गरुडपुराणम्/आचारकाण्डः/अध्यायः २१९

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २१८ गरुडपुराणम्
अध्यायः २१९
वेदव्यासः
आचारकाण्डः, अध्यायः २२० →

श्रीगरुडमहापुराणम् २१९
ब्रह्मोवाच ।
नित्यश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषवत् ।
ओं अमुकगोत्राणामस्मत्पितृपितामहानां अमुकशर्मणां सपत्नीकानां श्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये ।
आसनादिकमत्र स्याद्विश्वेदेवाविवर्जितम् ॥ १,२१९.१ ॥

वृद्धिश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषकम् ।
जातपुत्रमुखदर्शनादौ वृद्धि श्राद्धं पूर्वाभिमुखेषु दक्षिणोपवीतिषु सयवबदरकुशैर्देवतीर्थेन नमस्कारान्तेन दक्षिणोपचारेण कर्तव्यम् ॥ १,२१९.२ ॥

दक्षिणजानु गृहीत्वा अद्यास्मदीयामुकवृद्धौ अमुकगात्राणामस्मत्प्रपितामहीपितामहीमातॄणाममुकदेवीनाममुकगोत्राणां श्राद्धे कर्तव्ये वसुसत्यसंज्ञकानां विश्वेषां देवानां श्राद्धं सिद्धान्नेनयुष्मासु मया कर्तव्यमिति देवब्राह्मणामन्त्रणम् ।
ओं करिष्यसीति तेनोक्त इत्थमेवापरदेवब्राह्मणामन्त्रणम् ॥ १,२१९.३ ॥

ततः अमुकवृद्धौ अमुकगोत्राया मत्प्रपितामह्या अमुकदेव्या नान्दीमुख्याः श्राद्धं सिद्धान्नेन युष्मासु मया कर्तव्यमिति प्रपितामहीब्राह्मणामन्त्रणम् ।
करिष्यामीति तेनोक्ते इत्थमेव प्रमातामह्यादिब्राह्माणमन्त्रणम् ॥ १,२१९.४ ॥

देवपितृसर्वदेवब्राह्मणं श्राद्धकरणानुज्ञापनम् ।
आसने ओं विश्वेदेवास आगत शृणुताम इमंर्ठ इवम् ।
तं बर्हिर्निषीदत ।
ओं विश्वेदेवाः शृणुतेमं इवं ये मे अन्तरिक्षे य उदद्यविष्ट ।
पे अग्निजिह्वा उतवा यदत्रा आसाद्यास्मिन्बर्हिषि मादयध्वम् ।
ओं आगच्छन्तु इति विश्वेदेवावाहनंगन्धादिदानम् ।
अच्छिद्रावधारणवाचनम् ॥ १,२१९.५ ॥

ततः प्रपितामहीप्रभृतीनामनुज्ञापनमासनदानं गन्धादिदानञ्च अच्छिद्रावधारणवाचनम् ।
इत्थं पितामह्याः मातुः ।
ततः प्रपितामहादीनां अनुज्ञापनम् ।
आसनमावाहनङ्गन्धादिदानंवृद्धप्रमातामहादीनामनुज्ञापनादिकरणम् ।
ओं वसुसत्यसंज्ञकेभ्यो देवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं सवदरं सदधि प्रतिषिद्धवर्जितं नम इति अन्नसङ्कल्पनम् ।
ओं अमुकगोत्रे ! मत्पितामहमुकदेवि नान्दीमुखि ! एतदन्नं सबदरं सदधि नमः ।
एवं मातामहप्रभातामहेभ्यः ॥ १,२१९.६ ॥

एकोद्दिष्टं पुरोऽवश्यं तद्विशेषं वदे शृणु ।
प्रथमं निमन्त्रणं पादप्रक्षालनमासनम् ।
अद्य अमुकगोत्रस्य मत्पितुरमुकदेवशर्मणः प्रतिसांवत्सरिकमेकोद्दिष्टश्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये ।
श्राद्धकरणानुज्ञापनमासनं गन्धादिदानमन्नानुकल्पनम् ।
जप्यं निवीती ।
उत्तराभिमुखीभूयातिथिश्राद्धं कुर्यात् ॥ १,२१९.७ ॥

ततस्मृप्तिं ज्ञात्वा दक्षिणाभिमुखीवामोपवीती उच्छिष्टसमीपे अग्निदग्धा इति अन्नविकिरणम् ।
अमुकगोत्रमत्पितरमुकदेवशर्मन्नेतत्ते जलमवनेनिक्ष्व ये चात्र त्वामनुयाश्च त्वामनुतस्मै ते स्वधा इति रेखोपरि वारिधारादानम् ।
शेषं पूर्ववत् ॥ १,२१९.८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोनविंशाधिकद्विशततमोऽध्यायः