सामग्री पर जाएँ

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ११६-१२०

विकिस्रोतः तः
← अध्यायाः १११-११५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ११६--१२०
[[लेखकः :|]]
अध्यायाः १२१-१२५ →

अध्याय ११६ प्रारंभ :-
क उवाच ।
जयं प्राप्ते मयूरेशे ययुस्तत्र मुनीश्वराः ।
शिवोऽपि गिरिजायुक्तो ययौ तं च निरीक्षितुम्१
औत्सुक्यात्पार्वती चैनं समालिंग्याब्रवीत्तदा ।
पार्वत्युवाच ।
अतिश्रान्तोऽसि दैत्यस्य कठिनस्य रणं सुत २
कोमलानि तवांगानि कथं शस्त्राणि सेहिरे ।
कृतान्तसदृशो दैत्यो मायावी बलवत्तरः ३
स कथं कोमलांगेन त्वया युधि विनिर्जितः ।
पारुदत्करुणं देवी धृत्वांगं निजबालकम् ४
ततो मुनिगणाः शम्भुर्वारयामास तां शिवाम् ।
शिव उवाच ।
न जानीषे मयूरेशं सर्वकारणकारणम् ।
अनादिनिधनं देवं वेदान्तागोचरं विभुम् ।
त्रयस्त्रिंशत्कोटिदेवैर्नुतं देवारिदारणम् ६
सृष्टिस्थितिज्ञानहेतुं लयहेतुमनामयम् ।
भूभारोत्तारणार्थाय नानारूपधरं परम् ७
ब्रह्माण्डव्याप्तरोमांकमेकानेकस्वरूपिणम् ।
तपोबलसमायुक्तं योगशास्त्रसमन्वितम् ८
 मायाविभेदकं देवं मायिनामपि मायिनम् ।
बालभावेऽपि दैत्यानां हन्तारं किं न वेत्सि तम् ९
क उवाच ।
एवं स्तुतिं समाकर्ण्य दृष्टा सा पार्वती तदा ।
ततो दृष्टो मयूरेशो मुनीन्प्राह शिवं शिवाम २.११६.१०
मयूरेश उवाच ।
न भयं वज्रहस्तान्मे अन्यस्मात्तत्कथं भवेत् ।
सर्वेषां नमनान्मातर्मुनीनामाशिषोऽपि च ११
शिवस्य वरदानेन सिन्धुदैत्यो जितो मया ।
स्कन्दादयो जिता येन युध्यन्ते न हि तेन ते १२
असंख्याता हता देवा दैत्यसेनाचरैर्नरैः ।
असृग्नद्यः संप्रवृत्ता वीरहर्षकरा बहु १३
रणे निपतितान्देवान्विचिन्वामो मुनीश्वराः ।
क उवाच ।
एवं मयूरेशवचो निशम्य प्राह धर्मवित् १४
वसिष्ठो मुनिवर्यस्तं यामः सर्वे चलन्तु वै ।
ततो ययौ रणे द्रष्टुं मुनिभिस्तैर्मयूरराट १५
मज्जारक्तवसागन्धो घ्रातुं यत्र न शक्यते ।
अतिभीषणकायां स्तांश्छिन्नभिन्नाननेकशः १६
दृष्ट्वा बीभत्सरूपांस्तान्प्रफुल्लान्किंशुकानिव ।
विकृतिं परियातानि मनांसि दानवद्विषाम् १७
पश्यतां वीरराशींस्तान्वीरोपरि प्रतिष्ठितान् ।
कांश्चिच्च जीवतः कांश्चिन्मूर्छिताञ्शस्त्रवाततः १८
कांश्चिच्च प्रविशीर्णांगान्देवान्देवा व्यकर्षयन् ।
सहसा न विदुर्देवा देवान्वा दानवानपि १९
अब्रुवंस्तत्र केचिच्च त्वदर्दं मृत्युमागताः ।
अन्ते ते दर्शनं प्राप्तमित्युक्त्वा व्यसृजन्नसून् २.११६.२०
क उवाच ।
एवं श्रुत्वा तु तद्वाक्यं साश्रुकण्ठो मयूरराट् ।
भ्रमन्भ्रमन्ददर्शाग्रे मूर्छितं तु षडाननम् २१
पतदश्रुर्मयूरेशः स्नेहात्तं चाब्रवीदिति ।
उत्तिष्ठोतिष्ठ भद्रं ते किं शेषे प्राकृतो यथा २२
श्रान्तोऽसि दैत्यहननाद्यच्छालिंगनमद्य मे ।
प्रमार्जितस्तु हस्तेन ततः स प्रोदतिष्ठत २३
अपश्यन्निकटे देवपादपद्मं भयापहम् ।
उवाच च मयूरेशं दर्शनात्ते गतं मम २४
सर्वदुःखं श्रमश्चैव विश्रान्तश्चास्मि साम्प्रतम् ।
