गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १२१-१२५

विकिस्रोतः तः
← अध्यायाः ११६-१२० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः १२१--१२५
[[लेखकः :|]]
अध्यायाः १२६-१३० →

अध्याय १२१ प्रारंभ :-
क उवाच ।
वीरभद्रादिभिर्वीरैः सुखासीनं गणेश्वरम्।
आययुर्वेगतो देवा भीताः श्वासमाकुलाः १ ॥
न्यवेदयन्त वृत्तान्तं स्वयं सिन्धुः समागतः ।
मेनिरे ते पुनः प्राप्तं कालं संहर्तुमात्मनः २ ॥
ततो हर्षान्मयूरेशो रुरोह शिखनं तदा ।
आयुधानि च चत्वारि प्रगृहय च जगर्ज च ३ ॥
नमस्कृत्य शिवं वेगाद्ययौ प्रद्योतयन्दिशः ।
तदाशीःकवचो वीरसहितो वाहिनीयुतः ४ ॥
यावत्स पुरतो याति सिंधुं हन्तुं समुद्यतः।
तावत्षडाननः प्राह यामि युद्धाय विघ्नराट् ५ ॥
तिष्ठत्सु बहुवीरेषु कथं युद्धाय यास्यसि ।
पौरुषं पश्य सर्वषां तस्मिन्क्षीणे रणं कुरु ६ ॥
एवमुक्त्वा नमस्कृत्य ययौ युद्धाय षण्मुखः ।
चतुरंगबलं गृहय सिंधुसेनामथावधीत् ७ ॥
सोऽपि तां न्यहनत्सेनां नानाशस्त्रैः शरव्रजैः ।
सहस्व प्रहरस्वाद्य हन्मि संमुखतां व्रज ८ ॥
एवं कोलहलोऽप्यासीद्वीराणां तत्र युद्धयताम् ।
पेतुर्वीराः शस्त्रहताः शरजालगतासवः ९ ॥
छिन्नांगा भिन्नपादाश्च छिन्नबाहूरुमस्तकाः।
असिभिर्भिण्डिपालैश्च कुन्तैर्मुद्गरसंचयैः २.१२१.१० ॥
मारयन्मिश्रिता वीरास्तान्परान्युद्धदुर्मदान् ।
कोलाहलो महानासीत्क्ष्वेडितैर्ह्रेषितैरपि ११ ॥
वाद्यध्वनिप्रतिध्वानैर्बृंहितै रथनेमिभिः ।
असंबद्धमभूद्युद्धं सेनयोरुभयोरपि १२ ॥
यथाप्रतिज्ञं वीरास्ते निजघ्नुर्मंस्तकं मुखम् ।
नेत्रे बाहूदरं नाभिं पादौ गुल्फौ च जानुनी १३ ॥
कोऽपि हस्तेन पादेन कोऽपि खड्गेन नाशयन् ।
असिना केऽप्यरिगणानन्धकारे महत्यपि १४ ॥
अस्तं याते दिनकरे दृष्ट्वा पृष्ट्वा निजघ्निरे ।
देवाञ्ज्ञात्वाऽसुरा जघ्नुरितरानितरेऽपि च १५ ॥
असृक्प्रवाहस्तत्रासीत्प्रधने तुमुले तदा ।
वहन्प्रेतानिषज्जीवा हुंकारेण च तान्परे १६ ॥
बलान्निष्काशयामासुर्विशल्यांश्चक्रिरे यथा ।
इतो न सेने पंचाहविराम युद्धलंपटे ।
एवं पदाताः सिन्धोस्ते कोटिशोऽथ हताः सुरैः १७ ॥
ततोऽगात्तद्गजानीकमसंख्यं शस्त्रसंयुतम् ।
धिष्ठितं सादिभिर्वीरैर्नानायुद्धविशारदैः १८ ॥
वीरभद्रादयो जघ्नुर्गजसेनां दुरत्ययाम् ।
केषांचिन्मस्तका भिन्नाः केषाचिच्च करा द्विजाः १९ ॥
अग्निशस्त्रधरैः केचित्पातिता वीरसंयुताः ।
वीरभद्रोऽतिवीर्येण गजेनैवाहनद्गजम २.१२१.२० ॥
पेततुरष्टधा भिन्नावुभावपि तदा गजौ।
ततः षडाननोनिघ्नन्गजानीके व्यरोचत २१ ॥
वीरैस्तु सहितान्मत्ताननन्तान्करिसंचयान् ।
शक्त्या शरैरनेकैः सोऽनाशयत्षड्धनुष्च्युतैः २२ ॥
हिरण्यगर्भोऽनेकवीरयुतांस्तानप्यपातयत् ।
भूतराजोऽपि शस्त्रैस्तान्गजान्नानाविधान्रणे २३ ॥
न्यपातयद्वीरयुक्तान्नाराचक्षतजीवितान् ।
सिंहो भूत्वा पुष्पदन्तो दारयामास तान्गजान् २४ ॥
नन्दी तु गजरूपेण बभंज तान्गजान्बहून् ।
अन्यैश्च शरसंघातैः सर्वे ते विनिपातिताः २५ ॥
कंचित्पुच्छे गृहीत्वेभ भ्रामयित्वा परोऽक्षिपत् ।
उभावपि लयं यातौ दृढाघातेन चूर्णितौ २६ ॥
ततोऽश्वचारा युयुधुर्गजानीके निवारिते।
असंख्यातान्निजघ्नुस्तान्सुरान्नानायुधै रणे २७ ॥
पतिता मूर्छिता देवाः पुनः संज्ञां च लेभिरे ।
ततो विविधुरश्वस्थान्वीरानश्वानथो रुषा २८ ॥
क्रोधेन देवान्घ्नन्ति स्म हयारूढा महासुराः ।
सुरांस्तान्निन्युरन्तं ते शस्त्रास्त्रशरवृष्टिभिः २९ ॥
षड्वीराः पुनरायाताः श्रुत्वा देवान्हतान्युधि ।
ततस्ते पुनराजघ्नुर्दैतेयानश्वसादिनः २.१२१.३० ॥
चत्वारस्ते चतुर्दिक्षु प्रायुध्यन्बलवत्तरम् ।
ररक्षतुरुभौ सैन्यं स्वीयं देवगणैर्युतम्३१॥
मारयामासुरश्वांस्तानश्वस्थान्वीरसंयुतान् ।
अयुध्यन्पादचारेण निघ्नन्तोऽरिगणान्बहून् ३२ ॥
कोटिकोटिमितास्तत्र पेतुस्ते तु शरार्दिताः ।
नन्दी भृंगी हतानश्वान्पतितान्वीक्ष्य सादिनः ३३ ॥
पादाघातेन तेनाशु पातयन्नन्दिकेश्वरः ।
वीरभद्रोऽप्यसंख्यातानश्वयोधान्न्यपातयत् ३४ ॥
हतेषु मुख्यवीरेषु चतुर्भिः सर्वतो दिशम् ।
कल्पान्त इव तत्रासीद्दैत्यानां रणकर्मणाम् ३५ ॥
ततः केचित्सुरगणान्पेदिरे शरणं तदा ।॥
हाहाकारो महानासीद्दैत्यसैन्याश्वसादिषु ३६ ॥
एवं हत्वाऽखिलां सेनां षड्वीरास्ते मुदं ययु ।
वाद्यत्सु सर्ववाद्येषु जगर्जुस्तुष्टुवुर्विभुम् ३७ ॥
जयः प्राप्तो मयूरेशप्रभावात्स्मरणान्नतेः ।
ततः सिन्धुः समाकर्ण्य शरणामतवाक्यतः ३८ ॥
वृत्तांतं हतसेनाया हस्त्यश्वरथसंयुतः ।
अमात्यान्सर्ववीरांश्च प्रोवाच युद्धलालसः ३९ ॥
सिन्धुरुवाच ।
ये ये गच्छन्ति योद्धारस्ताञ्छृणोमि हतान्परैः ।
इदानीं यामि तं हन्तुं गुणेशं च स्वयं बलात् २.१२१.४० ॥
क उवाच ।
इत्युक्त्वा क्ष्वेडितेनासौ गगनं च दिशो दश ।
नादयामास त्रींल्लोकान्ग्रसन्भूस्वर्गमण्डलम् ४१ ॥
योजयित्वाऽक्षिपद्बाणमाकर्णकर्षणाज्जवात् ।
सेनायां वीरभद्रादिपालितायां महाबलैः ४२ ॥
निरीक्ष्य सर्ववीरान्स बाणं धनुषि संदधे ।
अस्त्रमन्त्रेण सहसा शतजप्तेन दैत्यराट् ४३ ॥
कृपीटयोनिः सहसा तस्माज्जातो ददाह ताम् ।
देवसेनां च पृथिवीं सवनां च सपर्वताम् ४४ ॥
ततोऽपश्यन्सैनिकास्ते दहयमानान्कृशानुना ।
पुरुषं वह्निसंभूतं जटिलं दीप्ततेजसम् ४५ ॥
विद्युज्जिह्वं करालास्यं गिलन्तं देवसैनिकान् ।
षडानादयो भीता दुद्रुवुस्ते दिशो दश ४६ ॥
यं यं स भक्षति स्माजौ स स प्राप स्मरन्मुदा ।
निजधाम मयूरेशमेव मत्ताऽखिला चमूः ४७ ॥
यतो यतो याति सेना तवस्तद्वक्त्रसंभवः ।
तनूनपाद्दहत्येनां प्रलयाग्निरिव ज्वलन् ४८ ॥
एवं सा वह्निना दग्धा मयूरेशस्य वाहिनी।
धूमान्धकारे महति न प्राज्ञायत किंचन ४९ ॥
ततः सर्वे मयूरेशपृष्ठभागं समाश्रिताः ।
त्राहि त्राहीति जल्पन्तो दग्धास्ते जातवेदसा २.१२१.५० ॥
अनिवार्य महास्त्रं तद् दृष्ट्वा देवो मयूरराट् ।
निस्तेजाश्चिन्तयामास भीतो लोके लघुत्वतः ५१ ॥
शिवः प्रसादं चेत्कुर्यात्तदैवात्र जयो भवेत् ।
इत्युक्त्वा परशुं गृहय मन्त्रयित्वाऽक्षिपन्बलात् ५२ ॥
महसा जितसूर्यः स गर्जयनगगनं दिशः ।
यातो दहन्वैरिसेनां जगत्कल्पानलो यथा ५३ ॥
तस्मादपि महानेकः पुरुषः समजायत ।
यस्यास्ये सर्वभूगोलः किन्नु मास्यति साम्बरः ५४ ॥
पुरुषः पुरुषेणासावस्त्रमस्त्रेण वै तदा।
अयुध्यतां ततो जग्मुर्द्रष्टुं देवर्षयस्तदा ५५ ॥
दैत्यास्त्रं भक्षितं तेन कृतान्तास्त्रेण सत्वरम् ।
ययौ सेनां च निर्दग्धुं ज्वालामालिव हव्यभुक् ५६॥
दैत्यराजोऽपि तं दृष्ट्वा बाणवृष्टिमवासृजत् ।
एकस्मान्मन्त्रिताद्बाणादनन्ता निःसृताः शराः ५७ ॥
देवसेनाचरास्तेषु निमग्ना वेगशालिनः।
मयूरेशः क्रोधवशान्नानाऽस्त्राणि तदाऽसृजत् ५८ ॥
तैरस्त्रैर्दैत्यराजस्य निरस्यास्त्राणि सर्वशः ।
अभक्षयद्दैत्यसेनां स कालपुरुषः पुनः ५९ ॥
यतो यतः पलायन्तेऽसुरास्तत्र च याति सः ।
चिन्ताक्रान्तस्ततो दैत्यः कर्तव्यं नाभ्यपद्यत २.१२१.६० ॥
किं कर्तव्यं व गन्तव्यं क्व च स्थेयमचिन्तयत् ।
अस्तं याते दिनकरे स्वधामप्रत्यपद्यत ६१ ॥
गच्छन्स्खलन्पतन्भूमौ नष्टकुण्डलभूषणः ।
नगरं प्राविशदसौ ततः शम्भुरिवापरः ६२ ॥
गुप्त एवावसत्क्वापि स्त्रीणां चैवानुजीविनाम् ।
जगर्ज सगणो देवो ज्ञात्वा तद्वृत्तमाशु सः ६३ ॥
तेन नादेन सहसा नादितं भुवनत्रयम् ।
संजहार कृतान्तास्त्रं मन्त्रविद्भुजगं यथा ६४ ॥
स्वनिवेशं जगामाशु मयूरेशो गणैर्वृताः ६५ (५५०८) ॥
इति श्रीगणेशपुराणे क्रीडाखण्डे एकविंशोत्तरशततमोऽध्यायः ॥१२१॥ ॥

अध्याय १२२ प्रारंभ :-
क उवाच ।
सिंहासनस्थे देवेश मयूरेशे गणैर्वृते ।
गौतमाद्या मुनिगणाः प्रशशंसुर्गुणेश्वरम् १ ॥
ऋषय ऊचुः ।
येन शक्रो जितः संख्ये नागैः शेषो धरातले ।
तस्य का गणनान्येषां सोऽपि युद्ध जितस्त्वया २ ॥
रक्षिता बहवस्तस्मात्सिन्धोर्दुष्टात्सुरेश्वर ।
गणानां सर्वलोकानामन्यथा जीवनं कथम् ३ ॥
क उवाच ।
इत्थं तेषु वदत्वेव तत्कीर्तिं गिरिजा ययौ ।
आलिंग्य प्राह पुत्रं सा श्रान्तोऽसि युद्धलालसः ४ ॥
ततः शीघ्रं समायातो भर्गो देवं स सस्वजे ।
उवाचेन्द्रादिभिर्देवैरसाध्यं कृतवानसि ५ ॥
परब्रह्मस्वरूपस्य चराचरगुरोरपि ।
सर्वज्ञस्य धराभारोद्धरणे निरतस्य ते ६ ॥
महिमानं स्वरूपाणि ब्रह्माद्या न विदुः सुराः ।
