गरुडपुराणम्/आचारकाण्डः/अध्यायः १६९

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १६८ गरुडपुराणम्
अध्यायः १६९
वेदव्यासः
आचारकाण्डः, अध्यायः १७० →

श्रीगरुडमहापुराणम् १६९
धन्वन्तरिरुवाच ।
हिताहितविकेकाय अनुपानविधिं ब्रुवे ।
रक्तशालि त्रिदोषघ्नं तृष्णामेदोनिवारकम् ॥ १,१६९.१ ॥

महाशालि परं वृष्यं कलमः श्लेष्मपित्तहा ।
शीत्तो गुरुस्त्रिदोषघ्नः प्रायशो गौरषष्टिकः ॥ १,१६९.२ ॥

श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा ।
तद्वत्प्रियङ्गुनीवारकोरदूषाः प्रकीर्तिताः ॥ १,१६९.३ ॥

बहुवारः सकृच्छीतः श्लेष्मपित्तहरो यवः ।
वृष्यः शीतो गुरुः स्वादुर्गोधूमो वातनाशनः ॥ १,१६९.४ ॥

कफपित्तास्त्रजिन्मुद्गः कषायो मधुरोलघुः ।
माषो बहुबलो वृष्यः पित्तश्लेष्महरो गुरुः ॥ १,१६९.५ ॥

अवृष्यः श्लेष्मपित्तघ्नो राजमाषोऽनिलार्तिनुत् ।
कुलत्थः श्वासहिक्काहृत्कफगुल्मानिलापहः ॥ १,१६९.६ ॥

रक्तपित्तज्वरोन्माथो शीतो ग्राही मकुष्ठकः ।
पुंस्त्वासृक्कफपित्तघ्नश्चणको वातलः स्मृतः ॥ १,१६९.७ ॥

मसूरो मधुरः शीव संग्रही कफपित्तहा ।
तद्वत्सर्वगुणाढ्यश्च कलायश्चातिवातलः ॥ १,१६९.८ ॥

आग्की कफपित्तघ्नो शुक्रला च तथा स्मृता ।
अतसी पित्तला ज्ञेया सिद्धार्थः कफवातजित् ॥ १,१६९.९ ॥

सक्षारमधुरस्निग्धो बलोष्णपित्तकृत्तिलः ।
बलघ्ना रूक्षलाः शीता विविधाः सस्यजातयः ॥ १,१६९.१० ॥

चित्रकेङ्गुदिनालीकाः पिप्पलीमधुशिग्रवः ।
चव्याचरणनिर्गुण्डीतर्कारीकाशमर्दकाः ॥ १,१६९.११ ॥

सबिल्वाः कफपित्तघ्नाः क्रिमिघ्ना लघुदीपकाः ।
वर्षाभूमार्करौ वातकफघ्नौ दोषनाशनौ ॥ १,१६९.१२ ॥

तिक्तरसः स्यादेरण्डः काकमाची त्रिदोषहृत् ।
चाङ्गेरी कफवातघ्नी सर्षपः सर्वदोषदम् ॥ १,१६९.१३ ॥

तद्वदेव च कौस्मसुम्भं राजिका वातपित्तला ।
नाडीचः कफपित्तघ्नः चुचुर्मधुरशीतलः ॥ १,१६९.१४ ॥

दोषघ्नं पद्मपत्रञ्च त्रिपुटं वातकृत्परम् ।
सक्षारः सर्वदोषघ्नो वास्तुको रोचनः परः ॥ १,१६९.१५ ॥

तण्डुकीयोविपहरः पालङ्क्याश्च तथापरे ।
मूलकं दोषकृच्छामं स्विन्नं वातकफापदम् ॥ १,१६९.१६ ॥

सर्वदोषहरं ह्यद्यं कण्ठ्यं तत्पक्वमिष्यते ।
कर्कोटकं सवार्ताकं पदोलं कारवेल्लकम् ॥ १,१६९.१७ ॥

कुष्ठमेहज्वरश्वासकासपित्तकफापहम् ।
सर्वदोषहरं हृद्यं कूष्माण्डं बस्तिशोधनम् ॥ १,१६९.१८ ॥

कलिङ्गालाबुनी पित्तनाशिनी वातकारिणी ।
त्रपुषोर्वारुके वातश्लेष्मले पित्तवारणे ॥ १,१६९.१९ ॥

वृक्षाम्लं कफवातघ्नं जम्बीरं कफवातनुत् ।
वातघ्नं दाडिमं ग्राहि नागरङ्गफलं गुरु ॥ १,१६९.२० ॥

केशरं मातुलुङ्गं च दीपनं कफवातनुत् ।
वातपित्तहरो माषस्त्वक्स्निग्धोष्णानिलापहः ॥ १,१६९.२१ ॥

सरमामलकं वृष्यं मधुरं हृद्यमम्लकृत् ।
भुक्तप्ररोचका पुण्या हरीतक्यमृतोपमा ॥ १,१६९.२२ ॥

