गरुडपुराणम्/आचारकाण्डः/अध्यायः ११५
← आचारकाण्डः, अध्यायः ११४ | गरुडपुराणम् अध्यायः ११५ वेदव्यासः |
आचारकाण्डः, अध्यायः ११६ → |
श्रीगरुडमहापुराणम् ११५
सूत उवाच ।
कुमार्यां च कुमित्रं च कुराजानं कुपुत्रकम् ।
कुकन्यां च कुदेशं च दूरतः परिवर्जयेत् ॥ १,११५.१ ॥
धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी वन्ध्यफला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ।
मर्त्याः स्त्रीवशगाः स्त्रियश्च चपला नीचा जना उन्नताः हा कष्टं खलुजीवितं कलियुगे धन्या जना ये मृताः ॥ १,११५.२ ॥
धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम् ।
परचित्तगतान् दारान्पुत्रं कुव्यसने स्थितम् ॥ १,११५.३ ॥
कुपुत्रे निर्वृतिर्नास्ति कुभार्यायां कुतो रतिः ।
सुमित्र नास्ति विश्वासः कुराज्ये नास्ति जीवितम् ॥ १,११५.४ ॥
परान्नं च परस्वं च परशय्याः परस्त्रियः ।
परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥ १,११५.५ ॥
आलापाद्गात्रसंस्पर्शात्संसर्गात्सह भोजनात् ।
आसनाच्छयनाद्यानात्पापं संक्रमते नृणाम् ॥ १,११५.६ ॥
स्त्रियो नश्यन्ति रूपेण तपः क्रोधन नश्यति ।
गावो द्वरप्रचारेण शूद्रान्नेन द्विजोत्तमः ॥ १,११५.७ ॥
आसनादेकशय्यायां बोजनात्पङ्क्तिसङ्करात् ।
ततः संक्रमते पापं घटाद्धट इवोदकम् ॥ १,११५.८ ॥
लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥ १,११५.९ ॥
अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥ १,११५.१० ॥
अधमाः कलिमिच्छन्ति सन्धिमिच्छति मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.११ ॥
मानो हि मूलमर्थस्य माने सति धनेन किम् ।
प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ १,११५.१२ ॥
अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १,११५.१३ ॥
वनेऽपि सिंहा न नमन्ति कं च बुभु क्षिता मांसनिरीक्षणं च ।
धनैर्विहीनाः सुकुलेषु जाता न नीचकर्माणि समारभन्ते ॥ १,११५.१४ ॥
नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
नित्यमूर्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १,११५.१५ ॥
वणिक्प्रमादी भृकश्च मानी भिक्षुर्विलासी ह्यधनश्च कामी ।
वराङ्गना चाप्रियवादिनी च न ते च कर्माणि समारभन्ते ॥ १,११५.१६ ॥
दाता दरिद्रः कृपणोर्ऽथयुक्तः पुत्त्रोऽविधेयः कुजनस्य सेवा ।
परोपकारेषु नरस्य मृत्युः प्रजायते दुश्चरितानि पञ्च ॥ १,११५.१७ ॥
कान्तावियोगः स्वजनापमानं ऋणस्य शेषः कुजनस्य सेवा ।
दारिद्रयाभावाद्विमुखाश्च मित्रा विनाग्निना पञ्च दहन्ति तीव्राः ॥ १,११५.१८ ॥
चिन्तासहस्रेषु च तेषु मध्ये चिन्ताश्चतस्रोऽप्यसिधारतुल्याः ।
नीचापमानं क्षुधितं कलत्रं भार्या विरक्ता सहजोपरोधः ॥ १,११५.१९ ॥
वश्यश्च पुर्त्रेर्ऽथ करी च विद्या अरोगिता सज्जनसङ्गतिश्च ।
इष्टा च भार्या वशवर्तिनी च दुः खस्य मूलोद्धरणानि पञ्च ॥ १,११५.२० ॥
कुरङ्गमातङ्गपतङ्गंभृग मीना हताः पञ्चबिरेव पञ्च ।
एकः प्रमाथी स कथं न घात्यो यः सेवते पञ्चभिरेव पञ्च ॥ १,११५.२१ ॥
अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः ।
पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा अपि ॥ १,११५.२२ ॥
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि विविच्यन्ते जायमानस्य देहिनः ॥ १,११५.२३ ॥
पर्वतारोहणे तोये गोकुले दुष्टनिग्रहे ।
पतितस्य समुत्थाने शस्ताः पञ्च (ह्येते) गुणाः स्मृताः ॥ १,११५.२४ ॥
अभ्रच्छाया खले प्रीतिः परनारीषु संगतिः ।
पञ्चैते ह्यस्थिरा भावा यौवनानि धनानि च ॥ १,११५.२५ ॥
अस्थिरं जीवितं लोके अस्थिरं धनयौवनम् ।
अस्थिरं पुत्त्रदाराद्यं धर्मः कीर्तिर्यशः स्थिरम् ॥ १,११५.२६ ॥
शत जीवितमत्यल्पं रात्रिस्तस्यार्धहारिणी ।
व्याधिशोकजरायासैरर्धं तदपि निष्फलम् ॥ १,११५.२७ ॥