गौतमाद्याश्च मुनयः शक्तिः का तत्र नो भवेत् ७ ॥
क उवाच ।
इत्थं वदति देवेशे शिवेऽथ पार्वती जगौ ।
नारदो मुनिवर्योऽसौ मातः शणु वचो मम ८ ॥
बहवो वासरा जाता अत्र स्थाने कदा शिवे ।
मोक्षमेष्यति दैत्योऽसौ सिन्धुर्नष्टतमोऽनघे ९ ॥
कदा विवाहो भविता मयूरेशस्य सुव्रते ।
वासवाद्या जिता येन नाशं स कथमेष्यति २.१२२.१० ॥
आज्ञां देहि गमिष्यामः पुनरेष्याम सत्वरम् ।
कदा स्युः सिन्धुदैत्यात्ते देवाश्च मुक्तबन्धनाः ११ ॥
दैत्यस्य मरणं मातरसाध्यं दृश्यते मया ।
क उवाच ।
सुरर्षेर्वाक्यमाकर्ण्य प्रोचुस्तं ते गणास्तदा १२ ॥
षडाननादयो वीरा नारदं देवदर्शनम् ।
उद्दीपयन्तं तं देवं मयूरेशं सुरेश्वरम् १३ ॥
आश्चर्यं नारदमुने सर्वज्ञस्यापि तेऽनघ ।
एतदर्थं समायातो निजधाम्नो भुवं विभुः १४ ॥
अवाप्तसकलार्थोऽसौ मयूरेशोऽखिलार्थकृत् ।
अगुणस्य गुणेशस्य गुणक्षोभविधायिनः १५ ॥
स्वरूपं किं न जानासि ब्रह्माद्यैरनिरूपितम् ।
मयूरेशस्य वीर्यं च भूभारोत्तारणैषिणः १६ ॥
इन्द्राद्यवध्यानसुरान्निघ्नतो बलशालिनः ।
अनन्तकोटिब्रह्माण्डनायकस्याखिलात्मनः १७ ॥
उत्पत्तिस्थितिसंहारकारिणो जगतामपि ।
क उवाच ।
इति तद्भारतीं श्रुत्वा पुनः प्रोवाच नारदः १८ ॥
यदा द्रक्ष्यामि तं दैत्यं निहतं मुक्तिमागतम् ।
तदा सर्वं वचः सत्यं मन्येऽहं नान्यथा क्वचित् १९ ॥
निशम्येत्थं वचस्तस्य चुक्रोध स मयूरराट् ।
जगर्ज क्रोधदीप्तोऽसौ नादयन्भुवनत्रयम् २.१२२.२० ॥
दहन्निव त्रिलोकीं स शीर्णयन्पृथिवीमपि ।
मेघगम्भीरया वाचा बभाण तं मुनि तदा २१ ॥
मयूरेश उवाच ।
मान्योऽसि ब्रह्मपुत्रत्वात्सर्वज्ञत्वान्मुनीश्वर ।
अतस्त्वां प्रब्रवीम्यद्य मर्यादां परिपालयन् २२ ॥
तव प्रसादाद्ब्रह्माण्डं प्राशयिष्येऽन्तकं क्षणात् ।
भूगोलं न्युब्जतां नेष्ये शोषयिष्येऽम्बुधीनपि २३ ॥
चालयिष्ये तथा मेरुं मुने निश्वासवायुना ।
शृणु नारद सत्यां मे प्रतिज्ञामद्य सर्वग २४ ॥
हनिष्ये सिन्धुदैत्यं तं नात्र कार्या विचारणा ।
क उवाच ।॥
इत्युक्त्वा प्रययौ योद्धुं बर्या ।रूढो विनायकः २५ ॥
आहतुस्तं तदा नन्दी भृंग चौभौ विनायकम् ।
आवां युद्धं करिष्यावो पश्य नौ रणकौशलम् २६ ॥
इत्युक्त्वा वायुवेगेन गतौ तौ गण्डकीं पुरीम् ।
वीरभद्रो भूतराजो ययौ श्रुत्वा तयोर्गतिम् २७ ॥
तदा चकम्पे धरणी शेषो विह्वलतां ययौ।
ददृशुस्ते च चत्वारो दुर्गं दुर्गं सुरेश्वरैः २८ ॥
पर्यंके सुखमासीनं सिन्धुं चारा न्यवेदयन् ।
चत्वारः पर्वताकारा गर्जयन्तो दिशो नभः २९ ॥
वीरास्तव पुरीं याताः किं स्थितोऽसि महासुर ।
श्रुत्वेत्थं वचनं सिन्धुर्मग्नश्चिन्तार्णवे क्षणात् ।
दुर्गापि चिन्तयाविष्टा सा सोऽपि श्यामतामियात् २.१२२.३० ॥
अधोमुखतया चोभौ दुःखं प्रापतुरंजसा ।
दुर्गा प्रोचे महाराज मयोक्तं न कृतं त्वया ३१ ॥
तस्येदं हि फलं प्राप्तमिदानीं किं नु चिन्तया।
एवं वदति सा वाक्यं तावत्ते वीरसत्तमाः ३२ ॥
नानाश्चर्ययुतं नानारत्नकांचननिर्मितम् ।
अनेकशिखरं तस्य सभामण्डपमाययुः ३३ ॥
उड्डीय सहसा भृंगी तस्थौ क्रुद्धस्तु मण्डपे ।
बभंज मण्डपं सद्यः स बलेन महाबलः ३४ ॥
अंगणे तस्य खण्डानि पतितानि समन्ततः ।
तत्तस्त्रयोऽपि ते वीरा भृंगिणं समुपागतः ३५ ॥
युद्धावेशारुणमुखाः ससैन्यं तं ग्रसिष्णवः ।
दृष्ट्वा तत्कर्म तेषां तु सिन्धुसेना ययौ पुरः ३६ ॥
खड्गचर्मधनुर्बाणकुन्तमुद्गरधारिणी ।
घ्नन्तु घ्नन्तु महावेगांश्चतुरो वीरपुंगवान् ३७ ॥
इत्युक्त्वा चतुरो हन्तुमागता दैत्यसैनिकाः ।
असंख्याताश्चतुभिस्तैर्युयुधुर्जातसंभ्रमाः ३८ ॥
हन्मि त्वां जहि मह्यं चेत्यत्र कोलाहलोऽभवत् ।
ततोऽभूत्तुमुलं युद्धं चतुर्भिर्दैत्यसेनया ३९ ॥
रजोन्धकारे शस्त्राणां प्रकाशेनावलोकयन् ।
शतकोटि हता दैत्याश्चतुर्भिः संयुगे तदा २.१२२.४० ॥
असंख्यातान्महावीरान्पोथयामासुरोजसा ।
गृहीत्वा पादयोस्ते तान्भ्रामयित्वा पुनः पुनः ४१ ॥
नभोऽक्षिपन्महावीरास्ते भूमौ शतधाऽपतन ।
शरैरस्त्रैश्च शस्त्रैश्च पादेन करघाततः ४२ ॥
नाशिता सर्वसेना सा दैतेयी रणमण्डले ।
ततस्ते तद्गृहं गत्वा सिन्धुं पर्यङ्कसंस्थितम् ४३ ॥
रणस्तम्भं समानिन्युर्धृत्वा केशेषु वेगतः ।
ततः सिन्धुर्महास्त्रैः स चक्रे युद्धं तु तैः सह ४४ ॥
व्यसृजत्पन्नगास्त्रं स भुजगैर्वेष्टितास्त्रयः ।
गरुडास्त्रं च सहसा भृंगिणाऽमोचि तत्क्षणात् ४५ ॥
अग्न्यस्त्रे मोचिते तेन पर्जन्यास्त्रं च सोऽसृजत् ।
वाय्वस्त्रे मोचिते तेन पर्वतास्त्रं च तेऽसृजन् ४६ ॥
ततस्ते मल्लयुद्धेन योधयामासुरादरात् ।
नन्दी तु पातयामास मुकुटं दैत्यमस्तकात् ४७ ॥
भृंगी तु ताडयामास पृष्ठे दैत्यं महारुषा ।
वीरभद्रोऽग्रहीद्भार्यां कचे तस्याथ पश्यतः ४८ ॥
भूतराजो जघानैनं लत्तया वैरभावतः ।
दुर्गा नेत्रे निमील्यैव नापश्यत्तं तथाविधम् ४९ ॥
निन्दन्ती तस्य कर्माणि पपाल निजमन्दिरम् ।
आवेशान्सिन्धुदैत्योऽपि वीरभद्रं पदेऽग्रहीत् २.१२२.५० ॥
मुष्टिना नन्दिनं हत्वा शिखामाक्रम्य भृंगिणः ।
अपातयद् भूमितले भूतराजो मुमूर्छ ह ५१ ॥
मुकुटं मस्तके न्यस्य मुक्ताहारं गले तथा ।
तुरंगवरमारुह्य शेषानाहूय सैनिकान् ५२ ॥
हनिष्येऽद्य मयूरेशमित्युक्त्वा युयधे पुनः ।
जगर्ज सहसा दैत्यो गर्जयन्विदिशो दिशः ५३ ॥
गतेषु तेषु वीरेषु चतुर्षु गणनायकम् ।
वदत्सु दैत्यसेनायां सर्वेषां नाशनं कृतम् ५४ ॥
आनीतः सिन्धुदैत्योऽपि रणभूमिं गणेश्वर ।
अल्पसेनाचरैर्युक्तं मोचयैनं भवार्णवात् ५५ ॥
वयमेव हनिष्यामो नाज्ञासीत्तव विघ्नराट् ५६ (५५६२) ॥
इति श्रीगणेशपुराणे क्रीडाखण्डे द्वाविंशोत्तरशततमोध्यायः ॥१२२॥ ॥

अध्याय १२३ प्रारंभ :-
क उवाच ।
आगतं सिन्धुमाकर्ण्य जहृषे स मयूरराट् ।
नीलकण्ठं समारुहय ययौ युद्धाय सत्वरः १ ॥
चतुर्भिरायुधैः सर्वा भासन्विदिशो दिशः ।
कल्पान्तमेघसदृशनादेन नादयन्नभः २ ॥
ददर्श पुरतः सिन्धुं युद्धाय कृतनिश्चयम् ।
सोऽप्येनं समरे दृष्ट्वा पश्यति स्म पुनः पुनः ३ ॥
यथा सिंहं नागराजो गरुडं चाथ वायुभुक् ।
मधुकैटभौ यथा विष्णुं त्रिपुरो वा शिवापतिम् ४ ॥
शुम्भो वापि निशुम्भो वा जगदम्बां महाबलाम् ।
ततो युद्धं प्रकुर्वाते नानाशस्त्रैः परस्परम् ५ ॥
जपाकुसुमसंकाशौ देहौ जातौ तदा तयोः ।
ददाह पृथिवीं साद्रिं शस्त्रसंघदृजोऽनलः ६ ॥
चकम्पे पृथिवी सर्वा साब्धिद्वीपा सपर्वता।
बाणमादाय सिन्धुः स वह्न्यास्त्रेण निमन्त्र्य च ७ ॥
ससर्ज दग्धुं तं देवं मयूरेशं रणांगणे ।
स दहन्देवसेनां तां दशदिक्षु ससर्प ह ८॥
ततः पाशं मयूरेशो मेघास्त्रेण सुयोज्य च ।
न्यक्षिपद्दैत्यसेनायां कम्पयन्भुवनत्रयम् ९ ॥
अशमच्च ततो वह्निर्जलधाराभिवृष्टिभिः।
प्रभूतेनाथ तमसा दिशो व्याप्ता दशापि च २.१२३.१० ॥
विशीर्णाः पर्वतास्ताभिः पतिता वृक्षसंचयाः ।
अयं कि प्रलयः प्राप्त इत्यशोचत्स दैत्यराट् ११ ॥
पवनास्त्रेण तान्मेघांस्तदा सिन्धुर्न्यवादयत् ।
स वायुः कम्पयामास गगनं च दिशो दश १२ ॥
ततो देवोऽमन्त्रयत्स कमलं निजहस्तके ।
पर्वतास्त्रेण सहसा तत्याज दैत्यपुंगवे १३ ॥
उन्मूल्य तद्रुमान्व्योम द्योतयच्च दिशो दश ।॥
अगच्छदैत्यसेनायां प्रासुवत्पर्वतान्बहून् १४ ॥
असंख्यातैर्गिरिवरैश्छादितं पृथिवीतलम् ।
न स्थातुमवकाशोऽभून्न च गन्तुमथापि च १५ ॥
पवनं कुण्ठितं दृष्टवा पर्वतान्सर्वतोऽपि च।
वज्रास्त्रं प्रेरयामास ततो वज्राणि निर्ययुः १६ ॥
असंख्यातैश्च वज्रैश्च पर्वताश्चूर्णितास्तदा ।
ततोंऽकुशं मयूरेशो वज्रास्त्रेण न्यमन्त्रयत १७ ॥
ससर्ज तेषु वज्रेषु वज्रयुद्धमभूत्तदा ।
तच्छब्देन चकम्पे भूः पातालानि दिशो नभः १८ ॥
न्यपदद्वज्रघातेन वह्निर्लोकान्ददाह सः ।
परस्परं निरस्तानि वज्राण्यन्तर्दधुस्तदा १९ ॥
ततोऽवदन्महादैत्योऽमात्यान्प्रति महारुषा।
किमनेन प्रयोगेण भस्म कुर्या क्षणादमुम् २.१२३.२० ॥
शिवबालं शिवास्तन्यपानदक्षं शिवोचितम ।
इत्युक्त्वाऽभिद्रवद्दैत्यो हंतुं तं स गुणेश्वरम् २१ ॥
दधार तं निरीक्ष्यैवमायान्तं दैत्यपुंगवम ।
विराड्रूपो मयूरेशो बिभेद सहसा नभः २२ ॥
चरणाक्रान्त पातालः श्रोत्रव्याप्त दिगन्तरः २३ ॥
सहस्रपादं सहसा निरीक्ष्य सहस्रनेत्रं च सहस्रशीर्षम् ।
खं रोदसी व्याप्य च तिष्ठमानं सिन्धुर्मुमूर्छाथापतच्च भूमौ २४ ॥