आलिलिंग मयूरेशं दोर्भिर्द्वाशभिस्तदा २५
उभौ यातौ रणं द्रष्टुं गृहीत्वा च परस्परम् ।
अपश्यतां पुरः सुप्तं वीरभद्रमिषुक्षतम् २६
नन्दिनं च शराघातैः पीडितं बलवत्तरम् ।
भूतराजं च पुरतो विभिन्नमस्तकं तदा २७
क्रन्दन्तं विकटं चैव पुष्पदन्तं भृशार्दितम् ।
ललाटे दृढविद्धं च हिरण्यगर्भमेव च २८
मृतप्रायं च चपलं मृतं श्यामलमेव च ।
लम्बकर्णो न चाज्ञासीद्भ्रान्त्या कंचन संगरे २९
उदानवायुनाक्रान्तः सुमुखस्तत्र चाभवत् ।
परमं खेदमापन्नः सोमश्च रक्तलोचनः २.११६.३०
शेते स्म मूर्छयाः भृंगी पंचास्यश्च मुमूर्षया ।
शंखः प्रेतत्वमापन्नो भयकृत्सर्वयोधिनाम् ३१
एवं दृष्ट्वा सर्ववीरान्हतप्रायान्हतानपि ।
चिन्तया परयाविष्टो पप्रच्छ तं षडाननम् ३२
मयूरेश उवाच ।
असुराश्च स्वकीयाश्च महावीरा हता मृधे।
निजधामगताः सर्वे जीवतामत्र का गतिः ३३
स्कन्द उवाच ।
अनन्तकोटिब्रह्माण्डनायकस्त्वं गुणेश्वर ।
चतुर्दशानां विद्यानां सर्वासां च स्वयं निधिः ३४
कलानां तत्र कि प्रश्नं करोषि त्वं ममान्तिके ।
नाहं मन्त्रं विजानामि वेत्थ त्वं हि न वै सुराः ३५
विवर्धयसि कीर्तिं त्वं नानादैत्यविभंजनात् ।
यथामति ब्रवीमि त्वामाज्ञया च स्मृतेर्बलात् ३६
पूर्वं तु त्रिपुरवधे शिवेन युद्धमद्भुतं ।
कृतं तत्र मृतान्देवान्द्रोणाद्रिवल्लिजं रसम् ३७
देवक्षतेषु संयोज्य जीवयामास तत्क्षणात् ।
क उवाच ।
श्रुत्वेत्थं वचनं देवो जगाद तं षडानम् ३८
इदानीं दैत्यकोट्यस्तु युद्धार्थं बलवत्तराः ।
आयास्यन्ति तदा कोऽत्र युद्धेत्ताभिः षडानन ३९
कश्चानेतुं व्रजेदद्रिं वल्लीरसमनुत्तमम् ।
एवं ब्रुवन्मयूरेशो मायामाविश्चकार ह २.११६.४०
उज्जीवयामास तदा निजांगवायुमंगतः ।
ततस्ते हर्षसंपन्नाः प्रणेमुस्तं गुणेश्वरम् ४१
आलिलिंगुः पुनरुयुद्धं कर्तुं तं च विजिज्ञपुः ।
त्वद्दृष्टिविनिपातेन तेजो नो द्विगुणीकृतम् ४२
गुणेश्वर उवाच ।
ब्रह्मादयो देवगणाः स्तुवन्ति वः पराक्रमम ।
तारकासुरमुख्याश्च निहता दैत्यदानवाः ४३
क उवाच ।
ततस्तैः सहिता देवैर्मयूरेशः शिवं ययौ ।
नमस्कृत्य शिवं गौरीं युद्धाय गन्तुमुद्यतः ४४
आलिलिंग मुदा गौरी शिवस्तं च गुणेश्वरम् ।
ततः षडाननाद्यास्ते शिवमालिंगिरे मुदा ४५
वयं रणे निपतिताः पुनः संजीविता हर ।
मयूरेशांग संभूतवायुनाऽद्भूतकारिणा ४६
पुनर्युद्धाय यास्यामोऽनेन सार्द्धं शिवाधुना ।
प्रसादात्तव जेष्यामः सर्वानेवासुरान्युधि ४७ (५२७२)
इति श्रीगणेशपुराण क्रीडाखण्डे रणशोधनं नाम षोडशाधिक शततमोऽध्यायः ॥११६॥

अध्याय ११७ प्रारंभ :---
क उवाच ।
सिन्धुस्तल्पगतश्चिन्तामवाप महतीं तदा ।
अग्निसंतप्तहृदयो विचार नान्वपद्यत १
निर्हर्षो म्लानवदनो निस्तेजः निष्कलोऽपि सः ।
तत उग्रात्मजा दुर्गा लावण्यलहरी शुभा २
चिन्ताशाविषदग्धं तं श्रुत्वाऽगान्मंचकस्थितम् ।
असंख्यभूषणं र्यास्स्यिाः कबरी भाति मस्तके ३
कस्तूरीतिलकं यस्या ललाटे भाति सुन्दरम् ।
कण्ठे हारं कटौ कांञ्चि बिभ्रतीं रत्नसंयुताम् ४
सर्वालंकारसंयुक्तां सर्वावयव सुन्दराम् ।
आगतां तु निरीक्ष्यैव मंचकाभ्याशमुत्सुकाम् ५
बहिस्तत्सेवका यातास्ततः सा पतिमब्रवीत् ।
दुर्गोवाच ।
किं चिन्तां कुरुषे स्वामिन्यद्भाव्यं तद्भविष्यति ६
ईश्वरस्य वशे लोको न स्वतन्त्रः कदाचन ।
सर्वेषां मानसं त्वं किमुद्वेजयसि मेऽपि च ७
को हेतुस्ते वद विभो ततो युक्तिं वदामि ते।
क उवाच ।
प्रिया वाक्यं समाकर्ण्य गण्डकीनायकस्तदा ।
सावधानमना भूत्वा वृत्तान्तं तामथाब्रवीत् ।
सिन्धुरुवाच ।
किं वदामि प्रिये श्लाघ्ये मनःखेदकरं परम् ९
युध्ततो मे रणे कर्णौ मयूरेशेन सादितौ ।
सप्तकोटिमिता सेना निहता पौरुषेण ह २.११७.१०
स्कन्दादयो महावीराः पतिताः शरवृष्टिभिः ।
अकस्मान्मे हतौ कर्णौ त्रिशूलं प्रेष्य शत्रुणा ११
आच्छाद्य मुखमायातो वाससा निजमन्दिरम् ।
येनोपायेन मे शत्रुवधः स्यात्तं वदस्व मे १२
दुर्गोवाच ।
वीरधर्मः कृतः सम्यङ्निहताः सर्वसैनिकाः ।
न यशः प्राप्यते स्वामिन्गोब्राह्मणसुरद्विषाम् १३
तद्द्वेषाच्चैव कल्याणं कस्यापि हि न जायते ।
सेवनाद्वन्दनाद्ध्यानात्स्मरणात्पूजनादपि १४
देवैरिन्द्रादिभिः स्थानान्याप्तानि च स्थिराणि च।
यः समः सर्वभूतेषु शुभाशुभफलप्रदः १५
तत्सेवयाऽभिष्टसिद्धिः कामधेनोरिवाभवत् ।
अङ्कुरो जायते तादृग्यादृग्बीजं हि उप्यते १६
अशुभात्कर्मणो दुःखं सुखं स्याच्छुभकर्मणः ।
अतः सन्तः प्रकुर्वन्ति शुभम् कर्मं सदादरात् १७
हितं च सर्वजन्तूनां कायेन मनसा गिरा।
भवता पुरुषार्थेन पीडितास्ते सुरर्षयः १८
पुरुषार्थः स विज्ञेयो यश्चतुर्णां हि साधकः ।
यन्मनोनार्थलुब्धं स्यात्परदारेषु न क्वचित् १९
स एव पुरुषार्थः स्याद्यश्चानिन्द्यं न निन्दति ।
शरणागतरक्षायां दृढो धर्मपरायणः २.११७.२०
समः सर्वेषु भूतेषु पुरुषार्थः स गम्यते ।
स्वामिन्मे परमं वाक्यं शृणु ते हितकारकम् २१
अदुष्टवाक्सत्यशीलः स्वगुणानामकीर्तकः ।
परोपकरणे सक्तः परपैशून्यवर्जितः २२
तत्कुरुश्व महाभाग मम प्रीतिं यदीच्छसि ।
मोचयस्व सुरान्सर्वान्प्रबद्धाञ्शक्रसंयुतान् २३
प्रयास्यति मयूशोऽखिललोकप्रपालकः ।
वत्स्यावः सुसुखं स्वामिन्नान्यथा तु सुखं भवेत् २४
क उवाच ।
एवं वाक्यामृतं तस्यास्तदभूद्विषसन्निभम् ।
मुमूर्षोरौषधं यद्वद्ग्रहरोगाप्लुतस्य ह २५
क्रोधसंरक्तनयनो दुर्गां तां सिन्धुरब्रवीत् ।
न दध्रे हृदि तस्याः स उपदेशं हितावहम् २६
सिन्धुरुवाच ।
सम्यगुक्तं त्वया भद्रे लोकनिन्दाकरं वचः ।
चातुर्यं तव विज्ञातं कार्याकार्यंविदा मया २७
न शत्रुं भजते कोऽपि रिपुर्मानपरायणः ।
नारभेत्कृत्यमन्याय्यमारब्धं चेन्न तत्त्यजेत् २८
ततो दुःखं सुखं वा स्यादयशो यश एव च ।
लाभो वाप्यथवाऽलाभो जीवनं मृत्युरेव वा २९
पूर्वं भद्रे मया सन्धिः साम्ना तेन न वै कृतः ।
इदानीं भविता यद्यत्तद्भवत्येव सर्वथा २.११७.३०
पूर्वमेव हि यज्जन्तोर्लिखितं साध्वसाधु वा ।
कश्चिन्न पुरुषार्थेन कर्तुं शक्तोऽन्यथा सति ३१
रणे मृतस्य स्वर्गोथ ख्यातिः स्याद्विष्टपत्रये ।
यातस्य शरणं शत्रारेयशो नरकेऽपि च ३२
