गरुडपुराणम्/आचारकाण्डः/अध्यायः १२१

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १२० गरुडपुराणम्
अध्यायः १२१
वेदव्यासः
आचारकाण्डः, अध्यायः १२२ →

श्रीगरुडमहापुराणम् १२१
ब्रह्मोवाच ।
चातुर्मास्यव्रतान्यूचे एकादश्यां समाचरेत् ।
आषाढ्यां पौर्णमास्यां वा सर्वेणहरिमर्च्यच ॥ १,१२१.१ ॥

इदं व्रतं मया देव गृहीतं पुरतस्तव ।
निर्विघ्नं सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ॥ १,१२१.२ ॥

गृहीतेऽस्मिन्व्रते देव यद्यपूर्णे म्रियाम्यहम् ।
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥ १,१२१.३ ॥

एवमभ्यर्च्य गृह्णीयाद्व्रतार्चनजपादिकम् ।
सर्वाघं च क्षयं याति चिकीर्षेद्यो हरेर्व्रतम् ॥ १,१२१.४ ॥

स्नात्वायोभ्यच्य गृह्णीयाद्व्रतार्चनजपादिकम् ।
स्नात्वा यच्चतुरो मासानेकभक्तेन पूजयेत् ।
विष्णुं स याति विष्णोर्व लोकं मलविवर्जितम् ॥ १,१२१.५ ॥

मद्यमांससुरात्यगी वेदविद्धरिपूजनात् ।
तैलवर्जि विष्णुलोकं विष्णुभाक्कृच्छ्रपादकृत् ॥ १,१२१.६ ॥

एकरात्रोपवासाच्च देवो वैमानिको भवेत् ।
श्वेतद्वीपं त्रिरात्रात्तु व्रजेत्षष्ठान्नकृन्नरः ॥ १,१२१.७ ॥

चान्द्रायणाद्धरेर्धाम लभेन्मुक्तिमयाचिताम् ।
प्राजापत्यं विष्णुलोकं पराकव्रतकृद्धरिम् ॥ १,१२१.८ ॥

सक्तुयावकभिक्षाशी पयोदधिघृताशनः ।
गोमूत्रयावकाहारः पञ्चगव्यकृताशनः ।
शाकमलफलाद्याशी रसवर्जो च विष्णुभाक् ॥ १,१२१.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चातुर्मास्यव्रतनिरूपणं नामकावशत्युत्तरशततमोऽध्यायः