स्त्रंसनी कफवातघ्नी ह्यक्षस्तद्वत्त्रिदोषजित् ।
वातश्लेष्महरं त्वम्लं स्त्रंसनं तिन्तिडीफलम् ॥ १,१६९.२३ ॥

दोषलं लकुचं स्वादु बकुलं कफवातजित् ।
गुल्मवातकफश्वासकासघ्नं बीजपूरकम् ॥ १,१६९.२४ ॥

कपित्थं ग्राहि दोषघ्नं पक्वं गुरु विषापहम् ।
कफपित्तकरं बालमापूर्णं पित्तवर्धनम् ॥ १,१६९.२५ ॥

पक्वाम्रं वातकृन्मांसशुक्रवर्णबलप्रदम् ।
वातघ्नं कफपित्तघ्नं ग्राहि विष्टम्भि जाम्बवम् ॥ १,१६९.२६ ॥

तिन्दुकं कफवातघ्नं बदरं वातपित्तहृत् ।
विष्टम्भि वातलं बिल्वं प्रियालं पवनापहम् ॥ १,१६९.२७ ॥

राजादनफलं मोचं पनसं नारिकेलजम् ।
शुक्रमांसकराण्याहुः स्वादुस्निग्धगुरूणि च ॥ १,१६९.२८ ॥

द्राक्षामधूकखर्जूरं कुङ्कुमं वातरक्तजित् ।
मागधी मधुरा पक्वा श्वासपित्तहरा परा ॥ १,१६९.२९ ॥

आर्द्रकं रोचकं वृष्यं दीपनं कफवातहृत् ।
शुण्ठीमरिचपिप्पल्यः कफवातजितो मताः ॥ १,१६९.३० ॥

अवृष्यं मरिचं विद्यादिति वैद्यकसंमतम् ।
गुल्मशूलविबन्धघ्नं हिङ्गुवातकफापहम् ॥ १,१६९.३१ ॥

यवानीधन्यकाजाज्यः वातश्लेष्मनुदः परम् ।
चक्षुष्यं सैन्धवं वृष्यं त्रिदोषशमनं स्मृतम् ॥ १,१६९.३२ ॥

सौवर्चलं विबन्धघ्नमुष्णं हृच्छूलनाशनम् ।
उष्णं शूलहरं तीक्ष्णं विडङ्गं वातनाशनम् ॥ १,१६९.३३ ॥

रोमकं वातलं स्वादु रोचनं क्लेदनं गुरु ।
हृत्पाण्डुगलरोगघ्नं यवक्षारोऽग्निदीपनः ॥ १,१६९.३४ ॥

दहनो दीपनस्तीक्ष्णः सर्जिक्षारो विदारणः ।
दोषघ्नं नाभसं वारिलघु हृद्यं विषापहम् ॥ १,१६९.३५ ॥

नादेयं वातलं रूक्षं सारसं मदुर लघु ।
वातश्लेष्महरं वार्प्यं ताडागं वातलं स्मृतम् ॥ १,१६९.३६ ॥

रौच्यमग्निकरं रूक्षं कफघ्नंलघु नैर्झरम् ।
दीपनं पित्तलं कौपमौद्भिदं पित्तनाशनम् ॥ १,१६९.३७ ॥

दिवार्ककिरणैर्जुष्टं रात्रौ चैवेन्दुरश्मिभिः ।
सर्वदोषविनिर्मुक्तं तत्तुल्यं गगनाम्बुना ॥ १,१६९.३८ ॥

उष्णं वारि ज्वरश्वासमेदोऽनिलकफापहम् ।
शृतं शीतत्रिदोषघ्नमुषितं तच्च दोषलम् ॥ १,१६९.३९ ॥

गोक्षीरं वातपित्तग्नं स्निग्धं गुरुरसायनम् ।
गव्याद्गुरुतरं स्निग्धं माहिष्वह्निनाशनम् ॥ १,१६९.४० ॥

छागं रक्तातिसारघ्नं कासश्वासकफापहम् ।
चक्षुष्यं जीवनं स्त्रीणां रक्तपित्ते चनावनम् ॥ १,१६९.४१ ॥

परं वातहरं वृष्यं पित्तश्लेष्मकरं दधि ।
दोषघ्नं मन्थजातन्तु मस्तु स्रोतोविशोधनम् ॥ १,१६९.४२ ॥

ग्रहण्यर्शोऽर्दितार्तिघ्नं नवनीतं नवोद्धृतम् ।
विकाराश्च किलाटाद्या गुरवः कुष्ठहेतवः ॥ १,१६९.४३ ॥

परं ग्रहणीशोथार्शः पाण्ड्वतीसारगुल्मनुत् ।
त्रिदोषशमनं तक्रं कथितं पूर्वसूरिभिः ॥ १,१६९.४४ ॥

वृष्यञ्च मधुरं सर्पिर्वातपित्तकफापहम् ।
गव्यं मेध्यञ्च चाक्षुष्यं संस्काराच्च त्रिदोषजित् ॥ १,१६९.४५ ॥

अपस्मारगदोन्मादमूर्छाघ्नं संस्कृतङ्घृतम् ।
अजादीनाञ्च सर्पोषि विद्याद्गोक्षीरसद्गुणैः ।
कफवातहरं मूत्रं सर्वक्रिमिविषापहम् ॥ १,१६९.४६ ॥

पाण्डुत्वोदरकुष्ठार्शः शोथगुल्मप्रमेहनुत् ।
वातश्लेष्महरं बल्यं तैलं कश्यं तिलोद्भवम् ॥ १,१६९.४७ ॥

सार्षपं कृमिपाण्डुघ्नं कफमेदोऽनिलापहम् ।
क्षौमं तैलमचक्षुष्यं पित्तहृद्वातनाशनम् ॥ १,१६९.४८ ॥

अक्षजं कफपित्तघ्नं केश्यं त्वक्श्रोत्रतर्पणम् ।
त्रिदोषघ्नं मधु प्रोक्तं वातलञ्च प्रकीर्तितम् ॥ १,१६९.४९ ॥

हिक्काश्वासकृमिच्छर्दिमेहतृष्णाविषामहम् ।
इक्षवोरक्तपित्तघ्नो बल्या वृष्याः कफप्रदाः ॥ १,१६९.५० ॥

फाणितं पित्तलं तव्रिं सुरा मत्स्यण्डिका लघुः ।
खण्डं वृष्यं तथा स्निग्धं स्वाद्वसृक्पित्तवातजित् ॥ १,१६९.५१ ॥

वातपित्तहरो रूक्षो वातघ्नः कफकृद्गुडः ।
स पित्तघ्नः परः पथ्यः पुराणोऽसृक्प्रसादनः ॥ १,१६९.५२ ॥

रक्तिपित्तहरा वृष्या सस्नेहा गडशर्करा ।
सर्वपित्तकरं मद्यमम्लत्वात्कफवातजित् ॥ १,१६९.५३ ॥

रक्तपित्तकरास्तीक्ष्णास्तथा सौवीरजातयः ।
पाचनो दीपनः पथ्यो मण्डः स्याद्भृष्टतण्डुलः ॥ १,१६९.५४ ॥

वातानुलोमनी लघ्वी पेया वस्तिविशोधनी ।
सतक्रदाडिमव्योषा सगुडा मधुपिप्पली ॥ १,१६९.५५ ॥

इन्तीयं सुकृता पेया कासश्वा सप्रवाहिकाः ।
पायसः कफकृद्बल्यः कृशरा वातनाशिनी ॥ १,१६९.५६ ॥

सुधौतः प्रस्त्रुतः स्निग्धः सुखोष्णो लघुरोचनः ।
कन्दमूलफलेहैः साधितो बृंहणोगुरुः ॥ १,१६९.५७ ॥

ईषदुष्णसेवनाच्च लघुः सूपः सुसाधितः ।
स्विन्न निष्पीडितं शाकं हितं स्नेहादिसंस्कृतम् ॥ १,१६९.५८ ॥

दाडिमामलकैर्यूषो वह्निकृद्वातपित्तहा ।
श्वासकासप्रतिश्यायकफघ्नो मलकैः कृतः ॥ १,१६९.५९ ॥

यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ।
मुद्गामलकजो ग्राही श्लेष्मपित्तविनाशनः ॥ १,१६९.६० ॥

सगुडं दधि वातघ्नं सक्तवो रूक्षवातुलाः ।
घृतपूर्णोऽग्निकारी स्याद्वृष्या गुर्वो च शष्कुली ॥ १,१६९.६१ ॥

बृंहणाः सामिषा भक्ष्यपिष्ट का गुखः स्मृताः ।
तैलसिद्धाश्च दृष्टिघ्नास्तोयस्विन्नाश्च दुर्जराः ॥ १,१६९.६२ ॥

अत्युष्णा मण्डकाः पथ्याः शीतला गुखो मताः ।
अनुपानञ्च पानीयं श्रमतृष्णादिनाशनम् ॥ १,१६९.६३ ॥

अन्नपानादिना रक्षा कृत्स्याद्रोगवर्जितः ।
अनुष्णः शिखिकण्ठाभो विषञ्चैव विवर्णकृत् ॥ १,१६९.६४ ॥

गन्धस्पर्शरसास्तीव्राभोक्तुश्च स्यान्मनोव्यथा ।
आघ्राणे चाक्षिरोगः स्यादसाध्यश्च भिषग्वरैः ।
वेपथुर्जृम्भणाद्यं स्याद्विषस्यैतत्तु लक्षणम् ॥ १,१६९.६५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अनुपानादिविधिकथनं नामैकोनसप्तत्यधिकशततमोऽध्यायः