गरुडपुराणम्/आचारकाण्डः/अध्यायः १९८

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १९७ गरुडपुराणम्
अध्यायः १९८
वेदव्यासः
आचारकाण्डः, अध्यायः १९९ →

श्रीगरुडमहापुराणम् १९८
भैरव उवाच ।
नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां भुक्तिमुक्तिदाम् ।
ओं ह्रीं आगच्छ देवि ऐं ह्रीं ह्रीं रेखाकारणम् ।
ओं ह्रीं क्लेदिनी भं नमः मदनक्षोभिणा तथा ।
ऐ यं यं क्रीं वा गुणरेखया ह्रीं मदनान्तरे च ।
ऐं ह्रीं ह्रीं च निरञ्जना वागति मदनान्तरेखे खनेत्रावलीति च ।
वेगवति महाप्रेतासनाय च पूजयेत् ।
ओं ह्रीं क्रैं नैं क्रैं नित्यं मदद्रवे क्रीं नमः ।
ऐं ह्रीं त्रिपुरायै नमः ।
ओं ह्रीं क्रीं पश्चिमवक्त्रं ओं ऐं ह्रीं ह्रीं च तथोत्तरम् ।
ऐं ह्रीं दक्षिणमूर्ध्वंवक्त्रं तु पश्चिमम् ।
ओं ह्रीं पाशाय क्रीं अङ्कुशाय ऐं कपालाय नमः ।
आद्यं भयं ऐं ह्रीं च तथा शिरः तथा शिखायै कवचे ।
ऐं ह्रीं क्रीं अस्त्रायफट् ॥ १,१९८.१ ॥

पूर्वे कामरूपाय असिताङ्गाय भैरवाय नमो ब्रह्माण्यै ।
दक्षिणे चैव कन्दाय वै नमः रुरुभैरवाय माहेश्वर्या वा आवाहयेत् ॥ १,१९८.२ ॥

तथा पश्चिमे चण्डाय वै नमः ।
कौमार्यै चोत्तरे चोल्काय क्रोधाय नमः वैष्णव्यै ॥ १,१९८.३ ॥

अग्निकोणे अघोरायोन्मत्तभैरवायेति वाराह्यै ।
रक्षः कोणे साराय कपालिने भैरवाय माहेन्द्र्यै ॥ १,१९८.४ ॥

वायुकोणे जालन्धराय भीषणाय भैरवाय चामुण्डायै ।
ईशकोणके वटुकाय संहारञ्चण्डिकाञ्च प्रपूजयेत् ॥ १,१९८.५ ॥

रतिप्रीतिकामदेवान्पञ्चबाणान्यजेदथ ।
ध्यानार्चनाज्जप्यहोमाद्देवी सिद्धा च सर्वदा ॥ १,१९८.६ ॥

नित्या च त्रिपुरा व्याधिं हन्याज्ज्वालामुखीक्रमात् ।
ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यतः शुभा ॥ १,१९८.७ ॥

नित्यारुणा मदनातुरा महामोहा प्रकृत्यपि ।
महेन्द्राणी च कलनाकर्षिणी भारती तथा ॥ १,१९८.८ ॥

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चापराजिता ॥ १,१९८.९ ॥

विजया चाजिता चैवमोहिनी त्वरिता तथा ।
स्तम्भिनी जृम्भिणी पूज्या कालिका पद्मबाह्यतः ।
ज्वालामुखीक्रमं चार्चेद्विषादिहरणं भवेत् ॥ १,१९८.१० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अष्टनवत्यधिकशततमोध्यायः