गरुडपुराणम्/आचारकाण्डः/अध्यायः १८७

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १८६ गरुडपुराणम्
अध्यायः १८७
वेदव्यासः
आचारकाण्डः, अध्यायः १८८ →

श्रीगरुडमहापुराणम् १८७
हरिरुवाच ।
हस्तिकर्णपलाशस्य पत्राणि? चूर्णयेद्धर ।
सर्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव ॥ १,१८७.१ ॥

सक्षीरं भक्षीतं कुर्यात्सप्ताहेन वृषध्वज ।
नरं श्रुतिधरं रुद्र मृगेन्द्रगतिविक्रमम् ॥ १,१८७.२ ॥

पद्मरागप्रतीकाशंयुक्तं दशशतायुषा ।
षोडशाब्दाकृतिं रुद्र सततं दुग्धभोजनात् ॥ १,१८७.३ ॥

मधुसर्पिःसमायुक्तं दुग्धमायुष्करं भवेत् ।
तज्जग्धं मधुना सार्धं दशवर्ष सहस्रिणम् ॥ १,१८७.४ ॥

कुर्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम् ।
दध्ना नित्यं भक्षितन्तु वज्रदेहकरं भवेत् ॥ १,१८७.५ ॥

केशराजिसमायुक्तं नरं वर्षसहस्रिणम् ।
तच्च काञ्जिकसंयुक्तं नरं कुर्याच्च भक्षितम् ॥ १,१८७.६ ॥

शतवर्षं दिव्यदेहं वलीपलितवर्जितम् ।
जग्धं त्रिफलया क्षौद्रं चक्षुष्मन्तं करोति वै ॥ १,१८७.७ ॥

अन्धः पश्येत्तु चूर्णस्य साज्यस्यैव तु भक्षणात् ।
महिषीक्षीरसंयुक्तस्तल्लेपः कृष्णकेशकृत् ॥ १,१८७.८ ॥

खल्वाटस्य च वै केशा भवन्ति वृषभध्वज ।
तैलयुक्तेन चूर्णेन वलीपलितनाशनम् ॥ १,१८७.९ ॥

तदुद्वर्तनमात्रेण सर्वरागः प्रमुच्यते ।
सच्छागक्षीरचूर्णेन दृष्टिः स्यान्मासतोऽञ्जनात् ॥ १,१८७.१० ॥

पलाशस्य च बीजानि श्रावणे वितुषाणि च ।
गृहीत्वा नवनीतेन तेषां चूर्णं च भक्षयेत् ॥ १,१८७.११ ॥

कर्षार्धमेकं सेवेत नत्वा नित्यं हरिं प्रभुम् ।
पुराणषष्टिधान्यस्य पथ्यमम्बु पिबन्हर ।
जीवेद्वर्षसहस्राणि वलीपलितवर्जितः ॥ १,१८७.१२ ॥

भृङ्गराजस्य वै मूलं पुष्यर्क्षे तु समाहृतम् ।
विधाय तस्य चूर्णं वै ससौवीरञ्च भक्षयेतं ॥ १,१८७.१३ ॥

मासमात्रप्रयोगेण वलीपलितवर्जितः ।
शतानि पञ्च जीवेच्च नरो नागबलो भवेत् ।
भवेच्छ्रुतिधरो रुद्र पुष्यर्क्षे चैव भक्षणात् ॥ १,१८७.१४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आयुष्करयोगोदृसप्ताशीत्यधिकशततमोऽध्यायः