गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १३१-१३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १२६-१३० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः १३१--१३५
[[लेखकः :|]]
अध्यायाः १३६-१४० →

अध्याय १३१ वा :-
क उवाच ।
ततश्चिन्तां चकारासौ तत्र नेतुं तु बालकम् ।
तज्ज्ञात्वा प्राह तं नन्दी स्वामिन्युष्मत्प्रसादतः १
शोषयिष्ये समुद्रांस्तु चूर्णयिष्ये गिरीनपि ।
आज्ञापय ततो मह्यं भवान्कार्यं हृदि स्थितम् २
क उवाच ।
भणितं तस्य तच्छ्रुत्वा तुष्टः प्राह हरः स तम् ।
हर उवाच ।
साधु साधु त्वया प्रोक्तमाशयं मे विवृण्वता ३
पौरुषं ते मया ज्ञातं शतशो नन्दिकेश्वर ।
इदानीमथ यत्कार्यं वदामि तत्कुरुष्व भोः ४
माहिष्मत्यां महापुर्यामास्ते राजा महाबलः ।
वरेण्य इति विख्यातो नानाधर्मपरायणः ५
यस्य पत्नी महाभागा पुष्पिका नाम नामतः ।
तस्यां सद्यः प्रसूतायां सुप्तायां कापि राक्षसी ६
निन्ये बालं तत्पुरतो नेयो बालस्त्वया लघु ।
नीत्वा स्थाप्यस्तत्पुरतो यावन्निद्राति सा शुभा ७
क उवाच ।
एवमाज्ञां समाकर्ण्य शंकरेण समीरिताम।
शीघ्रं बालं समादाय नभोमार्गेण सत्वरः ८
प्राक्षिपत्पुरतो बालं सा न सुप्ता बुबोध तम् ।
शीघ्रमुड्डीय स प्रायान्नन्दिकेशो महेश्वरम् ९
उवाच निजवृत्तान्तं मार्गे स्वयमनुष्ठितम् ।
अकस्माद्गगनादेव राक्षसी घोरदर्शना २.१३१.१०
भक्षयन्ती बालमांसं मामाश्रित्य स्थिता विभो ।
तव प्रसादात्पुच्छेन वेष्टिता राक्षसी मया ११
भ्रामयित्वा विनिक्षिप्ता महापर्वतमस्तके ।
शतधा खण्डिता सा तु त्वन्नामोच्चारणात्प्रभो१२
ततोऽपश्यं महाव्रातं गन्धर्वाणां दुरात्मनाम् ।
कथं मया तैर्योद्धव्यं रक्षितव्यः कथं शिशुः १३
इति चिन्ताकुलतया स्मृतस्त्वं ह्रदि शंकर ।
ततः पुच्छेन शृङ्गाभ्यां क्रोधोच्छ्वासैश्च लत्तया १४
हुंकारेण च तान्सर्वान्निवार्य बलवत्तरान् ।
मृतः केचिभ्दुताः केचित्केचिद्भग्नशिरोङ्घ्रयः १५
पतिताः शतधा भूमौ पुष्पवृष्टिस्ततोऽपतत् ।
ततोहमगमद्देव कृत्वा कार्यं त्वयेरितम् १६
तवेच्छाविषयं को नु हन्यात्त्रैलोक्यमण्डले।
अस्त्वन्नामतो देव जयं प्राप्तः स बालकः १७
ततः शिवो हर्षयुतो लिलिङ्ग नन्दिकेश्वरम् ।
उवाच प्रसन्नात्मा ज्ञातं ते पौरुषं दृढम् १८
नास्ति त्रिभुवने कोऽपि त्वत्समो नन्दिकेश्वर ।
क उवाच ।
ततः प्रणम्य विश्वेशं पार्वतीमगमच्च सः १९
प्रणम्य तां योज्यहस्तौ प्रोचे मधुरया गिरा।
मातः शिवाज्ञया बालो नीतो माहिष्मतीं पुरीम २.१३१.२०
वरेण्यपत्न्याः पुरतः पुष्पिकाया न्यधायि सः ।
यतस्तेन पुनरादत्तो वरस्तस्य बभूव ह २१
अहं पुत्रत्वमेष्यामि ब्रह्मज्ञानप्रकाशकः ।
निशम्य वचनं तस्य सर्वज्ञा पार्वती तदा २२
जहर्ष जननी तस्य शिशोर्वीर्यमनन्तकम् ।
उवाच परया भक्त्या ज्ञातं ते पौरुषं सुत २३
हता त्वया महाघोरा राक्षसी घोरनिस्वना ।
गन्धर्वाश्च हता दुष्टा रक्षितश्चैव बालकः २४
अज्ञातस्थापितस्तत्र महाकार्यमिदं कृतम ।
इत्युक्त्वा विससर्जामुं विश्रान्तिं चाकरोत्तदा २५ (६०१४)
इति श्रीगणेशपुराणे क्रीडाखण्डे गन्धर्वजयो नामैकत्रिंशदुत्तरशततमोऽध्यायः१३१

अध्याय १३२वा
क उवाच ।
ततः कदाचिद्दैत्येन्द्रः सिन्दूरो मदगर्वितः ।
सभासनगतः प्राह वृथा मे पौरुषं कृतं१
इन्द्राऽदयो न मे युद्धं ददुर्ब्रह्मादयो हरिः ।
राज्ञां तु गणना नैव मृत्युलोकनिवासिनाम् २
कुलीनाया यथा नार्यां यौवनं हि पतिं विना ।
तथा मे पौरुषं व्यर्थं योद्धृभिर्हिविनाऽभवत् ३
ततोऽन्तरिक्षे वाणीं स शुश्राव परमाद्भुताम् ।
वाण्युवाच ।
किमर्थं वल्गसे मूढ जातोऽस्ति तव युद्धदः ४
पार्वत्या उदराद्गर्भो वरेण्यगृहगोऽधुना।
वर्द्धतेऽनन्तलीलोऽसौ यथेन्दुः शुक्लपक्षगः५
क उवाच ।
श्रुत्वेत्थं सहसा वाणीं मुमूर्छ सिन्दुरस्तदा ।
विहर्षश्चिन्तयामास किमिदं केन भाषितम् ६
यदि दृश्यो भवेन्मह्यं खादेयं तं समस्तकम् ।
कालस्य मे कथं मृत्युः पश्चात्सूर्योदयो यथा ७
एवमुक्त्वोदतिष्ठत्स गर्जयन्विदिशो दिशः ।
उड्डीय सहसा प्रायात्कैलासं गिरिजालयम् ८
चूर्णयत्पर्वतान्वृक्षान्पातयन्स्वाङ्गमारुतात् ।
चेलतुः कूर्मशेषौ च चकम्पे च वसुन्धरा ९
न ददर्श शिवं तत्र पुनः सर्वं सहां ययौ ।
बभ्राम वसुधां सर्वां शिवं वेगाद्गवेषयन् २.१३२.१०
पर्यल्याख्यं महारण्यमाजगाम रुषान्वितः ।
ददर्श दूरतो गौरीसहितं शंकरं तदा ११
मण्डपं च गणांश्चैव सरांसि चोत्पलानि च ।
ततो जगाम सहसारिष्टं गौर्यै प्रकल्पितम् १२
अदृष्ट्वा तत्र बालं स चुकोपाग्निरिव ज्वलन् ।
ततः स तर्कयामास न वाणी नभसो मृषा १३
अस्याः सुतो मां हि हन्यान्न जातश्चेद्भविष्यति ।
तस्मादेनां निहन्म्यद्य मूलच्छेदस्ततो भवेत् १४
क उवाच ।
एवं निश्चित्य मनसा ततः शस्त्रमुपाददे ।
यावदुमां हन्ति दुष्टस्तावद्दृष्टः शिशुः पुरः १५
चतुर्भुजोतिरुचिरो मुकुटाङ्गदभूषितः ।
परशुं कमलं मालां दधन्तं च तदद्भुतम् १६
कटौ शेषं गले हारं नूपुरौ चाङ्घ्रियुग्मयोः ।
निवृत्तस्तद्वधात्सद्यस्तां च सुप्ताममन्यत १७
दधार बालकं हस्तेऽकाङ्क्षत्क्षेमु महोदधौ ।
एवं निश्चितसंकल्पस्ततोऽसौ चलितः पुरा १८
ततः स बालो ववृधे हिमाचल इवापरः ।
सिन्दूरोऽपि चकम्पेऽसौ मदाभारातुरः क्षणात् १९
श्वासाकुलः पुरो गन्तुं न शशाक स्वशक्तितः ।
ततस्तत्याज तं बालं दैत्यो विह्वलतां गतः २.१३२.२०
बाले तु पतिते भूमौ महारावविराविणः ।
चेलुश्च पर्वता नादैश्चकम्पे च वसुन्धरा २१
बभ्रमुर्विहगा व्योम्नि नानारावविराविणः ।
अर्णवाः क्षोभिताः सप्त ब्रह्माण्डमपि पुस्फुटे २२
स बालः पतितो रेवाजलान्ते मुनिसन्निधौ।
तत्र तीर्थमभूच्छ्रेप्ठं गणेशकुण्डमित्युत २३
अस्या आजन्मतः पापं नाशमेति स्मृतेः क्षणात् ।
दर्शनाद्दशजन्मीयं स्नानाच्च शतजन्मजम् २४
सेवनं मोक्षदं यस्या अनुष्ठानवतां नृणाम् ।
तद्देहरुधिरात्तत्र प्रस्तरा रक्ततां महाः २५
त एव नार्मदाः ख्याता गणेशाः पापनाशनाः ।
दर्शनात्पूजनात्सर्वकामदा भक्तिकारिणाम् २६
नर्मदामहिमा सर्वो वर्णितुं नैव शक्यते ।
ततः स जह्रषे दैत्यो रिपुर्मे नाशतां गतः २७
तावत्कुण्डात्समुद्भूतो भीषणः पुरुषो महान् ।
जटाभारेण संछन्नो वल्लीछत्रोधरो यथा २८
दंष्ट्राकरालवदनो जिह्वाव्याली समावृतः।
दीर्घपाण्यङ्घ्रियुगल: श्वासव्याकुललोचनः २९
दृष्ट्वा तथाविधं तं तु क्रोधव्याकुललोचनः ।
उवाच दैत्यः सिन्दूरो न चास्य गणना मम २.१३२.३०
एवमुक्त्वा खड्गहस्तो ययौ हन्तुं तु तं रुषा ।
खड्गेन हन्ति तं यावत्तावत्स ददृशेम्बरे ३१
उवाच दैत्यं रे दैत्य वृथा मां त्यक्तवान्क्षितो।
तवान्तकस्तु रे मूढ वर्धितः क्वचिदेव हि ३२
हनिष्यत्येव नूनं त्वा साधुरक्षणतत्परः ।
अन्तर्दधे ततो भीम एवमुक्त्वा स पूरुषः ३३
ततो दैत्यो महारोषादुवाच निजसेवकान् ।
ध्रियतां ध्रियतामेष येनोक्तं परुष वचः ३४
यदा तं क्वाऽपि नापश्यत्तदा स्वस्थानमागमत् ।
द्रक्ष्यामि तं यदा शत्रुं जयिष्ये इत्यमन्यत ३५
एतावच्चरितं तस्य पावत्याऽज्ञायि नैव तत् ।
तस्यैव मायामोहेन प्राप्तया मोहमुत्तमम ३६
ततः प्रोवाच गिरिशं पार्वती विनयान्विता।
अत्र पीडा दैत्यकृता प्रारब्धा जगदीश्वर ३७
कैलासं गन्तुमिच्छामि तवेच्छा चेन्नयस्व माम् ।
एवमाकर्ण्य तद्वाक्यं जह्रषे शकरोऽपि च ३८
आरुह्य नन्दिनं सद्यः पार्वत्या सह शंकरः ।
सप्तकोटिगणाकीर्णः कैलासं प्राप तत्क्षणात् ३९
प्रविश्य स्वालयं गौरी परमं हर्षमाययौ २.१३२.४० (६०५४)
इति श्रीगणेशपुराणे क्रीडाखण्डे कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः ।१३२।।

अध्याय १३३ वा :-
व्यास उवाच ।
पुष्पिकानिकटे त्यक्तो वरेण्यस्य गृहे स किम् ।
चकार तन्ममाचक्ष्व कार्यं विस्तरतोऽब्जज १
क उवाच ।
सम्यक्पृष्टं त्वया वत्स हृदयानन्दकारकम् ।
कथयिष्ये विधानेन तत्सर्वं पापनाशनम् २
तस्यां निशायां व्युष्टायां ददर्श पुष्पिका सुतम् ।
चतुर्बाहुं रक्तवर्णं गजवक्त्रमलङ्कृतम् ३
कस्तुरीतिलकं मुक्तामालया सुविराजितम् ।
पीतवस्त्रपरीधानं चारुचन्दनचर्चितम् ४
देदीप्यमानं वपुषा नानालंकारसंयुतम् ।
ततः सा पुष्पिका दृष्ट्वा बालकं तु तथाविधम् ५
विस्मिता दुःखिता चापि भयभीताऽभवत्तदा।
घ्नती वक्षो बहिर्याता पाणिभ्यां शोककर्शिता ६
तदाक्रन्दितमाकर्ण्य मीलिताः परिचारिकाः ।
ताभिरत्यद्भुतं दृष्ट्वा बालकं तं तथाविधम्७
नृपोऽपि ज्ञातवृत्तान्तः सगणोऽभिययौ गृहे।
ततस्तेऽपि भयोद्विग्ना दृष्टवा बालं तथाविधम् ८
अधीराः पपलुस्तस्य केचिन्मूर्छामुपाययुः।
केचिच्च नृपतिं प्राहुर्न जातो न भविष्यति ९
न दृष्टो न श्रुतः क्वापि बाल एतादृशो नृणाम ।
नैवायं स्थापनीयस्ते वंशच्छेदकरो गृहे २.१३३.१०
एवमाकर्ण्य सर्वेषां वाक्यं मेने स भूपतिः ।
दूतानुवाच बालोऽयं त्यज्यतां गहने वने ११
ततो दूता गता मध्ये गृहीत्वा बालकं तु तत् ।
गहनं काननं दृष्टवा वायुस्पर्शविवर्जितम् १२
तीरे तु सरसस्तत्र क्षिप्त्वा ते पर्णसंचयैः ।
आच्छाद्य प्रययुः शीघ्रं वरेण्यं नृपतिं पुनः १३
सभामध्ये नृपं दृष्ट्वा नमस्कृत्वाऽब्रुवंस्तदा ।
आज्ञया तव राजेन्द्र सिंहव्याघ्रनिषेविते १४
त्यक्त्वा बालं समायाता भक्षितस्स्याद्वनेचरैः।
क उवाच ।
यावच्च भक्षितुं याता जम्बुकास्तावदेव तम् १५
पराशरो मुनिवरो ददर्श करुणानिधिः ।
चतुर्भुजं गजास्यं तं कोटिसूर्यनिभं शिशुम् १६
नानालंकारसंयुक्तं दिव्याम्बरविभूषितम् ।
सर्पवेष्टितसन्नाभिं चिन्तामणिविभूषितम् १७
मुमोह मायया तस्मै सर्वज्ञाननिधिर्मुनिः ।
शुशोच किमिदं विघ्नं मम नाशाय निर्मितम् १८
इन्द्रेण मे तपोनाशं कांक्षता स्वार्थसाधनम् ।
अकारि न मया किंचिद्दुष्कृतं पापभीरुणा १९
दीननाथ चन्द्रचूड रक्ष मां महतो भयात् ।
एवं शोचन्तमालोक्य गजास्यः करुणायुतः २.१३३.२०
निराकरोन्मोहजालं तं ततोऽलक्षयत्पुरः ।
तमेव परमात्मानं परब्रह्मस्वरूपिणम् २१
भक्तानां रक्षणं कर्तुमीदृशं वेषमास्थितम् ।
धन्यं मेऽद्य जनुर्मातापितरौ च तपो महत् २२
निरस्तौ जन्ममृत्यू मे प्राप्तं वांछितमुत्तमम् ।
केनायं हतभाग्येन बालस्त्यक्तो वनान्तरे २३
क उवाच ।
एवमुक्त्वा मुनिः सोऽथ निन्ये बालं स्वमाश्रमम् ।
वत्सलाऽस्य ततः पत्नी दृष्ट्वा बालं तथाविधम् २४
आनीतं स्वामिना ज्ञात्वा ननन्द स्नेहनिर्भरा ।
हृदये विनिवेश्यैनं प्राह प्राणपतिं तदा २५
बहुकालकृतं स्वामिंस्तपस्ते फलितं गुरु ।
यस्य स्वरूपं न ब्रह्मा न हरो न श्रियः पतिः २६
मुनयो न विदुः साक्षाद्दर्शनं जातमद्य नौ ।
यः कर्ता रक्षिता हन्ता सर्वस्य जगतः प्रभुः २७
अवतीर्णो भुवो भारं हर्तुं नानावतारकृत् ।
महद्भाग्यं हि नौ स्वामिन्ननायासेन विश्वभृत् २८
अक्षिगोचरतां यातो मनोवाचामगोचरः ।
क उवाच ।
तस्य बालस्य स्पर्शेन स्तनौ पीनपयोधरौ २९
जातौ पपौ ततो बालः सा चानन्दमवाप ह।
ततः शुश्राव राजाऽसौ वरेण्यो बालकं तु तम् २.१३३.३०
पराशरेण मुनिना पालितं दिव्यचक्षुषा ।
वाद्यघोषेण महता शर्करां च गृहे गृहे ३१
दापयामास हर्षेण ब्राह्मणान्सुहृदोऽपि च ।
तोषयामास वस्त्राद्यैः कांचनै रत्नसंचयैः ३२
गावः कामदुघा जाताः शुष्कवाप्यो जलान्विताः ।
आश्रमे तु मुनेस्तस्य शुष्कवृक्षाः फलान्विताः ३३
य इदं शृणुयान्मर्त्यः पुत्रवान्धनवान्भवेत् ३४ (६०८८ )
इति श्रीगणेशपुराणे क्रीडाखण्डे पराशरदर्शनं नाम त्रयस्त्रिंशोत्तरशततमोऽध्यायः ॥१३३॥


अध्याय १३४ प्रारंभः –
क उवाच ।
बालः स ववृधे तत्र दिवसे दिवसे शशी ।
आनन्दं जनयन्मातुः पितुश्च चरितैः स्वकैः १
व्यास उवाच ।
वद ब्रह्मन्गुणेशस्य चरितं द्वापरोद्भवम् ।
श्रुत्वा पूर्वचरित्राणि न तृप्तिर्मेऽभवत्प्रभो २
गजाननेति नामास्य वाहनं मूषकः कथम् ।
एतत्सर्वं सविस्तारं वद मे चतुरानन ३
क उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं भार्गवस्य कवेरपि ४
एवमेव पुरा पृष्टः प्रह्लादेन महामुनिः।
तस्मै प्रोवाच भगवान्कविस्तच्छृणु सांप्रतम् ५
शृणु प्रह्लाद येनास्य वाहनं मूषकोऽभवत् ।
तदहं संप्रवक्ष्यामि श्रवणात्सर्वकामदम् ६
पुरा शक्रसभामध्ये क्रौञ्चौ गन्धर्वसत्तमः ।
वामदेवमुनिं सोऽथ त्वरावान्प्रपदाऽहनत् ७
स शशाप च गन्धर्वं मूषकस्त्वं भविष्यसि ।
कल्पयिष्यति वाहत्वे त्वामाक्रम्य गुणेश्वरः ८
स एव करुणायुक्तो मोक्षं नेष्यति विश्वकृत् ।
पराशराश्रमे सोऽथ पपात मूषकाकृतिः ९
गिरिशृंगनिभो घोरो महारोमा महानस्वः ।
महावीर्यो महादंष्टो महास्वनविराजितः २.१३४.१०
तस्याश्रमे महाघोरमुपद्रवमथाकरोत् ।
भक्षयामास धान्यानि भङक्त्वा मृत्पात्र- संचयान् ११
पुस्तकानि च वस्त्राणि वल्कलानि महान्त्यपि ।
स सारभूतं यत्सर्वं भक्षयामास मूषकः १२
पुच्छाघातेन वृक्षान्स पातयामास भूतले ।
चुञ्चुकारेण शब्देन गर्जयामास विष्टपम् १३
ज्ञात्वा तथाविधं तं तु चिन्तामाप मुनीश्वरः ।
दुर्जनस्य बलात्कारैः स्थानं त्याज्यं न संशयः १४
अधुना क्वानुगन्तव्यं कस्मिन्स्थाने सुखं भवेत् ।
प्राणत्यागे महद्दोषं वदन्ति शास्त्रचि- न्तकाः १५
कथं मुखाश्रमे दुःखे प्राप्तं कमप्रसंगतः ।
कस्य वा स्मरणं कार्यं को वा दुःखात्प्रमोक्ष्यति १६
क एनं नाशयेदत्र कः समर्थो भवेद् वधे ।
कमद्य शरणं यायां को नस्त्राता भविष्यति १७
एवं पितृवचः श्रुत्वा बालकोऽनन्तविक्रमः ।
उवाज मधुरं वाक्यं चिन्तां मा कुरु सर्वथा १८
मयि तिष्ठति दुष्टानां संहारिणि महाप्रभौ ।
पुत्रतां ते प्रयातोऽस्मि विधास्ये ते प्रियं तु यत् १९
यस्य मे क्रन्दितेनेयं पृथिवी शीर्णतामियात् ।
पर्वताश्चूर्णंतामापुः पादाघातेन मे मुने २.१३४.२०
पश्य मे कौतुकं तात नयाम्येनं तु वाहताम् ।
एवमुक्त्वाऽसृजत्पाशं कोटिसूर्यनिभं शिशुः २१
मेघेष्विव तडित्पुञ्जः शुशुभे सोऽन्तरिक्षगः ।
तत्यजुर्भयतो देवा स्वानि धिष्ण्यानि तत्क्षणात् २२
स ययौ वह्निवदनो दशदिग्भ्रमणे रतः ।
पाताले मूषकं कण्ठे बद्ध्वा बहिरकाशयत् २३
मूर्छामवाप महतीमाखुः पाशबलार्दितः ।
शुशोच परमक्रुद्धो निरुद्धश्वासमारुतः २४
कथं कालस्य मरणमागतं दैवनिर्मितम्. ।
भवितव्यं भवत्येव पुरुषार्थो निरर्थकः २५
येन दंष्ट्राग्रमात्रेण दारिताः पर्वता बहु ।
न मया गणिता देवा नासुरा राक्षसा नराः २६
तस्य मे केन पाशेन कण्ठोऽक्रामि गतायुषः
क उवाच ।
मूषके प्रब्रुवत्येवं यावत्तावद्गजाननः २७
चकर्ष मनसा तं स सोऽगान्मूषकसंयुतः ।
यथा गारूडशास्त्रज्ञः सर्पं कर्षति तत्क्षणात् २८
स तं दृष्टवा पाशकण्ठो मूषको लब्धधीः क्षणात् ।
नमस्कृत्य विभुं देवं गजाननमनामयम् २९
तुष्टाव परया भक्त्या चिदानन्दघनं प्रभुम् ।
त्वमेव जगतां नाथः कर्ता हर्ता प्रपालकः २.१३४.३०
गुणत्रयविहीनश्च गुणत्रयसहायकृत् ।
मायातीतोऽपि मायावी मायिनामपि मोहकृत ३१
ब्रह्मादीनामगम्यस्त्वं मुनिहृत्पद्मसंस्थितः।
करण करणं कर्ता कारणानां च कारणम् ३२
सोऽद्य दृष्टः स्वचक्षुर्भ्यांमतो धन्यं जनुर्मम ।
धन्या मे पितरौ नेत्रे तपो विद्या व्रतं जपः ३३
क उवाच ।
एवमाकर्ण्य तद्वाक्यं प्रीतोऽसौ द्विरदाननः ।
प्राह भक्तिं दृढां ज्ञात्वा भक्तं तं मूषकं विभुः ३४
तवैव पुरुषार्थेन देवद्विजद्रुहोऽनघ ।
निर्गुणोऽहं गुणी जातो दुष्टनाशनहेतवे ३५
साधूनां रक्षणार्थाय यतस्त्वं शरणं गतः ।
अतस्ते दत्तमभयं वरं शृणु यमिच्छसि ३६
मूषक उवाच ।
नाहं वृणे गजास्य त्वां त्वमेव वृणु वांछितम् ।
क उवाच ।
इत्युक्तो मूषकेनासौ गर्वितेन गजाननः ३७
वाहतां मम याहि त्वं यदि सत्यं वचस्तव ।
तथेत्युक्ते स पिगाक्षो रुरोहाक्रम्य तत्क्षणात् ३८
भारेण चूर्णयंस्त्वं तु पुनर्देव स याचत ।