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्थितकिञ्चिदर्धमधिकं बाल्यस्य काले गतम् ।
किञ्चिद्वन्धुवियोगदुः खमरणैर्भूपालसेवागतं शेषं वारितरङ्गगर्भचपलं मानेन किं मानिनाम् ॥ १,११५.२८ ॥
अहोरात्रमयो लोके जरारूपेण संचरेत् ।
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ १,११५.२९ ॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न चेत् ।
सर्वसत्त्वहितार्थाय पशोरिव विचेष्टितम् ॥ १,११५.३० ॥
अहितहितविचारशून्यबुद्धेः श्रुतिसमये बहुभिर्वितर्कितस्य ।
उदरभरणमात्रतुष्टबुद्धेः पुरुषपशोश्च पशोश्च को विशेषः ॥ १,११५.३१ ॥
शौर्ये तपसि दाने च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ॥ १,११५.३२ ॥
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभग्नमानैः ।
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३३ ॥
किं जीवितेन धनमानविवर्जितेन मित्रेण किं भवति भीतिसशङ्कितेन ।
सिंहव्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३४ ॥
यो वात्मनीह न गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च मित्रकार्ये ।
किं तस्य जीवितफलेनमनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ १,११५.३५ ॥
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च ।
स लौहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १,११५.३६ ॥
स्वाधीनवृत्तेः साफल्यं न पराधीनवर्तिता ।
ये पराधीनकर्माणो जीवन्तोऽपि च ते मृताः ॥ १,११५.३७ ॥
सु(स्व) पूरा वै कापुरुषाः सु(स्व) पूरो मूषिकाञ्जलिः ।
असन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ १,११५.३८ ॥
अभ्रच्छाया तृणादग्निर्नोचसेवा पथो जलम् ।
वेश्यारागः खले प्रीतिः षडेते बुद्वुदोपमाः ॥ १,११५.३९ ॥
वाचा विहितसार्थेन लोको न च सुखायते ।
जीवितं मानमूलं हि माने म्लाने कुतः सुखम्? ॥ १,११५.४० ॥
अबलस्य बलं राजा बालस्य रुदितं बलम् ।
बलं मूर्खस्य मौनं हि तस्करस्यानृतं बलम् ॥ १,११५.४१ ॥
यथायथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथातथास्य मेधा स्याद्विज्ञानं चास्य रोचते ॥ १,११५.४२ ॥
यथायथा हि पुरुषः कल्याणे कुरुते मतिम् ।
तथातथा हि सर्वत्र श्लिष्यते लोकसुप्रियः ॥ १,११५.४३ ॥
लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः ।
तस्माल्लोभो न कर्तव्यः प्रमादो नोन विश्वसेत् ॥ १,११५.४४ ॥
तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
उत्पन्ने तु भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥ १,११५.४५ ॥
ऋणशेषं चाग्निशेषं व्याधिशेषं तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥ १,११५.४६ ॥
कृते प्रतिकृतं कुर्याद्धिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥ १,११५.४७ ॥
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं मायामयमरिं तथा ॥ १,११५.४८ ॥
दुर्जनस्य हि संगेन सुजनोऽपि विनश्यति ।
प्रसन्नमपि पानीयं कर्दमैः कलुषीकृतम् ॥ १,११५.४९ ॥
स भुङ्क्ते सद्विजो भुङ्क्ते समशेषनिरूपणम् ।
तस्मात्सर्वप्रयत्नेन द्विजः पूज्यः प्रयत्नतः ॥ १,११५.५० ॥
तद्भुज्यते यद्द्विजभुक्तशेषं स बुद्धिमान्यो न करोति पापम् ।
तत्सौहृदं यक्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्मः ॥ १,११५.५१ ॥
न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यमस्ति नैतत्सत्यं यच्छलेनानुविद्धम् ॥ १,११५.५२ ॥
ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ।
शिरोऽपि सर्वगात्राणां व्रतानां सत्यमुत्तमम् ॥ १,११५.५३ ॥
तन्मङ्गलं यत्र मनः प्रसन्नं तज्जीवनं यन्न परस्य सेवा ।
तदर्जितं यत्स्वजनेन भुक्तं तद्गर्जितं यत्समरे रिपूणाम् ॥ १,११५.५४ ॥
सा स्त्रीया न मदं कुर्यात्स सुखी तृष्णयोज्झितः ।
तन्मित्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः ॥ १,११५.५५ ॥
तत्र मुक्तादरस्नेहो विलुप्तं यत्र सौहृदम् ।
तदेव केवलं श्लघ्यं यस्यात्मा क्रियते स्तुतौ ॥ १,११५.५६ ॥
नदीनामग्निहोत्राणां भारतस्य कलस्य च ।
मूलान्वेषो न कर्तव्यो मूलाद्दोषो न हीयते ॥ १,११५.५७ ॥
लवणजलान्ता नद्यः स्त्रीभेदान्तं च मैथुनम् ।
षैशुन्यं जनवार्तान्तं वित्तं दुः खत्रयान्तकम् ॥ १,११५.५८ ॥
राज्यश्रीर्ब्रह्मशापान्ता पापान्तं ब्रह्मवर्चसम् ।
आचान्तं घोषवासान्तं कुलस्यान्तं स्त्रिया प्रभो (भुः) ॥ १,११५.५९ ॥
सर्वे क्षयान्ता निलयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ १,११५.६० ॥
यदीच्छेत्पुनरागन्तुं नातिदूरमनुव्रजेत् ।
उदकान्तान्निवर्तेत स्निग्धवर्णाच्च पादपात् ॥ १,११५.६१ ॥
अनायके न वस्तव्यं न चैव बहुनायके ।
स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥ १,११५.६२ ॥
पिता रक्षति कौमारे भत्ता रक्षति यौवने ।
पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥ १,११५.६३ ॥
त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रिजाम् ।
एकादशे स्त्रीजननीं सद्यश्चाप्रियावादिनीम् ॥ १,११५.६४ ॥
अनर्थित्वान्मनुष्याणां भिया परिजनस्य च ।
अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तृषु ॥ १,११५.६५ ॥
अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः ।
अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥ १,११५.६६ ॥
अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न बलं न तेजः ॥ १,११५.६७ ॥
कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च ।
परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥ १,११५.६८ ॥
सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः ।
सावकाशस्तु वै भुङ्क्ते यस्तु दारैर्न सङ्गतः ॥ १,११५.६९ ॥
अम्भसः परिमाणे उन्नतं कमलं भवेत् ।
स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥ १,११५.७० ॥
स्थानस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥ १,११५.७१ ॥
ये पदस्थस्य मित्त्राणि ते तस्य रिपुतां गताः ।
भानोः पद्मे जले प्रीतिः स्थलोद्धरणशोषणः ॥ १,११५.७२ ॥
स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे स्थिताः ।
स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥ १,११५.७३ ॥
आचारः कुलमाख्यति देशमाख्याति भाषितम् ।
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ १,११५.७४ ॥
वृथा वृष्टिः समुद्रस्य वृथा तृप्तस्य भोजनम् ।
वृथा दानं समृद्धस्य नीचस्य सुकृतं वथा ॥ १,११५.७५ ॥
दूरस्थोऽपि समीपस्थो यो यस्य हृदये स्थितः ।
हृदयादपि निष्क्रान्तः समीपस्थोऽपि दूरतः ॥ १,११५.७६ ॥
मुखभङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ १,११५.७७ ॥
कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च ।
शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥ १,११५.७८ ॥
जगत्पतिर्हि याचित्वा विष्णुर्वामनतां यतः ।
कान्योऽधिकतरस्तस्य योर्ऽथो याति न लाघवम् ॥ १,११५.७९ ॥
माता शत्रुः पिता वैरी बाला येन न पाठिताः ।
सभामध्ये न शोभन्ते हंसमध्ये बकायथा ॥ १,११५.८० ॥
विद्या नाम कुरूपरूपमधिकं विद्यातिगुप्तं धनं विद्या साधुकरी जनप्रियकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनार्तिनाशनकरी विद्या परं दैवतं विद्या राजसु पूजिता हि मनुजो विद्यविहीनः पशुः ॥ १,११५.८१ ॥
गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते ।
अशेषं हरणीयं च विद्या न ह्रियते परैः ॥ १,११५.८२ ॥
शौनकीयं नीतिसारं विष्णुः सर्वत्रतानि च ।
कथयामास वैपूर्वं तत्र शुश्राव शङ्करः ।
शङ्करादशृणोद्व्यासो व्यासादस्माभिरेव च ॥ १,११५.८३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः