गणेशपुराणम्/खण्डः २ (क्रीडाखण्डः)/अध्यायः ०७७

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय ७७ प्रारंभ –
क उवाच ।
इति तद्वचनं श्रुत्वा क्रोधाद्वह्निकणान्वमन् ।
यथा सिंहो गजानीकं याति तद्वद्ययौ सुरान् १
सिन्धुर्मुष्टिप्रहारेण जघान बलसूदनम् ।
पपात स धरापृष्ठे वाताहत इव द्रुमः २
भालदेशे कुबेरं च हनौ च वरुणं यमम् ।
पृष्ठ देशे जघानासौ चक्राघातेन दैत्यराट् ३
तालुदेशे पावकं च मन्मथं लत्तयाऽहनत् ।
अनिलं पादघातेन शनैश्चरमपोथयत् ४
सोमं भौमं भ्रामयित्वा तत्याज भूतले बलात् ।
पृष्ठभागेऽहनच्चैव सनकं च सनन्दनम् ५
नासत्यौ नारदश्चापि कुत्रापि च पलायिताः ।
ततः पलायिता सर्वे दृष्ट्वा वीर्यं सुरास्तदा ६
पतिता मूर्छिताः केचिद्दैत्यश्चक्रेण माधवम्।
मुष्टिदेशे जघानासौ चक्रं तस्यापतद्भुवि ७
माधवो गदया मूर्ध्नि दैत्येशं तमताडयत्।
वंचयित्वा च शतधा गदां स्वां च व्यचिक्षिपत् ८
ज्ञात्वा पराक्रमं तस्य प्रोचे तं मधुसूदनः ।
वरयस्व वरं दैत्य यत्ते मनसि वर्तते ९
नैतादृशो मयाऽदर्शि पुरुषार्थोऽसुरे क्वचित् ।
ततोऽब्रवीद्दैत्यपतिः परमाह्लादसंयुतः 2.77.१०
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
गण्डकीनगरे मे त्वं परिवारयुतो हरे ११
सार्वकालं वस विभो नान्यं याचे वरं परम् ।
तत ऊचे महाविष्णुः स्थास्यामि नगरे तव १२
दत्तो वरो यतो नूनं ततोऽस्मि वशगस्तव ।
ततः स सत्यलोके च कैलासे वैष्णवे पदे १३
आस्थापयद्दैत्यपतीन्स्वयं शाक्रे पदेऽवसत् ।
तत्राप्यन्यं स्थापयित्वा रमापतियुतः स्वयम् १४
वाद्यन्दुन्दुभिनिर्घोषैः स्वपुरीं गण्डकीं ययौ ।
नुवन्ति बन्दिनस्तं तु नेदृशोऽभूत्पुमान्क्वचित् १५
येन विष्णुर्गृहं स्वीयं जित्वाऽनायि सुरान्बहून् ।
ददृशुर्नागरास्तस्य समीपे वरुणं हरिम् १६
कुबेरं देवमुख्यांश्च ततः स्वभवनं ययुः ।
ततः प्रोचे हरिं दैत्यो गण्डकीनगरे सुखम् १७
विहरस्वामरैः सार्द्धं ततः सोऽपि तथाऽकरोत् ।
परितो दूरतो दैत्यो दैत्यानन्यान्न्यवेशयत् १८
ततो देवा हरिं प्रोचुः किं कृतं गरुडध्वज ।
त्यक्त्वा स्वविक्रमं किं त्वं स्थितोऽत्यानन्दनिर्भरः १९
कथं कारागृहे प्राप्ता मृत्युलोकं गताः कथम् ।
कथमन्तो भवेदस्य भोगस्य जगदीश्वर 2.77.२०
तत ऊचे हरिः सर्वान्कालो हि दुरतिक्रमः ।
कालेन जायते सर्वं हृसते वर्धतेऽपि वा २१
तस्मात्कालं प्रतीक्षध्वं काल एनं ग्रसिष्यति ।
एवं जित्वा त्रिलोकीं स महाबलपराक्रमः २२
ततो दैत्यो जगौ सर्वं वृत्तान्तं पितरौ मुदा ।
आशिषं ददतुस्तौ च ज्ञात्वा पौरुषमस्य ह २३
ततो दैत्यो दुष्टमतिर्भूतले समघोषयत् ।
देवद्विजगवामर्चा क्रियते येन केनचित् २४
स हन्तव्योऽथवा साधुरानेयो मम सन्निधौ ।
प्रतिमा यत्र यत्र स्यात्तां भंक्त्वा निक्षिपेज्जले २५
ममैव प्रतिमां कृत्वा पूजयन्तु गृहे गृहे ।
प्राबोधयन्सिन्धुवचो दूता एवं स्थले स्थले २६
भंक्त्वा प्रासादमूर्तीश्च तोऽयेगाधे च चिक्षिपुः ।
सिन्धोश्च प्रतिमां कृत्वाऽस्थापयन्परमादरात् २७
पूजार्थं राक्षसाश्चापि ततो याता निजं पतिम् ।
ऊचुर्वैनायकहरहरिभानुरमादिकाः २८
प्रतिमाः प्रविभज्याशु क्षिप्ताः सर्वा महाजले ।
तवैव प्रतिमास्तत्र स्थापिता राक्षसा अपि २९
पूजार्थं स्थापिताः स्वामिन्नागताश्च तवान्तिकम् ।
एवं धर्मस्य सर्वस्य विच्छित्तिः समजायत 2.77.३०
यज्ञदानस्वधास्वाहावषट्कारान्न चाकरोत् ।
देवद्विजगुरूणां च पूजनं क्व च नाभवत् ३१
मेरुं याता ऋषिगणाः केचिद्भ्रंशमुपागताः ।
एवं त्रैलोक्यप्रबला दैत्या जाताश्च राक्षसाः ३२
विलीना निधनं प्राप्ताः साधवो देवतागणाः ।
यथा देवगणा मोक्षं सिन्धोः प्राप्ताः शृणुष्व तत् ३३ (३४३४)
इति श्रीगणेशपुराणे क्रीडाखण्डे सप्तसप्ततितमोऽध्यायः ।।७७।।