अहं ते वाहनं जातो लघुभूतो भव प्रभो ३९
याचतस्तस्य वचसा लघुभारोऽभवद्विभुः ।
एतद्दृष्टवा महाश्चर्यं प्रणम्य मुनिरब्रवीत् २.१३४.४०
ना बाले पौरुषं क्वापि मया दृष्टं जगत्त्रये।
यच्छब्दात्पर्वताः शीर्णा लोकपालाश्च्युतस्थलाः ४१
स त्वया क्षणमात्रेण नीतो वाहनतां बलात् ।
तत आगत्य माताऽस्य वत्सला गृह्य तं शिशुम् ४२
प्रस्नुतौ पाययामास स्तनौ माता मुदा युता ।
उवाच न च जाने ते स्वरूपं च पराक्रमम् ४३
जन्मजन्मान्तरीयेण पुण्येन नौ गृहं गतः ।
ततः स मूषकं बद्ध्वा चिक्रीडे प्राकृतो यथा ४४
एवं ते कथिता चास्य यथा मूषकवाहता ४५ ( ६१३३)
इति श्रीगणेशपुराणे क्रीडाखण्डे चतुस्त्रिंशाधिकशततमोऽध्यायः ।। १ ३४।।

अध्याय १३५ प्रारंभः-
व्यास उवाच ।
किमनेन कृतं पूर्वं पुण्यं पापं च पद्मज ।
येनायं मौषकं जन्म पाप देवस्य वाहताम् १
क उवाच ।
सम्यक्पृष्टं त्वया वत्स ममापि मनसः प्रियम् ।
ब्रवीमि सकलं तच्च तदिहैकमनाः शृणु २
सुमेरुशिखरे रम्यः सौभरेराश्रमो महान ।
अभूद्वक्षसमाकीर्णो नानापक्षिगणान्वितः ३
वसिष्ठाद्या मुनिगणा देवा इन्द्रपुरोगमाः ।
आयन्ति सौभरस्तस्य दर्शनार्थं दिने दिने४
महत्तपोवृद्धिदीप्तेरत्यग्निरवितेजसः ।
ख्यातस्य सर्वलोकेषु ध्याननिष्ठस्य चेश्वरे ५
तस्य पत्नी महाभागा मनोमयीति विश्रुता ।
पतिव्रतासु सर्वासु विख्याता भर्तृवल्लभा ६
रम्यता तु रतेस्तस्या जिता रम्यतयाऽखिला।
शचीप्रभृतयः सर्वा न प्रापुः समतालवम् ७
कदाचित्सौभरिर्होमशालायां प्रातरुत्थितः ।
कृत्वा होमं वनं यातः समिदर्थं गृहे स्थिता ८
मनोमयी सुशीला सा गृहकार्यरताऽभवत् ।
तदा दुष्टस्तु गन्धर्वः क्रौंचनामा समागतः ९
विश्रान्तिरभवत्तस्य दृष्ट्वाश्रममनुत्तमम् ।
नानाशालासमाकीर्णं बहुच्छायं सुशीतलम् २.१३५.१०
एतादृशो रम्यतर आश्रमो यस्य स प्रभुः ।
धन्यं जपस्तपस्तस्य क्षणेनायं सुखप्रदः ११
चिरस्थानान्मुक्तिदः स्यादित्युक्त्वा तद्गृहं ययौ ।
ददर्श मुखचन्द्रं स मनोमय्या मनोरमम् १२
यस्या दर्शनमात्रेण हरोऽपि स्मरसाद्भवेत् ।
तस्याः कटाक्षपातेन मदनानिलविह्वल: १३
स बभूव तदासक्तो दधार सहसा करे।
तत्करस्पर्शमात्रेण चकम्पे सा मुमूर्छ च १४
मनोमयी न शशाप भर्तृस्मरणतत्परा ।
म्लाना च शुष्ककण्ठा च सस्वेदाक्षिस्रवज्जला १५
बभूव परमोद्विग्ना मुमोह च शुशोच च ।
कमद्य शरणं यामि कोऽस्माद्दुष्टात्प्रमोक्ष्यते १६
न कृतं दुष्कृतं किंचिदिहजन्मनि संस्मरे ।
जन्मान्तरीयपापेन सुखदुःखमुपस्थितम् । १७
दुष्टभावं तु तं ज्ञात्वा सान्त्वयन्त्यब्रवीदिदम्।
