गरुडपुराणम्/आचारकाण्डः/अध्यायः १८१

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १८० गरुडपुराणम्
अध्यायः १८१
वेदव्यासः
आचारकाण्डः, अध्यायः १८२ →

श्रीगरुडमहापुराणम् १८१
हरिरुवाच ।
ताम्बूलञ्च घृतं क्षौद्रं लवणं ताम्रभाजने ।
तथा पयः समायुक्तं चक्षुः शूलहरं परम् ॥ १,१८१.१ ॥

हरीतकी वचा कुष्ठं व्योषं हिङ्गु मनः शिला ।
कासे श्वासे च हिक्कायां लिह्यात्क्षौद्रं घृप्लुतम् ॥ १,१८१.२ ॥

पिप्पलीत्रिफलाचूर्णं मधुना लेहयेन्नरः ।
नश्यते पीनसः कासः श्वासश्च बलवत्तरः ॥ १,१८१.३ ॥

समूलचित्रकं भस्मपिप्पलीचूर्णकं लिहेत् ।
श्वासं कासञ्च हिक्काञ्च मधुमिश्रं वृषध्वज ! ॥ १,१८१.४ ॥

नीलोत्पलं शर्करा च मधुकं पद्मकं समम् ।
तण्डुलोदकसंमिश्रं प्रशमेद्रक्तविक्रियाः ॥ १,१८१.५ ॥

शुण्ठी च शर्करा चैव तथा क्षौद्रेण संयुता ।
कोकिलस्वर एव स्याद्गुटिका भुक्तिमात्रतः ॥ १,१८१.६ ॥

हरितालं शङ्खचूर्णं कदलीदलभस्मना ।
एतद्द्रव्येण चोद्वर्त्य लोमशातनमुत्तमम् ॥ १,१८१.७ ॥

लवणं हरितालञ्च तुम्बिन्याश्च फलानि च ।
लाक्षारससमायुक्तं लोमशातनमुत्तम् ॥ १,१८१.८ ॥

सुधा च हरितालञ्च शङ्खभस्म मनः शिला ।
सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ॥ १,१८१.९ ॥

तत्क्षणोद्वर्तनादेव लोमशातनमुत्तमम् ।
शङ्खमामलकं पत्रं धातक्याः कुसुमानि च ॥ १,१८१.१० ॥

पिष्ट्वा तत्पयसा सार्धं सप्ताहं धारयेन्मुखे ।
स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः ॥ १,१८१.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकाशीत्यधिकशततमोऽध्यायः