गरुडपुराणम्/आचारकाण्डः/अध्यायः १०

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ९ गरुडपुराणम्
अध्यायः १०
वेदव्यासः
आचारकाण्डः, अध्यायः ११ →

।।हरिरुवाच ।।
श्र्यादिपूजां प्रवश्र्यामि स्थण्डिलादिषु सिद्धये ।।
श्रीं ह्रीं महालक्ष्म्यै नमः ।।

श्रां श्रीं श्रूं श्रैं श्रौं श्रः क्रमाद्धृदयं च शिरः शिखाम् ।।
कवचं नेत्रमस्त्रं च आसनं मूर्त्तिमर्चयेत् ।। 10.1 ।।

मण्डले पद्मगर्भे च चतुर्द्वारि रजोऽन्विते ।।
चतुः षष्ट्यन्तमष्टादि खाक्षेखाक्षेखान्यादि मण्डलम् ।। 10.2 ।।

खाक्षीन्दुसूर्य्यगं सर्वं खादिवेदेन्दुवर्त्तनात् ।।
लक्ष्मीमंगानि चैकस्मिन्कोणे दुर्गां गणं गुरुम् ।। 10.3 ।।

क्षेत्रपालमथाग्न्यादौ होमाज्जुहाव कामभाक् ।।
ॐ घं टं डं हं श्रीमहालक्ष्म्यै नमः ।। 10.4 ।।

अनेन पूजयेल्लक्ष्मीं पूर्वोक्तपरिवारकैः ।।
ॐ सौं सरस्वत्यै नमः ।।
ॐ ह्रीं सौं सरस्वत्यै नमः ।। 10.5 ।।

ॐ ह्रीं वदवदवाग्वादिनिस्वाहा ॐ ह्रीं सरस्वत्यै नमः ।। 10.6 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे लक्ष्म्यर्चननिरूपणं नाम दशमोऽध्यायः ।। 10 ।।