गरुडपुराणम्/आचारकाण्डः/अध्यायः १३१

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १३० गरुडपुराणम्
अध्यायः १३१
वेदव्यासः
आचारकाण्डः, अध्यायः १३२ →

श्रीगरुडमहापुराणम् १३१
ब्रह्मोवाच ।
ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः ।
दूर्वां सौरीं गणेशं च फलपुष्पैः शिवं यजेत् ॥ १,१३१.१ ॥
फलव्रीह्यादिभिः सर्वैः शम्भवेनमः शिवाय च ।
त्वं दूर्वेऽमृतजन्मासि ह्यष्टमी सर्वकामभाक् ॥ १,१३१.२ ॥
अनग्निपक्वमश्नीयान्मुच्यते ब्रह्महत्यया ।
(इति दूर्वाष्टमीव्रतम्) ।
कृष्णाष्टम्यां च रोहिण्यामर्धरात्रेऽर्चनं हरेः ॥ १,१३१.३ ॥
कार्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्मनः ।
उपोषितोऽर्चयेन्मन्त्रैस्तिथि भान्ते च पारणम् ॥ १,१३१.४ ॥
योगाय योगपतये योगेश्वराय योगसम्भवाय गोविन्दाय नमोनमः ।
(स्नानमन्त्रः) यज्ञाय यज्ञेश्वराय यज्ञपतये गोविन्दाय नमोनमः ॥ १,१३१.५ ॥
(अर्चनम०)विश्वाय विश्वेश्वराय विश्वपतये गोविन्दाय नमोनमः ।
(शयन०)सर्वाय सर्वेश्वराय सर्वेताय सर्वसम्भवाय गोविन्दाय नमोनमः ॥ १,१३१.६ ॥
स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीं तथा ।
शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ॥ १,१३१.७ ॥
जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत् ।
क्षीरोदार्णवसंभूत ! अत्रिनेत्रसमुद्भव ! ॥ १,१३१.८ ॥
गृहाणार्घ्यं शशाङ्केश (मं) रोहिण्या सहितो मम ।
श्रियै च वसुदेवाय नन्दाय च बलाय च ॥ १,१३१.९ ॥
यशोदायै ततो दद्यादर्घ्यं फलसमन्वितम् ।
अनन्तं (घं) वामनं शौरिं वैकुष्ठं पुरुषोत्तमम् ॥ १,१३१.१० ॥
वासुदेवं हृषीकेशं माधवं मधुसूदनम् ।
वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ॥ १,१३१.११ ॥
दामोदरं पद्मनाभं केशवं गारुडध्वजम् ।
गोविन्दमच्युतं देवमनन्तम पराजितम् ॥ १,१३१.१२ ॥
अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारणम् ।
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ॥ १,१३१.१३ ॥
नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
पीतम्बरधरं दिव्यं वनमालाविभूषितम् ॥ १,१३१.१४ ॥
श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम् ।
यं देवं देवकी देवी वसुदेवादजीजनत् ॥ १,१३१.१५ ॥
भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।
नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत्पुनः ॥ १,१३१.१६ ॥
त्राहि मां देवदेवेश ! हरे ! संसारसागरात् ।
त्राहि मां सर्वपापघ्न ! दुःखशोकार्णवात्प्रभो ! ॥ १,१३१.१७ ॥
देवकीनन्दन ! श्रीश ! हरे ! संसारसागरात् ।
दुर्वृत्तांस्त्रायसे विष्णो ! ये स्मरन्ति सकृत्सकृत् ॥ १,१३१.१८ ॥
सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात् ।
पुष्कराक्ष ! निमग्नोऽहं मह्तयज्ञानसागरे ॥ १,१३१.१९ ॥
त्राहि मां देवदेवेश ! त्वामृतेऽन्यो न रक्षिता ।
स्वजन्म वासुदेवाप गोब्राह्मणहिताय च ॥ १,१३१.२० ॥
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ।
शान्तिरस्तु शिवं चास्तु धनविख्यातिराज्यभाक् ॥ १,१३१.२१ ॥
(इति कृष्णाष्टमीव्रतम्) ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कृष्णाष्टमीव्रतनिरूपणं ना मैकत्रिंशदुत्तरशततमोऽध्यायः