अहं दुहितृतुल्या ते जनकेन समोऽसि मे १८
ज्ञानवानसि पापे त्वं मा वर्तस्व गतत्रप।
पापिनो यान्ति नरकं वर्षकोटिगणान्बहून् १९
तस्मान्मुंच महाभाग कृपणां पुत्रिकोपमा।
नो चेदहं करिष्यामि प्राणत्यागं न संशयः २.१३५.२०
स्त्रीहत्यादोषसंभूतं पापं ते स्यान्महत्तरम् ।
मम भर्ता महाभागो वनादायास्यतेऽधुना २१
तस्य क्रोधानलस्त्वां हि भस्मत्वं नेष्यते क्षणात् ।
विज्ञानां तस्य नो किंचित्कार्यं कार्य मया लघु २२
नो चेत्त्वां भस्मसात्कुर्या सृष्टिं च ब्रह्मणोऽपि च ।
एवं वदन्त्यां तस्यां तु सौभरिः समुपागतः २३
तं दृष्ट्वा स्वांगणगत मध्याह्नरविसन्निभम् ।
मुमोच तेजसा तत्र धर्षितोऽसौ करं तदा २४
अधोऽपश्यच्चकम्पे च मम्लाय च विभाय च ।
मुनिः प्रोवाच सहसा प्रलयाग्निरिव ज्वलन् २५
उत्ससर्ज तदा शापं गन्धर्वं प्रति दुःसहम् ।
मुनिरुवाच ।
असमक्षं यतो मे त्वं पत्नीं धर्षितवानसि २६
असमक्षचरो मूढ मूषकस्त्वं भविष्यसि ।
चौरवत्पृथिवी दार्यं स्वोदरं पूरयिष्यसि २७
क्रौंच उवाच ।
न मया बुद्धिपूर्वं ते धर्षितेयं मनोमयी ।
प्रसंगादभवत्संगो दृष्ट्वेमां चाररूपिणम् २८
करमात्रधृता चेयं तावत्त्वमपि दृष्टवान्।
तेजसा ते प्रभीतेन मया मुक्ताऽनघा मुने २९
अतोऽपराधं मे क्षन्तुमर्हसि त्वं कृपानिधे ।
कुरुष्वानुग्रहं महयं शरणागतवत्सल २.१३५.३०
अहं त्वां शरणं यामि कृपां कुरु ममोपरि ।
त्रैलोक्ये नेदृशी दृष्टा पतिव्रत्यगुणान्विता ३१
मुनिरुवाच ।
प्लवते सागरे मेरुरुदियात्पश्चिमे रविः।
न मे वचोऽन्यथा भूयाद्वह्निः शीतत्वमाप्नुयात् ३२
अथापि प्रब्रवीम्यद्य दुष्ट तच्छृणु सादरम् ।
पराशरगृहे देवी द्वापरेऽवतरिष्यति ३३
गजानन इति ख्यातस्तस्य वाहत्वमेष्यसि ।
तदा ब्रह्मादयो देवा मानयिष्यन्ति सादरम् ३४
तस्य हस्तगतः स्वर्गं पुनरेष्यसि सत्वरम् ।
एवमाकर्ण्य तद्वाक्यं दुःखहर्षसमन्वितः ३५
क उवाच ।
पपात पृथिवीपृष्ठे महामूषकरूपधृक् ।
पराशरस्याश्रमे तु द्वापरे समुपस्थिते ३६
महाबलो महावीर्यो महापर्वतसन्निभः ।
मुनेराशीर्बलेनासौ गजाननसमीपगः ३७
अभवद्वाहरूपेण मूषकोऽसौ महाबलः ।
एतत्ते कथितं सर्वं यन्मे पृष्टं त्वयाऽनघ ३८
गजाननस्य वाहत्वं मूषकस्य यथाऽभवत् ।
मुनिरुवाच ।
सिन्दूरस्य वधं ब्रह्मन्कथं स कृतवान्विभुः ३९
गणेशस्तन्ममाचक्ष्व विस्ताराच्चतुरानन ।
श्रुत्वा वाचो न मे तृप्तिर्जायतेऽमृतपानवत् २.१३५.४०
भक्त्या शृणोमि देवेश सर्वज्ञस्त्वं वदस्व मे ४१ (६१७४)
इति श्रीगणेशपुराणे क्रीडाखण्डे क्रौञ्चशापवर्णनं नाम पंचत्रिशोत्तरशततमोऽध्यायः ॥१३५॥