सामग्री पर जाएँ

गरुडपुराणम्/आचारकाण्डः/अध्यायः २२१

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २२० गरुडपुराणम्
अध्यायः २२१
वेदव्यासः
आचारकाण्डः, अध्यायः २२२ →

श्रीगरुडमहापुराणम् २२१
ब्रहामोवाच ।
धर्मसारमहं वक्ष्ये संक्षेपाच्छुणु शङ्कर ।
भुक्तिमुक्तिप्रदं सूक्ष्मं सर्वपापविनाशनम् ॥ १,२२१.१ ॥

श्रुतं धर्मं बलं धैर्यं सुखमुत्साहमेव च ।
शोको हरति वै नॄणां तस्माच्छोकं परित्यजेत् ॥ १,२२१.२ ॥

कर्मदाराः कर्मलोकाः कर्मसम्बन्धिबान्धवाः ।
कर्माणि प्रेरयन्तीह पुरुषं सुखदुः खयोः ॥ १,२२१.३ ॥

दानमे परो धर्मो दानात्सर्वमवाप्यते ।
दानाःत्स्वर्गश्च राज्यञ्च दद्याद्दनं ततो नरः ॥ १,२२१.४ ॥

एकतो दानमेवाहुः समग्रवरदक्षिणम् ।
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ १,२२१.५ ॥

तपसा ब्रह्मचर्येण यज्ञैः स्नानेन वा पुनः ।
धर्मस्य नाशका ये च ते वै निरयगामिनः ॥ १,२२१.६ ॥

ये च होमजपस्नानदेवतार्चनतत्पराः ।
सत्यक्षमादयायुक्तास्ते नराः स्वर्गगामिनः ॥ १,२२१.७ ॥

न दाता सुखदुः खानां न च हर्तास्ति कश्चन ।
भुञ्जते स्वकृतान्येव दुः खानि च सुखानि च ॥ १,२२१.८ ॥

धर्मार्थं जीवितं येषां दुर्गाण्यतितरन्ति ते ।
सन्तुष्टः को न शक्नोति फलमूलैश्च वर्तितुम् ॥ १,२२१.९ ॥

सर्व एव हि सौख्येन सङ्कटान्यवगाहते ।
इदमेव हि लोभस्य कार्यं स्या दतिदुष्करम् ॥ १,२२१.१० ॥

लोभात्क्रोधः प्रभवति लोभाद्द्रोहः प्रवर्तते ।
लोभान्मोहश्च माया च मानो मत्सर एव च ॥ १,२२१.११ ॥

रागद्वेषानृतक्रोधलोममोहमदोज्झितः ।
यः स शान्तः परं लोकं याति पापविवर्जितः ॥ १,२२१.१२ ॥

देवता मुनयो नागा गन्धर्वा गुह्यका हर ।
धार्मिकं पूजयन्तीह न धनाढ्यं न कामिनम् ॥ १,२२१.१३ ॥

अनन्तबलवीर्येण प्रज्ञया पौरुषेण वा ।
अलभ्यं लभते मर्त्यस्तत्र का परिवेदना ॥ १,२२१.१४ ॥

सर्वसत्त्वदयालुत्वं सर्वेन्द्रियविनिग्रहः ।
सर्वत्रानित्यबुद्धित्वं श्रेयः परमिदं स्मृतम् ॥ १,२२१.१५ ॥

पश्यन्निवाग्रतो मृत्युं यो धर्मं नाचरेन्नरः ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ १,२२१.१६ ॥

भ्रूणहा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः ।
भूमिं सर्वगुणोपेतां दत्त्वा पापैः प्रमुच्यते ॥ १,२२१.१७ ॥

न गोदानात्परं दानं किञ्चिदस्तीति मे मतिः ।
या गौर्न्यायार्जिता दत्ता कृत्स्नं तारयते कुलम् ॥ १,२२१.१८ ॥

नान्नदानात्परं दानं किञ्चिदस्ति वृषध्वज ! ।
अन्नेन धार्यते सर्वं चराचरमिदं जगत् ॥ १,२२१.१९ ॥

कन्यादानं वृषोत्सर्गस्तीर्थसेवा श्रुतं तथा ।
हस्त्यश्वरथदानानि मणिरत्नवसुन्धराः ॥ १,२२१.२० ॥

अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीम् ।
अन्नात्प्राणा बलं तेजश्चान्नाद्वीर्यं धृतिः स्मृतिः ॥ १,२२१.२१ ॥

कूपवापीतडागादीनारामांश्चैव कारयेत् ।
त्रिसप्तकुलमुद्धृत्य विष्णुलोके महीयते ॥ १,२२१.२२ ॥

साधूनां दर्शनं पुण्यं तीर्थादपि विशिष्यते ।
कालेन तीर्थं फलति सद्यः साधुसमागमः ॥ १,२२१.२३ ॥

सत्यं दमस्तपः शौचं सन्तोषश्च क्षमार्जवम् ।
ज्ञानं शमो दया दानमेष धर्मः सनातनः ॥ १,२२१.२४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे धर्मसारकथनं नामैकविंशाधिकद्विशततमोऽध्यायः