गरुडपुराणम्/आचारकाण्डः/अध्यायः २२३

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः २२२ गरुडपुराणम्
अध्यायः २२३
वेदव्यासः
आचारकाण्डः, अध्यायः २२४ →

श्रीगरुडमहापुराणम् २२३
ब्रह्मोवाच मुनिभिश्चरिता धर्मा भक्त्या व्यास मयोदिताः ।
यैर्विष्णुस्तुष्यते चैव सूर्यादिपरिचारणात् ॥ १,२२३.१ ॥

तर्पणेन च होमेन सन्ध्याया वन्दनेन च ।
प्राप्यते भगवान् विष्णुर्धर्मकामार्थमोक्षदः ॥ १,२२३.२ ॥

धर्मो हि भगवान्विष्णुः पूजी विष्णोस्तु तर्पणम् ।
होमः सन्ध्या तथा ध्यानं धारणा सकलं हरिः ॥ १,२२३.३ ॥

सूच उवाच ।
प्रलयं जगतो वक्ष्ये तत्सर्वं शृणु शौनक ।
चतुर्युगसहस्रन्तु कल्पैकाब्जदिनं स्मृतम् ॥ १,२२३.४ ॥

कृतत्रेताद्वापरादियुगावस्था निबोधमे ।
कृते धर्मश्चतुष्पाच्च सत्यं दानं तपो दया ॥ १,२२३.५ ॥

धर्मपाता हरिश्चेति सन्तुष्टा ज्ञानिनो नराः ।
चतुर्वर्षसहस्राणि नरा जीवन्ति वै तदा ॥ १,२२३.६ ॥

कृतान्ते क्षत्त्रियैर्विप्रा विट्शूद्राश्च जिता द्विजैः ।
शूरश्चातिबलो विष्णू रक्षांसि च जघान ह ॥ १,२२३.७ ॥

त्रेतायुगे त्रिपाद्धर्मः सत्यदानदयात्मकः ।
नरा यज्ञपरास्तस्मिंस्तथा क्षत्रोद्भवं जगत् ॥ १,२२३.८ ॥

रक्तो हरिर्नरैः पूज्यो नरा दशशतायुषः ।
तत्र विष्णुर्भोमरथः क्षत्रिया राक्षसानहन् ॥ १,२२३.९ ॥

द्विपादविग्रहो धर्मः पीतताञ्चाच्युते गते ।
चतुः शतायुषो लोका द्विजक्षत्रोद्भवाः प्रजाः ॥ १,२२३.१० ॥

तत्र दृष्ट्वाल्पबुद्धींश्च विष्णुर्व्यासस्वरूपधृक् ।
तदेकन्तु यजुर्वेदं? चतुर्धा व्यभजत्पुनः ॥ १,२२३.११ ॥

शिष्यानध्यापयामास समस्तांस्तान्निबोध मे ।
ऋग्वेदमथ पैलन्त्सामवेदञ्च जैमिनिम् ॥ १,२२३.१२ ॥

अथर्वाणं सुमन्तुन्तु यजुर्वेदं महामुनिम् ।
वैशम्पायनमङ्गन्तु पुराणं सूतमेव च ।
अष्टादशपुराणानि यैर्वेद्यो हरिरेव हि ॥ १,२२३.१३ ॥

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितच्चैव पुराणं पञ्चलक्षणम् ॥ १,२२३.१४ ॥

ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतन्तथा ।
भविष्यन्नारदीयञ्चस्कान्दं लिङ्गं वराहकम् ॥ १,२२३.१५ ॥

मार्कण्डेयं तथाग्नेयं ब्रह्मवैवर्तमेव च ।
कौर्मं मात्स्यं गारुडञ्च वायवीयमनन्तरम् ।
अष्टादशसमुद्दिष्टं ब्रह्माण्डमिति संज्ञितम् ॥ १,२२३.१६ ॥

अन्यान्युपपुराणानि मुनिभिः कथितानि तु ।
आद्यं सनत्कुमारोक्तं नारसिंहमथापरम् ॥ १,२२३.१७ ॥

तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ।
चतुर्थं शिवधर्माख्यं स्यान्नन्दीश्वरभाषितम् ॥ १,२२३.१८ ॥

दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् ।
कापिलं वामनञ्चैव तथैवोशनसेरितम् ॥ १,२२३.१९ ॥

ब्रह्माण्डं वारुणञ्चाथ कालिकाह्वयमेव च ।
माहेश्वरं तथा साम्बमेवं सर्वार्थसञ्चयम् ।
पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ १,२२३.२० ॥

पुराणं धर्मशास्त्रञ्च वेदास्त्वङ्गानि यन्मुने ।
न्यायः शौनक मीमांसा आयुर्वेदार्थशास्त्रकम् ।
गान्धर्वश्च धनुर्वेदो विद्या ह्यष्टादशस्मृताः ॥ १,२२३.२१ ॥

द्वापरान्तेन च हरिर्गुरुभारमपाहरत् ।
एकपादस्थिते धर्मे कृष्णत्वञ्चाच्युते गते ॥ १,२२३.२२ ॥

जनास्तदा दुराचारा भविष्यन्ति च निर्दयाः ।
सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।
कालसञ्चोदितास्तेऽपि परिवर्तन्त आत्मनि ॥ १,२२३.२३ ॥

प्रभूतञ्च यदा सत्त्वं मनो बुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रतिः ॥ १,२२३.२४ ॥

यदा कर्मसु काम्येषु शक्तिर्यशसि देहिनाम् ।
तदा त्रेता रजोभूतिरिति जानीहि शौनक ॥ १,२२३.२५ ॥

यदा लोभस्त्वसन्तोषो मानो दम्भश्च मत्सरः ।
कर्मणाञ्चापि काम्यानां द्वापरं तद्रजस्तमः ॥ १,२२३.२६ ॥

यदा सदानृतं तन्द्रा निद्रा हिंसादिसाधनम् ।
शोकमोहौ भयं दैन्यं स कलिस्तमसि स्मृतः ॥ १,२२३.२७ ॥

यस्मिञ्जनाः कामिनः स्युः शश्वत्कटुकभाषिणः ।
दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः ॥ १,२२३.२८ ॥

राजानश्च प्रजाभिक्षाः शिश्नोदरपराजिताः ।
अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः ॥ १,२२३.२९ ॥

तपस्विनो ग्रामवासाः न्यासिनो ह्यर्थलोलुपाः ।
ह्रस्वकाया महाहाराश्चौरास्ते साधवः स्मृताः ॥ १,२२३.३० ॥

त्यक्ष्यन्ति भृत्याश्च पतिं तापसस्त्यक्ष्यति व्रतम् ।
शूद्राः प्रतिग्रहिष्यन्ति वैश्या व्रतपरायणः ॥ १,२२३.३१ ॥

उद्विग्नाः सन्ति च जनाः पिशाचसदृशाः प्रजाः ।
अन्यायभोजनेनाग्निदेवतातिथिपूजनम् ॥ १,२२३.३२ ॥

करिष्यन्ति कलौ प्राप्ते न च पित्र्योदकक्रियाम् ।
स्त्रीपराश्च जनाः सर्वे शूद्रप्रायाश्च शौनक ॥ १,२२३.३३ ॥

बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ।
शिरः कण्डूयनपरा आज्ञां भेत्स्यन्ति भर्त्सिताः ॥ १,२२३.३४ ॥

विष्णुं न पूजयिष्यन्ति पाषण्डोपहता जनाः ।
कलेर्दोषनिधेर्विप्रा अस्ति ह्येको महागुणः ॥ १,२२३.३५ ॥

कीर्तनादेव कृष्णस्य महाबन्धं परित्यजेत् ।
कृते यद्ध्यायतो विष्णुं त्रेतायां जपतः फलम् ॥ १,२२३.३६ ॥

द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ।
तस्माद्ध्येयो हरिर्नित्यं गेयः पूज्यश्च शौनक ॥ १,२२३.३७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे युगधर्मकथनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः