गरुडपुराणम्/आचारकाण्डः/अध्यायः २३८

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २३७ गरुडपुराणम्
अध्यायः २३८
वेदव्यासः
आचारकाण्डः, अध्यायः २३९ →

श्रीगरुडमहापुराणम् २३८
श्रीभगवानुवाच ।
यमश्च नियम.पार्थ आसनं प्राणसंयमः ।
प्रत्याहारस्तथा ध्यानं धारणार्जुन सप्तमी ॥ १,२३८.१ ॥

समाधिरिति चाष्टाङ्गो योग उक्तो विमुक्तये ।
कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ॥ १,२३८.२ ॥

हिंसाविरामको धर्मो ह्याहिंसा परमं सुखम् ।
विधिना या भवेद्धिंसा सा त्वहिंसा प्रकीर्तिता ॥ १,२३८.३ ॥

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १,२३८.४ ॥

यच्चद्रव्यापहरणं चौर्याद्वाथ बलेन वा ।
स्तेयं तस्यानाचरणमस्तेयं धर्मसाधनम् ॥ १,२३८.५ ॥

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ १,२३८.६ ॥

द्रव्याणामप्यनादानमापत्स्वपि तथेच्छया ।
अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्जयेत् ॥ १,२३८.७ ॥

द्विधा शौचं मृज्जलाभ्यां बाह्य भावादथान्तरात् ।
यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ॥ १,२३८.८ ॥

मनसश्चैन्द्रियाणां च ऐकाग्र्यं परमं तपः ।
शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ॥ १,२३८.९ ॥

वेदान्तशतरुद्रीयप्रणवादिजप बुधाः ।
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ १,२३८.१० ॥

स्तुतिस्मरणपूजादिवाङ्मनः कायकर्मभिः ।
अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ।
आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ॥ १,२३८.११ ॥

प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ।
इन्द्रियाणां विचरतां विषयेषु त्वसत्स्विव ॥ १,२३८.१२ ॥

श्रीगरुडमहापुराणम् २३९
ब्रह्मोवाच ।
ब्रह्मगीतां प्रवक्ष्यामि यज्ज्ञात्वा मुच्यते भवान् ।
अहंब्रह्मास्मि वाक्योत्थज्ञानान्मोक्षो भवेन्नणाम् ॥ १,२३९.१ ॥

वाक्यज्ञानं भवेज्ज्ञानादहंब्रह्म पदार्थयोः ।
पदद्वयार्थौ द्विविधौ वाच्यौ लक्ष्यौ स्मतौ बुधैः ॥ १,२३९.२ ॥

वाक्यवाच्यश्च शबलो लक्ष्यः शुद्वः प्रकीर्तितः ।
प्राणपिण्डात्मकोः यनचेतसामतुलं न यतु? ॥ १,२३९.३ ॥

तथा वेदैरवाग्रूपमहंशब्देन सेव्यते ।
प्रत्यग्रूनं त्वद्वितीयमहंशब्देन मन्यते ॥ १,२३९.४ ॥

अव्ययानन्दचैतन्यं परोक्षसहितं परम् ।
प्राणपिण्डात्मको योथ स द्वितीयविभागकः ॥ १,२३९.५ ॥

पारोक्ष्येप्रेक्षणो ह्यत्र भागो लक्ष्येत वाहमा ।
तथा ब्रह्मपदेनैव प्राणपिण्डात्मकारणाम् ॥ १,२३९.६ ॥

निष्ठा परोक्षता चेति परित्यागेन वक्ष्यते ।
अद्वयानन्दचैतन्यं प्रत्यग्ब्रह्मपदेन तु ॥ १,२३९.७ ॥

अद्वयानन्दचैतन्यं लक्षयित्वा स्थितस्य च ।
ब्रह्माहमस्म्यहं ब्रह्म चाहंब्रह्मपदार्थयोः ॥ १,२३९.८ ॥

अहंब्रह्मास्मिवाक्याच्च स्वनुभूतिफलार्थकम् ।
ऐक्यज्ञानं तु हि भवेद्वेदान्ताद्दूरतो ध्रुवम् ॥ १,२३९.९ ॥

ज्ञानादज्ञानकार्यस्य निवृत्त्या मुक्तिरैक्यतः ॥ १,२३९.१० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्मगीतासारवर्णनं नामैकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः