गरुडपुराणम्/आचारकाण्डः/अध्यायः १०६

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः १०५ गरुडपुराणम्
अध्यायः १०६
वेदव्यासः
आचारकाण्डः, अध्यायः १०७ →


याज्ञवल्क्य उवाच ।
प्रेता (त) शौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः ।
ऊनद्विवर्षं निखनेन्न कुर्यादु दकं ततः ॥ १,१०६.१ ॥

आ श्मशानादनुव्रज्य इतरैर्ज्ञातिभिर्युतः ।
यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना ॥ १,१०६.२ ॥

स दग्धव्य उपेतश्चैदाहिताग्न्यावृतार्थवत् ।
सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयान्त्यपः ॥ १,१०६.३ ॥

अपनः शोशुचदघमनेन पितृदिङ्मुखाः ।
एवं मातामहाचार्यपत्नीनां चोदकक्रियाः ॥ १,१०६.४ ॥

कामोदकाः पुत्रसखिस्वस्त्रीयश्वशुरर्त्विजः ।
नामगोत्रेण ह्युदकं सकृत्सिञ्चन्ति वाग्यताः ॥ १,१०६.५ ॥

पाषण्डपतितानां तु न कुर्युरुदकक्रियाः ।
नब्रह्मचारिणो व्रात्या योषितः कामगास्तथा ॥ १,१०६.६ ॥
सुराप्यस्त्वात्मघातिन्यो नाशौचोदकभाजनाः ।
ततो न रोदितव्यं हि त्वनित्या जीवसं स्थितिः ॥ १,१०६.७ ॥
क्रिया कार्या यथाशक्ति ततो गच्छेद्गृहान्प्रति ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ १,१०६.८ ॥
आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ १,१०६.९ ॥
प्रवेशनादिकं कर्म प्रेतसंस्पर्शनादपि ।
ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥ १,१०६.१० ॥
क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्पृथक् ।
पिण्डयज्ञकृता देयं प्रेतायान्नं दिनत्रयम् ॥ १,१०६.११ ॥

जलमेकाहमाकाशे स्थाप्यं क्षीरं तु मृन्मये ।
वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचोदिताः ॥ १,१०६.१२ ॥

आदन्तजन्मनः सद्यः आचूडं नैशिकी स्मृता ।
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ १,१०६.१३ ॥

त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १,१०६.१४ ॥

अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति ।
दश द्वादश वर्णानां तथा पञ्चदशैव च ॥ १,१०६.१५ ॥

त्रिंशद्दिनानि च तथा भवति प्रेतसूतकम् ।
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ॥ १,१०६.१६ ॥
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ।
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥ १,१०६.१७ ॥
निवासराजनि तथा तदहः शुद्धिकार(ण)म् ।
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ॥ १,१०६.१८ ॥
विषाद्यैश्च हतानां च नाशौचं पृथिवीपतेः ।
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ १,१०६.१९ ॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि च कष्टायां सद्यः शौचं विधीयते ॥ १,१०६.२० ॥
कालोऽग्निः कर्ममृद्वायुर्मनो ज्ञानं तपो जपः (लम्) ।
पश्चात्ताषो निराहारः सर्वेषां शुद्धिहेतवः ॥ १,१०६.२१ ॥

अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृत् ।
क्षात्त्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ॥ १,१०६.२२ ॥

फलसोमक्षौमवीरुद्दधि क्षीरं घृतं जलम् ।
तिलोदनरसक्षारमधु लाक्षा शृतं हविः ॥ १,१०६.२३ ॥

वस्त्रोपलासवं पुष्पं शाकमृच्चर्मपादुकम् ।
एणत्वचं च कौशेयं लवणं मासमेव च ॥ १,१०६.२४ ॥

पिण्याकमूलगन्धांश्च वैश्यवृत्तो न विक्रयेत् ।
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ १,१०६.२५ ॥

लवणादि न विक्रीयात्तथा चापद्गतो द्विजः ।
हीनाद्विप्रो विगृह्णंश्च लिप्यते नार्कवद्द्विजः ॥ १,१०६.२६ ॥
कुर्यात्कृष्यादिकं तद्वदविक्रेया हयास्तथा ।
बुभुक्षितस्त्र्यं स्थित्वा दृष्ट्वा वृत्तिविवर्जितम् ।
राजा धर्म्यां प्रकुर्वीत वृत्तिं विप्रादिकस्य च ॥ १,१०६.२७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्ताशौचापद्वृत्त्योर्निरूपणं नाम पडुत्तरशततमोऽध्यायः