पूर्वजैः सहितस्याशु जायते नात्र संशयः।
जानामि तं मयूरेशं देवदेवं जगद्गुरुम् ३३
संभूतं मम नाशाय रावणे राघवं यथा।
पातयिष्ये शिरोऽस्याहमिति मे निश्चिता मति ३४ ।
त्यजन्ति जीवितं शूरा नाभिमानं कदाचन ।
न मेऽस्ति गणना सुभ्रु कृतान्तस्यापि कर्हिचित् ३५
तत्र का गणनाऽन्येषां लज्जा मे कर्णतः कृता ।
क उवाच ।
एवमुक्त्वा भूषणानि वस्त्राणि च दधार सः ३६
केयूरं मुकुटं रत्नयुक्तं हारं च कुण्डले ।
तूणौ खड्गं च खेटं च चापं सज्जं च शस्त्रिकाम् ३७
आच्छाद्य कर्णौ रौक्मीयवस्त्रेणोष्णीषगेन च ।
आययावुपविष्ट: स भद्रासनमुत्तमम् ३८ (५३१०)
इति श्रीगणेशपुराणे क्रीडाखण्डे दुर्गावाक्यं नाम सप्तदशाधिकशततमोऽध्यायः ॥११७॥

अध्याय ११८ प्रारंभ :-
क उवाच ।
युद्धावेशदुराधर्षः उपविष्टो महासने ।
स तदा वीरमुख्यांस्तानुपविष्टानथाब्रवीत् १
सिन्धुरुवाच ।
गतौ मम प्रधानौ तौ त्रैलोक्याकर्षणक्षमौ ।
न तादृशोऽस्ति वीरोऽत्र यो मे हन्याद्रिपुं बलात् २
नैतादृशौ बुद्धिमन्तौ पराक्रमजयैषिणौ ।
वीरा ऊचुस्ततः सिन्धुं मा चिन्तां कुरु सर्वथा ३
यावद्वयं प्राणवन्तो लघुकृत्य उपस्थिते ।
किमर्थं चिन्ताकुलतां तावद्व्रजसि दैत्यराट् ४
स्वापं कुरु महाभाग पर्यंके पुष्यसंस्तरे ।
कृतान्तस्ताडितो याभ्यां तयोः कस्माद्भयं भवेत्५
एवमुक्त्वा कलः सिन्धुं विकलश्च महाबलौ ।
शालकौ तस्य दैत्यस्य निर्यातौ युद्धदुर्मदौ ६
नानायुद्धेषु कुशलौ नानायुधधरावुभौ ।
नानाभूषणवस्त्राढ्यौ नानासेनासमन्वितौ ७
नानागर्जनतो व्योम चक्रतुर्नादसंयुतम् ।
देवकोटिनिहन्तारौ असंख्यवाहिनीयुतौ८
ययुस्तत्पुरतो वीराः सिन्दूरारुणमस्तकाः ।
अग्निशस्त्रधरा मुक्तकेशपाशाः सचन्दनाः ९
लसच्छस्त्रधराः सर्वे यममत्तुमिवोद्यताः।
ततः करिघटा याता नानाधातुविचित्रिताः २.११८.१०
अधिष्ठाता महामात्रैर्नानाभूषाविराजिताः ।
तीक्ष्णदन्ताः सिन्दुरिता घण्टानादनिनादिताः ११
ततोऽश्वसादिनो यातास्तनुत्राणविराजिता ।
धनुर्बाणधराः सर्वे लसच्छत्रविभूषिताः १२
अनेकयुद्धसम्भार रथा यातास्ततः परम् ।
अनेकवीरसंयुक्ता नानासूतविराजिताः १३
एवं तौ शालकौ यातौ रणस्थानं रुषान्वितौ ।
ददृशाते * मयूरेशमाशीविषभुजिःस्थितम् १४
षडाननादिभिर्वीरैरन्यैन्यश्च परिवारितम् ।
दृष्ट्वा तैस्तु तयोः सेना घोरा सा चतुरंगिणी १५
असंख्यातं बलं तस्य समायातं विचित्रिताम् ।
प्रेषितो देवप्रवरैर्दूतो नीतिविशारदः १६
ज्ञात्वा वृत्तान्तमायातः स जगाद सुरान्प्रति ।
दूत उवाच ।
कलश्च विकलश्चैव नानासेनासमायुतौ १७
जेतुं सुरान्समायातौ नानायुद्धविशारदौ ।
ताभ्यां युद्धाय संप्राप्तौ पुष्पदन्तवृषावुभौ १८
धनुषी सज्जतां नीत्वा षष्ट्या बाणैरविध्यताम् ।
दैत्यौ बाणान्निवार्येव तावुभौ बाणवृष्टिभिः १९
छादितौ शरघातेन घ्नतः स्म देवसैनिकान् ।
कलस्य खड्गं खड्गेन बिभेद स महावृषः २.११८.२०
सैन्यमादाय तस्याशु खड्गं छित्त्वा न्यपातयत् ।
विकलस्य पुष्पदन्तो धनुश्चिच्छेद सायकैः २१
ततस्तौ मल्लयुद्धेन परस्परमयुध्यताम् ।
ते सेने युद्धतां तत्र नानाशस्त्रास्त्रपत्रिभिः २२
मायाभिर्विविधाभिश्च परस्परजयेच्छया।
ततः पपाल दैत्यानां सेनाशस्त्रार्दितं भृशम् २३
केऽपि देवाः पृष्ठलग्ना मारयन्त्यसुरांश्च तान् ।
पादाघातेन निहता दैत्यसेनाचरा नराः २४
मृतासृक्प्रवहा तत्र वाहिनी भीरुभीतिदा ।
संप्रवृत्ता महाघोरा भूतपक्षिप्रमोदिनी २५
ततो वेगात्समुड्डीय कलश्च विकलश्च ह ।
शस्त्रवृष्टि महोग्रां तौ चक्रतुर्युद्धदुर्मदौ २६
तया हता देवसेना स्रवद्रक्ता पपाल ह ।
ततो वृषोऽहनत्सेनां शृंगाभ्यां च तयोर्भृशम् २७
लत्ताभिश्च जघानाशु फूत्कारेण न्यपातयत् ।
पुच्छाघातेन कांश्चिच्च चूर्णयामास दैत्यपान २८
एवं तेन हता सेना नानादैत्यसमाकुला ।
हाहाकारो महानासीद्दैत्यांना तत्र नश्यताम् २९
ततोऽतिबलिनौ वीरौ कलश्च विकलश्च ह ।
जगर्जतुरुभौ रोषाद् गर्जयन्तौ दिशो दश २.११८.३०
निनिन्दतुस्तौ वृषभं किं त्वं युध्यसि नौ पुरः ।
तृणादनेषु शक्तस्त्वं तृणरूपोऽसि साम्प्रतम् ३१
दध्रात एवमुक्त्वा तौ तस्य शृंगे महाबलौ ।
विकृष्य निन्यतुरुभौ स्वसेनां चतुरंगिणीम् ३२
तं मोचितुं पुष्पदन्तोऽभिययौ सहसा जवात् ।
ततस्तं विकलो लत्ताप्रहारैः पातयन्भुवि ३३
ननर्द वाद्यघोषेण हर्षनिर्भरमानसः ।
स मूर्छितो मुहूर्तात्तु संज्ञां प्रापदनातुरः ३४
ततो योद्धुं समायातौ वीरभद्रषडाननौ ।
कलः पर्वतघातेन शतधा न्यपतद्भुवि ३५
वीरभद्रस्तु विकलं तलघातादपातयत् ।
दृष्ट्वा स्कन्देन निहतं कलं दैत्यं महाद्रिणा ३६
ततो ययुः स्वशिबिरं गणास्ते जयशालिनः ।
ततः शस्त्रहताः केचिज्जीवन्तो गण्डकीं ययुः ३७
शशंसुर्दैत्यराजाय नानासेनायुतः कलः ।
विकलश्च हतो रोषाद्वीरभद्रादिभिर्गणैः ३८
गतास्ते शिबिरं देवगणास्तु जयशालिनः ३९ (५३४९)
इति श्रीगणेशपुराणे क्रीडाखण्डे कलविकलवधो नामाष्टादशोत्तरशततमोऽध्यायः ॥११८॥

अध्याय ११९ प्रारंभ :-
क उवाच ।
कलं च विकलं श्यालं देवसेनाविघातिनम ।
निहतं वीरभद्रेण पर्वतेन महासुरम् १
षडाननेन विकलं हतं तलप्रहारतः ।
श्रुत्वा भद्रासनगतो नानावीरसमन्वितः २
प्राप सिन्धुर्महाचिन्तां स्मरञ्शिवसुतं तदा ।
किं करिष्यति देवोऽसौ नाशमित्थं सुरद्विषाम् ३
इत्येवं चिंतयाविष्टो मूर्छामाप महत्तराम् ।
तावदाजग्मतुरुभौ पुत्रावस्य महाबलौ ४
धर्माधर्मौ भद्रपीठे जनकं वाक्यमाहतुः ।
कथं बिभेषि जनक शिवाया अर्भकाल्लघोः ५
नावाज्ञां देहि दैत्येंद्र हनिष्याव: क्षणादमुम् ।
संमुखे तौ हतौ वीरौ मातुलौ नौ दिवं गतौ ६
उत्तीर्णौ तौ स्वामिकार्ये कीर्तिं कृत्वा महात्तराम् ।
हत्वाऽनेकविधां सेनां नानावीरैः प्रपालिताम् ७
आवामपि प्रयुध्यावो यावो हत्वा रिपुं बलात् ।
अथवा मोक्षमायावो निहतौ तेन चेद्रणे८
यावदावां हि जीवावश्चिन्तां तावच्च मा कुरु।
इंद्रादय सुरगणाः कारागारेऽधुना तव९
यदा त्वं विजिताः पूर्वं पितरस्तत्र केऽभवन् ।
आनीवो मस्तकं तस्य रिपोस्तव न संशयः२.११९.१०
अन्यथा दर्शयिष्यावो मुख लोकेषु न क्वचित् ।
क उवाच ।
एवं तयोः समाकर्ण्य वचनं हर्षमाप्तवान्११
तावूचे परमं युद्धं प्राप्नुतं यश उत्तमम् ।
नाशयित्वा रिपुं घोरं यातं शीघ्रं ममान्तिकम् १२
एवमाकर्ण्य तद्वाक्यमीयतुर्युद्धलालसौ।
नमस्कृत्य पितुः पादौ मातुर्गृह्य तदाशिषः १३
दशकोटिमितां सेना प्रत्येकं गृह्य सत्वरौ।
रथाश्वहस्तिपादातैर्नानाशस्त्रधरैर्युताम् १४
पत्तयोऽपि ययुर्र््ष्टाः सिन्दूरारुणमस्तकाः ।
गजा नानागिरिनिभा नानाधातुध्वजान्विता: १५
अश्वाः सादिभिरारूढा नानाशस्त्रासिपाणिभिः ।
गर्जद्भिर्मेघसदृशं गर्जयद्भिर्दिशो दश १६
ततः सेनामध्यगतौ रेजतुर्भ्रातरावुभौ।
नानालंकारसंयुक्तौ नानायुधधरावुभौ१७
रत्नकांचनसंयुक्तकुण्डलाभ्यां विराजितौ।
किरीटाभ्यां सुतेजोभ्यां भ्राजमानौ महाबलौ१८
मुक्तामणिमयौ हारौ बिभ्रन्तौ युद्धदुर्मदौ।
प्रापतू रणभूमिं तौ नानावादित्रनिस्वनैः १९
ददृशुर्वीरभद्राद्यास्तौ च तां वाहिनीमपि ।
निकटे तौ समालोक्य मयूरेशप्रचोदिताः २.११९.२०
आज्ञयाऽभिययुर्वीरभद्रोऽसौ च षडाननः ।
हिरण्यगर्भः संक्रुद्धो भूतराजो विशालदृक् २१
असंख्यसेनया स्रार्द्धं ततो युद्धमवर्तत ।
परस्परमयुध्यन्त ततः सेनाचरा भृशम् २२
घ्नन्तः शिरांसि पादांश्च बाहूरूदरकन्दराः ।
निहताश्च निहन्यन्ते तमसाच्छादिते रवौ २३
केचिच्चक्राणि मुमुचुर्भिण्डिपालांस्तथाऽपरे ।
बाणवृष्टिं परे चापि नानाशस्त्राणि केचन २४
मल्लयुद्धं च तत्रासीत्सैनिकानां परस्परम् ।
एवं सा संहृता सेना मयूरेशप्रपालिता २५
पपाल तत्र शेषा या विह्वला तु दिशो दश ।
ततः षडाननः क्रुद्धो द्वादशायुधभूषितः २६
तैरायुधैर्जघानाशु सेनां तां दैत्यपालिताम् ।
केषाच्चिद्बाहवो भिन्नाः केऽपि मध्ये द्विधाकृताः २७
केषाचिन्मस्तका भिन्नाः केषांचिच्चरणा रणे ।
एवं सा नाशिता सेना हस्त्यश्वरथसंकुला २८
केऽपि स्वर्गं गताः केचिद्रूपं प्रापुः षडाननम् ।
निरीक्ष्य ये मयूरेशं जहुः प्राणान्प्रहारिताः २९
जग्मुस्ते तत्प्रसादेन निजधाम महाबलाः ।
तद्दृष्टिपातात्तदधं नष्टं सर्वं जनुःकृतम् २.११९.३०
दृष्टवा विशाखविशिखैः सशिखैर्निहतां स्वकाम् ।
सेनां तस्य सुतौ वीरावधर्मो धर्म एव च ३१
युयुधाते बहुविधं शस्त्रैरस्त्रैः शरव्रजैः ।
चक्रतुर्मल्लयुद्धं तौ महासेनेन तत्क्षणात् ३२
तयोर्बलं निरीक्ष्यैव कार्तिकेयो महाबलः ।
शिखयोस्तौ दधाराशु षड्बाहुः षट्करैर्बलात् ३३
भ्रामयामास बहुधा पोथयामास भूतले ।
शतखण्डानि जातानि तयोस्तु पततोर्भुवि ३४
जयं प्राप्ते शिवसुते नेदुर्वाद्यानि सर्वशः।
जय त्वं हि मयूरेश जगुः सर्वेऽपि सैनिकाः ३५
चत्वारस्ते ययुर्देवं मयूरेशं निजं प्रभुम् ।
आलिलिंगुर्मुदा ते तु परस्परमथाब्रुवन ३६
प्राप्ता इव पुनर्जन्म मुमुदुस्ते परस्परम् ।
शशंसुः सर्ववृत्तान्तं शिवायै च शिवाय च ३७
सेनां च निहतां सिन्धोः पुत्रौ च बलवत्तरौ ३८ (५३८७)
इति श्रीगणेशपुराणे क्रीडाखण्डे एकोनविंशोत्तरशततमोऽध्यायः ॥११९॥

अध्याय १२० प्रारंभ :-
क उवाच ।
हतशिष्टाः केऽपि वीरा: स्रवद्रक्ता सुदुःखिता ।
सिन्धुं सभागतं चेत्थं भीत भीता अथाब्रुवन १
वीरा ऊचुः ।
धनुर्धर निबोधेदमतिदुःखकरं वचः ।
धर्माधर्मौ तव सुतौ कृत्वा युद्धं महत्तरम् २
निन्यतुर्देवसेनां तौ हत्वा हत्वा यमक्षयम् ।
ततः कोऽपि महावीरो मुखैः षड्भिर्विराजितः ३
सोऽपि ताभ्यां रणे घोरे पातितो धरणीतले ।
पुनस्तेन धृतौ वीरौ शिखायां तावुभावपि ४
भ्रामयित्वा बहुतरं पातितौ तौ धरातले ।
शतधा शीर्णदेहौ तौ गतौ तौ स्वर्गमुत्तमम् ५
क उवाच ।
एवमाकर्ण्य तद्वाक्यं न्यपतद्दैत्यपुंगवः ।
शोकसागरमग्नोऽभूद्वज्राहत इवाचल: ६
धावमानैः सुहृद्वर्गैः स आशूत्थापितो बलात् ।
मुहूर्तात्प्रकृतिं यातः शुशोच बहुदुःखितः ७
सिन्धुरुवाच ।
शक्रादयो लोकपाला जिता याभ्यां रणे पुरा ।
तौ हतौ न कथं वीरौ षडास्येन महाबलौ ८
विहाय मृत्युलोके मां कथं स्वर्गं गतावुभौ ।
सुरसेनानिहन्तारौ कृतान्तस्यान्तकावुभौ ९
नानेष्ये शत्रुमूर्द्धानं तदाऽस्यं दर्शये न च ।
गमनावसरे प्रोक्तं तत्सत्यं कि कृतं त्वया २.१२०.१०
अथ दुर्गा सखीभिस्तु वृत्तान्तोऽन्तपुरे तदा ।
कथितो विस्तरेणैव रुदतीभिः सुदुःखतः ११
सख्युवाच ।
भर्ता रोदिति ते सुभ्रु धर्माधर्मौ मृताविति ।
साथ पर्यंकसुगता न्यपतत्पृथिवीतले १२
रम्भेव वातनिहता कोमलारुणपल्लवा।
सखीदुष्टवचोभिः सा बाणैरिव हृदि क्षता ।
विस्रस्तकेशाभरणा साप्यरोदीत्तदा भृशम् १३
विस्रस्तवस्त्रा विकसद्बिल्वचारुपयोधरा ।
अश्रुश्यामलगण्डा सा शोकानलहतप्रभा १४
जघ्ने मुखं सा पाणिभ्यां दन्तासृक्सिक्तभूतला ।
निरस्तदेहभावा सा विकला विगतत्रपा १५
सभांगणगता लुण्ठद्धठकृद्बालको यथा।
सर्वे ततः सभ्यवरा रुरुदुर्दुःखकर्षिताः १६
प्रस्रवन्नेत्रसलिलाः प्राब्रवीत्तान्त्सभासदः ।
राज्ञी उवाच।
कथं सर्वेषु वीरेषु जीवत्सुतौ सुतौ मम १७
प्रेषितौ रणभूमिं तौ मामपृष्ट्वा तु कोमलौ ।
मयाशीश्चेन्नियुक्ता स्यान्न तयोर्मरणं भवेत् १८
न हि मे वचनं धाता मिथ्या कर्तुं समीहते ।
याभ्यां जिता देवगणास्तौ कथं निधनं गतौ १९
क्व द्रक्ष्याम्यहमेतौ यौ जिग्यतुर्मदनं रुचा।
बुद्धीना यौ सरस्वन्तौ तौ मां त्यक्त्वा कथं गतौ २.१२०.२०
तयोः शोकाग्निना दग्धा मरिष्याम्यहमद्य वै ।
इत्युक्त्वा न्यपतद्भूमौ निघ्नती हृदये मुहुः २१
ततः सख्यो नागराश्च बोधयामासुरंजसा ।
न मातः कोऽपि शोकेन यो मृतः पुनरागतः २२
मृत्युलोके चिरं स्थाता नेक्षितो न श्रुतोऽपि च ।
विहाय हनुमन्तं च कृपं शारद्वतं बलिम् २३
व्यासं परशुरामं च विभीषणमथापि च ।
द्रौणिं नान्यश्चिरं स्थायी न भूतो न भविष्यति २४
ब्रह्मादीनां भवेन्मृत्युः का तत्र गणनात्मनः ।
रोदनं तेन कर्तव्यं न स्यान्मृत्युः कदाऽस्य चेत् २५
क्षीणे ऋणानुबन्धे च स्त्री पुत्रः पशुरेव च ।
न तिष्ठति ध्रुवं तत्र कृतः शोको वृथा भवेत् २६
यथा काष्ठं काष्ठगतं पुरे स्याच्च वियुज्यते ।
तद्वज्जन्तुर्वियोगं च योगं च प्राप्नुते वशः २७
नानापक्षिगणा रात्रावेकवृक्षागता यथा ।
प्रातर्दशदिशो यान्ति तत्र कि परिवेदनम् ।
क उवाच ।
एवं प्रबोधिता दुर्गा सिन्धुश्च जन एव च २८
हठाच्छोकं निगृह्यासावासने संविवेश ह ।
उपहासं करिष्यन्ति सपत्ना रुदतामिति २९
दुर्गा धृत्वा बलाल्लोका निन्युरन्तःपुरं हि ताम् ।
निश्वसन्ती पपातासौ पर्यङ्के शोककर्शिता २.१२०.३०
स सिन्धुः क्रोधसंयुक्तो जग्राह शस्त्रसंचयम् ।
पुत्रयोर्निष्कृतिं कर्तुं हयारूढो ययौ रणम् ३१
याते तस्मिन्महासैन्यं चतुरंग रणोत्सुकम् ।
उड्डीयोड्डीय धावन्तो ययुः पूर्वं पदातयः ३२
नानावर्णा एकरूपा नानाशस्त्रास्त्रपाणयः ।
ततो वारणसङ्घाता नानाधातुविचित्रिताः ३३
घण्टाभरणशोभाढ्या दानोदकप्रवर्षिणः ।
चीत्कारभीषितपरा महारावभयंकराः ३४
ततोऽश्वा प्रागमन्सादियुक्ता वायुजवा रणम् ।
खुराघाताद्विस्फुलिंगा निपतन्तो धरातले ३५
शुशुभुः सादिनस्तत्र खेटकुन्तासिपाणयः।
चन्दनागरुलिप्तांगा नानामालाविभूषिताः ३६
तनुत्राणभृतः सर्वे कंटभ्राजिमस्तकाः।
ग्रसन्त इव चाकाशं नादयन्तो दिशो दश ३७
रथास्ततोऽगमन्नानामहावीरैरधिष्ठिताः ।
नानाशस्त्रास्त्रसंपूर्णा धनुस्तूणीरसंयुताः ३८
तन्मध्ये शुशुभे सिन्धुर्महामुकुटकुण्डलः ।
नानाशस्त्रधनुष्पाणिस्तूणीरकृतभूषणः ३९
वीरकंकणशोभाढयः कटिसूत्रांगदप्रभः ।
क्रोधसंरक्तनयनो लोकत्रयबुभुक्षया २.१२०.४०
वाद्यस्तु सर्ववाद्येषु बन्दिषु च स्तुवत्स्तु च ।
यावद्याति महावेगात्तावद्दूतस्तमब्रवीत् ४१
पिता ते याति दैत्येश तं प्रतीक्षस्व सुव्रत ।
परावृत्येक्षते यावत्तावदश्वगतं सुतम् ४२
अपश्यदभ्याशगतं नमश्चक्रे स चापि तम् ।
ददौ पिता तत्र सुतं दुर्गं कृत्वा चमूचरैः ४३
उपदेशं च कृतवान्सुखायामुत्र चेह च ।
चक्रपाणिरुवाच ।
गर्वेण वर्तसे पुत्र श्रिया मत्तो न बुध्यसे ४४
अर्थज्ञाने महावृद्धाः प्रष्टव्या भूतिमिच्छता ।
अग्रे शुभेच्छया पूर्वमशुभं न समाचरेत् ४५
अल्पेन कर्मणा नाशं पुण्यमेत्य शुभेन ह ।
अणुरग्निर्दहेत्सर्वं पुण्यं दोषस्तथा सुत ४६
न लाभो दृश्यते पुत्र बद्धेषु तेषु ते क्वचित् ।
स एव पुत्रो यो मातृपितृवाक्यकरोऽनिशम् ४७
तस्य चोल्लङघने पुण्यं नाशमेति च जायते ।
दोषजालं मोहजालं नानानिरयदं सुत ४८
अतः शृणु हितं वाक्यं मोचयाशु सुरान्सुत ।
मुक्तेषु तु भवेन्मित्रं मयूरेशोऽखिलार्थदः ४९
न चेह द्वेषतः कश्चित्सुखं प्राप्तो धरातले।
विनाशं प्रापिता देवैर्हिरण्याक्षादयोऽसुराः २.१२०.५०
क उवाच ।
इति पितृवचः श्रुत्वा चुकोपातितरां सुतः ।
धिक्कृत्य पितरं प्राह मम भ्रान्तिरभूत्पुरा ५१
चतुरस्त्वं पिता मे वै ज्ञानं सम्यक्प्रकाशितम् ।
भाषसे मूढवत्तात कृत्वा श्यामं
मुखं व्रज ५२ येन मे निहता सेना परार्थगणिता पितः ।
तेनेदानीं कथं साम कर्तव्यमयशस्करम् ५३
कुशाक्षमालाधरणं राजधर्मे हि नेष्यते।
तस्माद्दया नरेन्द्रेण न कार्या शत्रुसंचये ५४
निर्दयत्वमरावेव स्मृतं नीत्यामये यथा ।
एवमुक्त्वा नमस्कृत्य पितरं सिन्धुदैत्यराट् ५५
परावृत्य बलात्तं स ययौ योद्धुं रणोत्सुकः ५६ (५४४२)
इति श्रीगणेशपुराणे क्रीडाखण्डे पितृसिन्धुसंवादो नाम विंशत्यधिकशततमोऽध्यायः ॥१२०॥