आच्छादयन्तं हस्तेन व्योम सवै सुरेश्वरम् ।
सावधानमनाः किंचित्सस्मार रविजं वरम २५ ॥
सिन्धुरुवाच ।
रविणा पूर्वमुक्तोऽहं वरदाने महौजसा ।
आच्छादयेद्यो गगनमेकहस्तेन रेऽसुर २६ ॥
स ते मुक्तिपदं सद्यो नेष्यते बहुकालतः।
अतोनेन रणेनालं यद्भाव्यं तद्भविष्यति २७ ॥
पुनर्निरीक्ष्यमाणोऽसौ ह्रस्वकायं ददर्श तम ।
षड्भुजं तु मयूरेशं परं विस्मयमाययौ २८ ॥
ततोऽवरुह्य देवेशो मयूरेशः शिखण्डिनः ।
उपस्पृश्य जलं शुद्धं जजाप परमं मनुम २९ ॥
परशुं मन्त्रयामास महोव्याप्तं दिगन्तरम्।
लक्षीकृत्य रिपोर्नाभिं सुधामन्त्रेण संयुतम् २.१२३.३० ॥
स्फोटयन्निव ब्रह्माण्डं क्रोधरक्तलोचनः ।
ज्वालामालाकुलं तं स मुमोच गिरिजासुतः ३१ ॥
स मोच्यमानो गगनं नादयन्विदिशो दिशः ।
भासयन्महसा पृथ्वीं सपर्वतवनाकराम् ३२ ॥
दृष्ट्वा दैत्यः समायान्तं परशुं कालसन्निभम् ।
शीघ्रं चक्रे धनुर्घोरं शरं यावद्धि योज्यते ३३ ॥
तावत्स बिभिदे नाभिममृताभियुतं लघु ।
अमृते निःसृते दैत्यो वाताहत इव द्रुमः ३४ ॥
पपात सहसा भूमौ वज्राहत इवाचलः ।
प्रसार्य वक्त्रं रुधिरं वमन्प्राणान्विसृज्य सः ३५॥
मयूरेशप्रतापेन मुक्तिं प्राप सुदुर्लभाम् ।
पश्यतां सर्वलोकानां तदद्भुतमिवाभवत् ३६ ॥
अवतेरुर्विमानानि युद्धं द्रष्टुं स्थितानि ह ।
पपात पुष्पवृष्टिश्च शनैर्मेघा जगर्जिरे ३७ ॥
अशीशमद्रजो भौमं ववौ वातः सुखावहः ।
प्रसेदुश्च दिशः सर्वा गन्धर्वा मधुरं जगुः ३८ ॥
ननृतुश्चाप्सरः सङघास्तुष्टवुर्मुनिदेवताः ।
षडाननादयो वीरा मयूरेशं मुदा युताः ३९ ॥
सर्वे ऊचुः ।
परब्रह्मरूपं चिदानन्दरूपं सदानन्दरूपं सुरेशं परेशम् ।
गुणाब्धिं गुणेशं गुणातीतमीशं मयूरेशमाद्यं नताः स्मो नताः स्मः २.१२३.४० ॥
जगद्वन्द्यमेकं परोंकारमेकं गुणानां परंकारणं निर्विकल्पम् ।
जगत्पालकं हारकं तारकं तं मयूरेशमाद्यं नताः स्मो नताः स्मः ४१ ॥
महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ।
सदा भक्तपोषं परं ज्ञानकोशं मयूरे० ४२ ॥
अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम् ।
सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयूरे०, ४३ ॥
परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ।
असंख्यावतारं निजाज्ञाननाशं मयूरेशमा० ४४ ॥
अनेकक्रियाकारणं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् ।
क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरे० ४५ ॥
महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ।
जनज्ञानहेतुं नृणां सिद्धिदं तं मयू० ४६ ॥
महेशादिदेवैः सदा सेव्यपादं सदा रक्षकं योगिनां चित्स्वरूपम् ।
सदाकामरूपं कृपाम्भोनिधिं तं मयू० ४७ ॥
सदा भक्तानां त्वं प्रसभपरमानन्दसुखदो यतस्त्वं लोकानां परमकरुणामाशु तनुषे ।
षडूर्मीणां वेगं सुरवर सदा नाशय विभो ततोऽ मुक्तिः श्लाघ्या तव भजनतोऽनन्तसुखदात् ४८ ॥
किमस्माभिः स्तोत्रं गजवदन ते शक्यमतुलं विधातुं वा रम्यं गुणनिधिरसि प्रेम जगताम् ।
न चास्माकं शक्तिस्तव गुणगणं वर्णितमहो त्वदीयोऽयं वारां निधिरिव जगत्सर्जनविधिः ४९ ॥
क उवाच ।
एवं स्तुत्वा पुनस्तेऽमुं प्रार्थयामासुरादरात् ।
यदुक्तं ते मयूरेश तत्कृतं परमं वचः२.१२३.५०॥
सर्वेषां सुरसङ्घानामवघ्योऽयं हतोऽसुरः।॥
ततोऽगात्पार्वती तत्र जहृषे चालिलिंग तम् ५१ ॥
शिवोऽपि प्रययौ तत्र समालिंग्य तमब्रवीत् ।
सम्यक्कृतं त्वया वत्स त्रैलोक्यं हर्ष निर्भरम् ५२ ।
सिन्धोर्वधः सर्वसुरैरसाध्यो न च ते श्रमः ।
पराक्रमवतः सर्वलोकरक्षारतस्य च ५३ ॥
चतुर्वेदानिरुप्यस्य सर्वविद्यानिधेरपि ।
एवमुक्त्वा गतास्ते तु सर्वे स्वस्थानमादृताः ५४ ॥
मयूरेशं नमस्कृत्य ततो देवाब्रुवंश्च तम् ।
इदं यः पठते स्तोत्रं स कामॉल्लभतेऽखिलान् ५५ ॥
सहस्रावर्तनात्कारागृहस्थं मोचयेज्जनम् ।
अयुतावर्तनान्मर्त्योऽसाध्यं यत्साधयेत्क्षणात् ५६ ॥
सर्वत्र जयमाप्नोति श्रियं परमदुर्लभाम् ।
पुत्रवान्धनवांश्चैव वशतामखिलं नयेत् ५७ ॥
क उवाच ।
एवमुक्त्वा ह्यनुज्ञाताः साध्वित्युक्त्वा ययुः सुराः ।
मयूरेशो गणैर्युक्तः स्वधाम प्रत्यपद्यत ५८ (५६२०) ॥
इति श्रीगणेशपुराणे क्रीडाखण्डे त्रयोविंशत्युत्तरशततमोऽध्यायः ॥१२३॥ ॥

अध्याय १२४ प्रारंभः- ॥
क उवाच ।
पतिते सिन्धुदैत्ये तु हतशेषा रणे स्थिताः ।
आययुर्गण्डकीं यावत्तावत्ते चिन्तया युताः १ ॥
उग्रा दुर्गा चक्रपाणिरतिष्ठन्विह्वला भृशम् ।
तावत्तेषां दुष्टचिह्नं बभूव विविधं तदा ।२ ॥
उदक्शिराः प्रसुष्वाप काश्चित्तत्राशुभावहः ।
जानुनोर्मस्तकं न्यस्य तस्थौ तूष्णीं चलन्निव ३ ॥
हनौ पाणितलं न्यस्य तस्थौ काचिन्मुदं विना ।
एतस्मिन्नन्तरे दूता यमदूता इवाययुः ४ ॥
अतिम्लानमुखा दीना नाब्रुवन्मूकतां गताः ।
पृष्टास्ते प्राहुर- परे वृत्तान्तं रणभूगतम् ५ ॥
दूता ऊचुः ।
असंख्यातान्महावीरान्हत्वा सिन्धुर्दिवं गतः ।
बालानस्मान्परित्यज्य तेन हीना रुदामहे ६ ॥
निरीक्ष्य देवान्निहतान्क्रुद्धोऽगाद्गिरिजासुतः।॥
अस्त्रैरस्त्राणि संवार्य मुमोच परशुं शितम् ७ ॥
तेन सिन्धुर्मृतस्तत्र पतितो धरणीतले ।॥
मुमूर्छुस्तत्र सर्वेऽपि तदीया नागराश्च ह ८ ॥
श्रुत्वा वार्तां दूतमुखाद्रुरुदुः सर्व एव ते।॥
विललापाथ दुर्गा सा जघान शिर उत्कटम् ९ ॥
मुक्तकेशा मुहुर्वक्त्रं निघ्नती गतभूषणा ।
उग्रा च जननी चास्य चक्रपाणिः पिता तदा २.१२४.१० ॥
पौराश्च रुरुदुस्तत्र निघ्नन्तः पाणिना मुखम् ।॥
अवनौ शिर आस्फाल्य लुलण्ठुर्घोरनिस्वनाः ११ ॥
कश्चिद्धूलिं निचिक्षेप मुखे शिरसि दुःखितः ।
हस्तपृष्ठं ददंशान्यास्ताभ्यां भूमिमथाहनत् १२ ॥
अशपन्गिरिजापुत्रं स्त्रियो भङ्क्त्वा करांगुलीः ।
उग्रोवाच ।
नानायत्नैस्तपसा सूर्यतुष्ट्या नत्या स्तुत्या लङघनैः सर्वदानैः ।
प्रातःकालान्महतस्त्वं कथंचिच्छूरो मानी केन नीतोऽसि रे त्वम् १३ ॥
त्रिलोकनायकेनाहं श्लाघ्या त्रैलो- क्यमंडले ।
शपिष्यन्ति च मां लोका हतभाग्यासि सांप्रतम् १४ ॥
जिताः कृतान्तः पूर्वं ते कथं तेन समागमः ।
प्राप्तस्त्वया कथं पुत्र न जितः पुनरेव सः १५ ॥
सकामो गिरिजापुत्रस्त्वयि याते दिवं सुत ।
मामपृष्ट्वा कथं यातः स्वर्ग लोकं सुखावहम् १६ ॥
दुःखितायां मयि सुत कथं सन्तोषमेष्यसि ।
गर्जन्ति नैव जीमूतास्त्वयि गर्जति पुत्रक १७ ॥
निःशब्दः स कथं पुत्र पतितस्त्वं रणांगणे ।
दुर्गोवाच ।
देहैक्यं कृतवान्धाता दम्पत्योर्वेददर्शनात् १८ ॥
प्राणैक्यं न कृतं तस्माद्ब्रह्मणा मूढबुद्धिना ।
नाहं शचीं च सावित्रीं सौभाग्यमदगर्विता १९ ॥
गणयामि न चान्याश्च सा कथं विधवाऽभवम् ।
स्वहस्तेन च कस्तूरीं चन्दनं च यदा भवान् २.१२४.२० ॥
चर्चति स्म तदांगानि शीतलानि ममाभवन् ।
इदानीं दह्यमानानि शोकेन तानि निर्वप २१ ॥
न भक्षयसि पूर्वं त्वं मद्विना विषमण्वपि ।
स कथं मां विना स्वर्गसुखं भोक्ष्यसि तादृशम् २२ ॥
अपराधं विना भृत्ये नोदासीना भवन्ति हि ।
साधवः समशीलाश्च तत्कथं मामुपेक्षसे २३ ॥
उपाधिरहितं प्रेम कृतं नानाविधं पुरा ।
अनिर्वाच्यं कथं त्यक्त्वा तद्गतोऽसि सुरान्तक २४ ॥
क उवाच ।
तपोवृद्धा ज्ञानवृद्धाः प्राब्रुवन्निष्ठुरं वचः ।
न रोदनं प्रशंसन्ति धर्मशास्त्रविदो जनाः २५ ॥
यदश्रु सुहृदामास्ये प्रेतस्य तत्पतेद्ध्रु - - ॥
तस्मात्तस्य हितं यत्स्यात्तत्कर्तव्यं दयावता २६ ॥
विचार्यमाणे तस्यापि मोक्षोऽदायि कृपावता ।
निर्गुणेन चिदानन्दघनेन ब्रह्मरूपिणा २७ ॥
दयापरवशाज्जन्मबिभ्रता लोकशंकृता ।
मयूरेशेन संग्रामे निघ्नता संमुखं च तम् २८ ॥
आत्मनो नैव मरणं नोत्पत्तिः क्वापि विद्यते ।
अनादित्वान्निर्गुणत्वान्नित्यत्वाद्वेदनिश्चयात् २९ ॥
स्वार्थे हि रोदते जन्तुर्हितं प्रेतस्य नेहते ।
असख्य भारवाड्देवी न भारं सहते धरा २.१२४.३० ॥
प्रेतस्य शेषः कमठो वराहोऽसौ धराधरः ।
इत्युक्त्वा ते तदा शोकं विजहरुर्बुद्धवाक्यतः ३१ ॥
उग्रा च चक्रपाणिश्च दुर्गा च सखिभिः सह ।
नागराश्चापि शोचन्तो ययुः संग्राममण्डलम् ३२ ॥
ददृशुः सेवकैः सिन्धुं वीज्यमानं रणांगणे ।
पतितं वक्त्रकमलं व्यादाय सितलोचनम् ३३ ॥
असृक्स्रवन्तं दुर्गन्धं पक्षिश्वापदसङ्कुलम् ।
उपविष्टास्तु परितः शोचन्तो भृशदुःखिताः ३४ ॥
अंके कृत्वा शिरस्तस्य दुर्गाऽशोचत्खरस्वना ।
पादसंवाहनं नाथ हस्ताभ्यां पूर्वमाचरभ् ३५ ॥
जनमध्ये न तच्छक्यमुत्तिष्ठ प्राणनायक ।
शत्रौ जीवति निद्रां त्वं कथं विराधिगच्छसि ३६ ॥
तन्मुखे स्थापयित्वास्यं हाहाकारं च साऽकरोत् ।
न्यषेधन्वृद्धविज्ञास्तां तत उग्राऽब्रवीद्वचः ३७ ॥
चक्रपाणिः पिता चास्यं क्षालयन्तौ शुशोच तम् ।
उत्तिष्ठ वत्स किं शेषे शेषे रिपुगणे सति ३८ ॥
वज्री वज्राहत इव पतितो धरणीतले ।
इदानीं बालयुद्धे त्वं कथं निपतितो भुवि ३९ ॥
जितः कृतान्तो भ्रूक्षेपात्तद्वशं कथमागतः ।
किंचिद्वाक्यं वद विभो हृदयानन्दकारकम् २.१२४.४० ॥
यस्य शब्देन त्रैलोक्यं कम्पते स्म पुराऽनघ ।
कथं स्ववचनं नाद्य वदसे मन्दविक्रम ४१ ॥
नावाभ्यामपराद्धं ते येन मौनं त्वमाश्रितः ।
न भाषसे रोषवशात्सेनाशेषसमन्त्रित ४२ ॥
कथं विह्वलतां यात कामेभ्यो जितवान्रुचा ।
ततो विज्ञाश्च वृद्धाश्च नानादृष्टान्तदर्शनैः ४३ ॥
समादध्युः प्ररुदतो मृतानुमरणं न हि ।
रामो दाशरथि किं नु लोकान्तरगतो न हि ४४ ॥
विक्रमेण रिपूं जित्वा गतः किं न रघूत्तमः ।
अन्येऽपि शतशो भूपास्त्वत्कृते मरणं गताः ।
कीर्तिं नानाविधां कृत्वा स्वर्गस्था सुखमश्नुते ४५ ॥
क उवाच ।
ततस्ते संस्कृतिं चक्रुर्बिल्वचन्दनदारुभिः ।
दुर्गा सहैव सयाता पातिव्रत्यगुणान्विता ४६ ॥
ततो ययौ मयूरेशं चक्रपाणिः सनागर ।
नमस्कृत्य प्रतुष्टाव बद्धांजलिपुटः शनैः ७ ॥
राजोवाच ।
निर्गुणत्वं परात्मासि चराचरगतिर्विभो ।
त्रयीगम्यो गुणाध्यक्षो विरजो विश्वनायक ४८ ॥
तवैव मायया देवा मोहितस्त्वां न ते विदुः ।
अहं धन्यो नागरिका धन्यास्त्वद्दर्शनाद्विभो ४९ ॥
क उवाच ।
एवं तेन स्तुतो देवः करुणाब्धिर्मयूरराट् ।
उवाच परमप्रीतः सर्वशास्त्रार्थतत्त्ववित् २.१२४.५० ॥
देव उवाच ।
वरं वरय मत्तस्त्वं चक्रपाणे हतार्भक ।
राजोवाच ।
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ५१ ॥
तदा गृहानुपागच्छ पुनीहि नगरीमिमां।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं बर्हिणं स समारुहत् ५२ ॥
ययौ स नगरं पश्चात्त्र्यम्बको गिरिजायुत ।
अग्रतस्ते गणाः सर्वे मुनयो हर्षनिर्भराः ५३ ॥
वाद्यत्सु सर्ववाद्येषु युयुस्ते गण्डकीं पुरीम् ।
नानाध्वजपताकाभिर्युतां सैसिक्तपद्धतिम् ५४ (५६७४) ॥
इति श्रीगणेशपुराणे क्रीडाखण्डे चतुर्विंशत्युत्तरशततमोऽध्यायः ।। १ २४।।

अध्याय १२५ प्रारंभ –
त उवाच।
सभां संवारयामास चक्रपाणिः पुरो गतः ।
परार्ध्यास्तरणैर्वस्त्रैः पताकाध्वजचामरैः १ ॥
नानारत्नेषु दीप्तेषु भूमिस्तम्भगतेषु च ।
अनन्तो दृश्यते यत्र संक्रान्तप्रतिमो नरः २ ॥
ददर्श नगरीं देवो नानाध्वजविराजिताम् ।
प्रासादशिखरारूढाः पश्यन्ति स्मासुरस्त्रियः ३ ॥
ततो मुक्ताः सुरास्ते तं संमुखं चक्रपाणिना ।
आययुर्माधवः शक्रोऽनल ऐलविलोऽपि च ४ ॥
मरुद्रविः शची चान्ये वाद्यघोषेण सत्वरम् ।
स्वस्ववाहात्समुत्तीर्य प्रणेमुः सर्व एव तम् ५ ॥
आलिलिंगुर्मयूरेशं देवाः पौराश्च सादरम् ।
माधवश्च मयूरेशं दृष्ट्वा हर्षसमन्वितः ६ ॥
प्रशशंसुः सिन्धुवधात्सर्वे हर्यादयः सुराः ।
देवा ऊचुः ।
आक्रान्तं विष्टपं येन सहितः क्षणमात्रतः ७ ॥
दत्तानि स्वपदान्याशु नेदृग्दृष्टो न वा श्रुतः ।
अत्र ये वैष्णवाः शैवाः शाक्ताः सौराश्च तेऽप्यमुम् ८ ॥
तत्तद्रूपं निरीक्ष्यैव पुपूजुः परया मुदा ।
मयूरेश जयस्वेति श्रुत्वा वाचः सुविस्मिताः ९ ॥
बालकाश्च सुसंपन्ना मुग्धाः प्रौढाश्च योषितः ।
पुपूजुर्मनसा देवं वृद्धाश्च तरुणास्तदा २.१२५.१० ॥
चक्रपाणिगृहे देवो मध्ये सिंहासने शुभे ११ ॥
उपविष्टो मयूरेशो विबुधाश्च समन्ततः ।
मुनयश्च गणाः सर्वे सप्तकोटिमिता मुने १२ ॥
नुनुवुर्बंदिनः सर्वै धन्या देवा नृपास्तथा ।
ननृतुश्चाप्सरःसङ्घा जगुस्ते नारदादयः १३ ॥
चक्रपाणिस्ततः सर्वान्संपूज्य विधिवत्तदा ।
उवाच च सभामध्ये धन्यं मे जन्म कर्म च १४ ॥
इन्द्रादयो लोकपालाः समितौ यस्य मेऽधुना ।
शतजन्मार्जितैः पुण्यैर्मयूरेशो निरीक्षितः १५ ॥
क उवाच ।
इन्द्रो दृष्ट्वा मयूरेशं प्रथमं पूजितं रुषा ।
अब्रवीत्सहसा भ्रान्तो मायया जगदीशितुः १६ ॥
शक्र उवाच ।।॥
चतुर्मुखोऽपि लक्ष्मीशो जगदुत्पत्तिकारकः ।
मूढोऽसि चक्रपाणे त्वमर्भकस्य प्रपूजनात् १७ ॥
अस्मान्धिक्कृत्य यन्मोहात्पूजितो बालकस्त्वया ।
जनकं सर्वलोकानां त्यज्य संहारकारकम् १८ ॥
त्रैलोक्यजननीमम्बां सृष्टिस्थित्यन्तकारिणीम् ।
रविं त्रैलोक्यनेतारं त्रयीकर्मप्रवर्तकम् १९ ॥
हित्वा संपूजितो बालो नेदं सम्यक्कृतं त्वया २.१२५.२० ॥
क उवाच ।
एवं वदति देवेन्द्रे चक्रपाणिस्तदाऽब्रवीत् ।
रुद्रात्सूर्यात्कुबेराच्च शकाच्च मरुतोनलात् २१ ॥
दृष्टः पराक्रमोऽतीव सिन्धुदैत्यविनाशनात् ।
मोक्षात्सर्वसुराणां च कारागाराद्गुणेश्वर २२ ॥
योऽवतीर्णो भुवो भारं हर्तुं शिवनिवेशने ।
परमात्मानन्तशक्तिर्नानादैत्यविभंजनः २३ ॥
क उवाच ।
एवं वदति तस्मिंस्तु श्रुतः शब्दः सुरैर्महान् ।
मूर्छिताः पतिताः केचिदब्रह्माण्डस्फोटशंकया २४ ॥
चकम्पे धरणी सर्वा न प्राज्ञायत किंचन ।
कोटिसूर्यप्रकाशेन सहसाच्छादितं जगत् २५ ॥
ततस्तैस्त्रिदशैस्तत्र दृष्टो देवोऽतिसुन्दरः ।
नानालंकारसंयुक्तो दशबाहुर्गजाननः २६ ॥
एवं दृष्ट्वा स्वरूपं ते विस्मितास्त्रिदशास्तदा ।
पुनस्तमेव ददृशुः पंचरूपिणमीश्वरम् २७ ॥
पद्मासनगतं मध्यं वक्रतुण्डं शिवं पुनः ।
आग्नेय्यां नैर्ऋते सूर्यं पार्वतीं मारुतेऽपि च २८ ॥
नारायणं तथेशाने ततो भ्रममिताः सुराः।
ततस्ते शुश्रुवुर्व्योमवाणीं भ्रमनिवारिकाम् २९ ॥
आराध्योऽयंसर्वजनैरेको जातः स पंचधा ।
अनादिनिधनो देवो जगद्व्यापी गजाननः २.१२५.३० ॥
अयमेव सदा पूज्यः सर्वविघ्नविनाशनः ।
देवैर्मनुष्यैर्यक्षैश्च नागै रक्षोभिरेव च ३१ ॥
एतास्मिन्पूजिते पंचपूजनं च भविष्यति ।
न बुद्धिभेदं तनुयादेतस्मिन्नरकाय सा ३२ ॥
क उवाच ।
श्रुत्वैवं ते मयूरेशं शुण्डादण्डविराजितम् ।
ददृशुर्वज्रिमुख्यास्ते आद्यमोंकाररूपिणम् ३३ ॥
ततः प्रबुद्धास्ते देवास्त्यक्त्वा भ्रान्तिं स्मयं च तम्।
पुपूजुर्जयशब्दैस्तं सर्वान्तर्यामिणं विभुम् ३४ ॥
ततः पुपूजे हर्षेण चक्रपाणिर्गुणेश्वरम् ।
पंचामृतैः शुद्धजलैर्दिव्यवस्त्रैश्च भूषणैः ३५ ॥
पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि ।
फलताम्बूलनिचयैर्दक्षिणाभिरनेकशः ३६ ॥
नीराजनैर्मन्त्रपुष्पैर्नतिभिः स्तुतिभिस्तदा ।
तथैव पूजयामास भक्त्या सर्वसुरानपि ३७ ॥
उवाच तान्नृपवरो धन्योऽहं च प्रपूजनात् ।
यतो नैतादृशः क्वापि जातः सर्वसमागमः ३८ ॥
ततस्तत्राब्रवीद्हृष्टो नारदश्चतुराननम् ।
नारद उवाच ।
सिद्धबुद्धिर्विवाहार्थमाज्ञया तेऽब्जसंभव ३९ ॥
शिवं शिवां च विज्ञाप्य निश्चयः प्राङ्मया कृतः ।
मयूरेशाय सम्यक्ते दातव्ये बहुलक्षणे २.१२५.४० ॥
ततः सर्वे सुरा देवं ब्रह्माणं मन्मथातुराः ।
प्रत्येकं ते अयाचन्त मम देहीति सादरम् ४१ ॥
ततो ब्रह्मा तयोर्हस्ते मालां दत्त्वाऽब्रवीदिदम् ।
क उवाच ।
त्रयस्त्रिंशत्कोटिसुरेष्वेको यो भासते ह्रदि ४२ ॥
तमेव वृणुतं देव्यौ मालाभ्यां मत्समक्षतः ।
त्यक्त्वा सर्वान्सुरांस्ते तु सिद्धिबुद्धी उभे अपि ४३ ॥
मयूरेशगले माले निक्षिपेतां मुदा तदा ।
विमनस्कास्ततो देवा असृजञ्श्वासामारुतम्॥
ताभ्यां जानुगताभ्यां तु शुशुभे स मयूरराट् ।
ब्रह्मा यथाविधि तयोर्विवाहमकरोत्तदा ४५ ॥
उवाच च सभामध्ये मया लब्धं हृदि स्थितम् ।
न्यवेदयत्तं देवेशं मयूरेशं विधानतः ४६ ॥
अद्ययावन्मयैते वै पालिते बहुयत्नतः ।
इदानीं ते मया दत्ते रक्षस्व बहुयत्नतः ४७ ॥
तत इन्द्रादयो देवा मयूरेशं व्यजिज्ञपुः ।
तव प्रसादाद्देवेश मुक्ताः कारागृहात्ततः ४८ ॥
ततः सिन्धुर्गतो मोक्षं स्वस्थानं कृपया तव ।
यास्यामो देह्यनुज्ञां नो मुनिभिर्गोतमादिभिः ४९ ॥
क उवाच ।
ददावाज्ञां मयूरेशो यातुकामान्मुदा तदा।
पार्वती च स्नुषे चोभे स्वांकमारोप्य सादरम् २.१२५.५० ॥
मयूरेशं च परमं हर्षमाप शिवान्विता ।
ददौ दानान्यनेकानि वासांस्याभरणानि च ५१ ॥
य इदं शृणुतान्मर्त्यो विवाहं च वधं शुभम् ।
सिंधोर्जयं गणेशस्य सर्वकामाँल्लभेन्नरः ५२ (५७२६) ॥
इति श्रीगणेशपुराणे क्रीडाखण्डे पंचविंशोत्तरशततमोऽध्यायः ॥१२५॥ ॥