेद्देवाञ्जुहोति च ।।
स्वाध्याये चैव निरतो वनस्थस्तापसोत्तमः ।। 49.12 ।।

तपसा कर्शितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।।
सन्यासी स हि विज्ञेयो वानप्रस्थाश्रमे स्थितः ।। 49.13 ।।

योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।।
ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ।। 49.14 ।।

यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।।
सम्यक्‌ चन्दनम् सम्पन्नः स योगी भिक्षुरुच्यते ।। 49.15 ।।

भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः ।।
सम्यक् च ज्ञानवैराग्यं धर्मोऽयं भिक्षुके मतः ।। 49.16 ।।

ज्ञानसन्यासिनः केचिद्वेदसन्यासिनोऽपरे ।।
कर्मसन्यासिनः केचित्त्रिविधः पारमेष्ठिकः ।। 49.17 ।।

योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवं च ।।
तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिंसमास्थितः ।। 49.18 ।।

प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना ।।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ।। 49.19 ।।

धर्मात्संजायते मोक्षो ह्यर्थात्कामोऽभिजायते ।।
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् ।। 49.20 ।।

ज्ञानं पूर्वं निवृत्तं स्यात्प्रवृत्तं चाग्निदेवकृत् ।।
क्षमा दमो दया दानमलोभा (भो) भ्यास एव च ।। 49.21 ।।

आर्जवं चान्सूया च तीर्थानुसरणं तथा ।।
सत्यं संतोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ।। 49.22 ।।

देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ।।
अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ।। 49.23 ।।

एते आश्रमिका धर्माश्चतुर्वर्ण्यं ब्रवीम्यतः ।।
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।। 49.24 ।।

स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ।।
वैश्यानां मारुतं स्थानं स्वधरममनुवर्त्तताम् ।। 49.25 ।।

गान्धर्वं शूद्रजातीनां परिचारे च वर्त्तताम् ।।
अष्टाशीतिसहस्त्राणामृषीणामूर्द्ध्वरेतसाम् ।। 49.26 ।।

स्मृतं तेषां तु यत्स्थानं तदेव वन (गुरु) वासिनाम् ।।
सप्तर्षोणां तु यत्स्थानं स्थानं तद्वै वनौकसाम् ।। 49.27 ।।

यतीनां यतचित्तानां न्यासिनामूर्द्ध्वरेतसाम् ।।
आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्त्तते मुनिः ।। 49.28 ।।

योगिनाममृतस्थानं व्योमाख्यं परमाक्षरम् ।।
आनन्दमैश्वरं यस्मान्मुक्तो नावर्त्तते नरः ।। 49.29 ।।

मुक्तिरष्टाङ्गविज्ञानात्संक्षेपात्तद्वदे श्रृणु ।।
यमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंसनम् ।। 49.30 ।।

सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम् ।।
अमैथुनं ब्रह्मचर्य्यं सर्वत्यागोऽपरिग्रहः ।। 49.31 ।।

नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा ।।
शौचं तुष्टिश्च सन्तोषस्तपश्चोंद्रियनिग्रहः ।। 49.32 ।।

स्वाध्यायः स्यान्मन्त्रजापः प्रणिधानं हरेर्यजिः ।।
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ।। 49.33 ।।

मन्त्रध्यान तो गर्भो विपरीतो ह्यगर्भकः ।।
एवं द्विधा त्रिधाप्युक्तं पुरणात्पूरकः स च ।। 49.34 ।।

कुम्भको निश्चलत्वाच्च रेचनाद्रेचकस्त्रिधा ।।
लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः ।। 49.35 ।।

षट्‌त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ।।
ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः ।। 49.36 ।।

अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ।।
अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ।। 49.37 ।।

ब्रह्म विज्ञानमानन्दः स तत्त्वमसि केवलम् ।।
अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमानिन्द्रियम् ।। 49.38 ।।

अहम्मनोबुद्धिमहदहङ्कारादिवर्जितम् ।।
जाग्रत्स्वप्नसुषुप्त्यादियुक्तज्योतिस्तदीयकम् ।। 49.39 ।।

नित्यं शुद्धं बुद्धमुक्तं सत्यमानन्दमद्वयम् ।।
योऽसावादित्यपुरुषः सोऽसावहमखण्डितम् ।।
इति ध्यायन्विमुच्येत् ब्राह्मणो भवबन्धनात् ।। 49.40 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वर्णआश्रमधर्मनिरूपणं नामैकोनपञ्चाशत्तमोध्यायः ।। 49 ।।