गरुडपुराणम्/आचारकाण्डः/अध्यायः ११९

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ११८ गरुडपुराणम्
अध्यायः ११९
वेदव्यासः
आचारकाण्डः, अध्यायः १२० →

श्रीगरुडमहापुराणम् ११९
ब्रह्मोवाच ।
अगस्त्यार्घ्यव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकम् ।
अप्राप्ते भास्करे कन्यां सति भागे त्रिभिर्दिनैः ॥ १,११९.१ ॥

अर्घ्यं दद्यादगस्त्याय मूर्तिं संपूज्य वै मुने ! ।
काशपुष्पमयीं कुम्भे प्रदोषे कृतजागरः ॥ १,११९.२ ॥

दध्यक्षताद्यैः संपूज्य उपोष्य फलपुष्पकैः ।
पञ्चवर्णसमायुक्तं हेमरौप्यसमन्वितम् ॥ १,११९.३ ॥

सप्तधान्ययुतं पात्रं दधिचन्दनचर्चितम् ।
अगस्त्यः खनमानेति मन्त्रेणार्घ्यं प्रदापयेत् ॥ १,११९.४ ॥

खासपुष्पप्रतीकाश अग्निमारुतसम्भव ! ।
मित्रावारुणयोः पुत्त्रो कुम्भयोने नमोऽस्तु ते ॥ १,११९.५ ॥

शूद्रस्त्र्यादिरनेनैव त्यजेद्धान्यं फलं रसम् ।
दद्याद्द्विजातये कुम्भं सहिरण्यं सदक्षिणम् ।
भोजयेच्च द्विजान्सप्त वर्षं कृत्वा तु सर्वभाक् ॥ १,११९.६ ॥

इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डेऽगस्त्यार्घ्यव्रतं नामैकोनविंशत्युत्तरशततमोऽध्यायः