गरुडपुराणम्/आचारकाण्डः/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
गरुडपुराणम्
अध्यायः १
वेदव्यासः
आचारकाण्डः, अध्यायः २ →
।। श्रीगणाधिपतये नमः ।।
।।सरस्वत्यैनमः ।।
अथ श्रीगरुडमहापुराणं प्रारभ्यते ।।
तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते ।।

ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ।। 1 ।।

ॐ अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम् ।।
सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम् ।। 1.1।।

नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम् ।।
देवीं सरस्वतीं चैव मनोवाक्कर्मभिः सदा ।। 1.2 ।।

सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम् ।।
विण्णुभक्तं महात्मानं नैमिषारण्यमागतम् ।। 1.3 ।।

तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने ।।
ध्यायन्तं विष्णुमनघं तमभ्यर्च्यास्तुवन्कविम् ।। 1.4 ।।

शौनकाद्या महाभागा नैमिषीयास्तपोधनाः ।।
मुनयो रविसङ्काशाः शान्ता यज्ञपरायणाः ।। 1.5 ।।

ऋषय: ऊचुः ।।
सूत ! जानासि सर्वं त्वं पृच्छामस्त्वामतो वयम् ।।
देवतानां हि को देव ईश्वरः पूज्य एव कः ।। 1.6 ।।

को ध्येयः को जगत्स्रष्टा जगत्पाति च हन्ति कः ।।
कस्मात्प्रवर्त्तते धर्मो दुष्टहन्ता च कः स्मृतः ।। 1.7 ।।

तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः ।।
कैर्व्रतैः स तु तुष्टः स्यात्केन योगेन वाप्यते ।। 1.8 ।।

अवताराश्च के तस्य कथं वंशादिसम्भवः ।।
वर्णाश्रमादिधर्माणां कः पाता कः प्रवर्त्तकः ।। 1.9 ।।

एतत्सर्वं तथान्यच्च ब्रूहि सूत ! महामते ! ।।
नारायणकथाः सर्वाः कथयास्माकमुत्तमाः ।। 1.10 ।।

सूत उवाच ।।
पुराणं गारुडं वक्ष्ये सारं विष्णुकथाश्रयम् ।।
गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ।। 1.11 ।।

एको नारायणो देवो देवानामीश्वरेश्वरः ।।
परमात्मा परं ब्रह्म जन्माद्यस्य यतो भवेत् ।। 1.12 ।।

जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः ।।
स कुमारादिरूपेण अवतारान्करोत्यजः ।। 1.13 ।।

हरिः स प्रथमं देवः कौमारं सर्गमास्थितः ।।
चचार दुश्चरं ब्रह्मन् ब्रह्मचर्य्यमखण्डितम् ।। 1.14 ।।

द्वितीयं तु भवायास्य रसातलगतां महीम् ।।
उद्धरिष्यन्नुपादत्ते यज्ञेशः शौकरं वपुः ।। 1.15 ।।

तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः ।।
तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मणां यतः ।। 1.16 ।।

नरनारायणो भूत्वा तुर्य्ये तेपे तपो हरिः ।।
धर्मसंरक्षणार्थाय पूजितः स सुरासुरैः ।। 1.17 ।।

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।।
प्रोवाच सूरये साङ्‌ख्यं तत्त्वग्रामवि निर्णयम् ।। 1.18 ।।

षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया ।।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ।। 1.19 ।।

ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।।
सुत्रामाद्यैः सुरगणैर्यष्ट्वा स्वायम्भुवान्तरे ।। 1.20 ।।

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।।
दर्शयन्वर्त्म नारीणां सर्वाश्रमनमस्कृतम् ।। 1.21 ।।

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।।
दुग्धैर्महौषधैर्विप्रास्तेन संजीविताः प्रजाः ।। 1.22 ।।

रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे ।।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ।। 1.23 ।।

सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ।। 1.24 ।।

धान्वन्तरं द्वादशमं त्रयोदशममेव च ।।
आप्यायत्सुरानन्यान्मोहिन्या मोहयस्त्रिया ।। 1.25 ।।

चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम् ।।
ददार करजैरुग्रैरेरकां कटकुद्यथा ।। 1.26 ।।

पञ्चदशं वामनको भूत्वागादध्वरं बलेः ।।
पाद त्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ।। 1.27 ।।

अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् ।।
त्रिः सप्तकृत्वः कुपितो निः क्षत्त्रामकरोन्महीम् ।। 1.28 ।।

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।।
चक्रे वेदतरोः शाखां दृष्ट्वा पुंसोऽल्पमेधसः ।। 1.29 ।।

नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया ।।
समुद्रनिग्रहादीनि चक्रे कार्य्याण्यतः परम् ।। 1.30 ।।

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।।
रामकृष्णाविति भुवो भगवानहरद्भरम् ।। 1.31 ।।

ततः कलेस्तु सन्ध्यान्ते सम्मोहाय सुरद्विषाम् ।।
बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति ।। 1.32 ।।

अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राजसु ।।
भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः ।। 1.33 ।।

अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः ।।
मनुवेदविदो ह्याद्याः सर्वे विष्णुकलाः स्मृताः ।। 1.34 ।।

तस्मात्सर्गादयो जाताः संपूज्याश्च व्रतादिना ।।
पुराणं गारुडं व्यासः पुराऽसौ मेऽब्रवीदिदम् ।। 1.35 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमोऽध्यायः ।। 1 ।।