गणेशाष्टकम् (बृहत्सोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
गणेशाष्टकम्
गणेशपुराणम्
१९५३

॥ गणेशाष्टकम् ॥

सवें ऊचुः-

यतोऽनन्तशक्तरनन्ताश्च जीवा:
यतो निर्गुणादप्रमेया गुणास्ते ।
यो भावि सर्व त्रिधा भेदभिन्न
सदा तं गणेशं नमामो भजामः॥१
यतश्चाविरासीजगत्सर्वमेत-
तथाब्जासनो विश्वगो विश्वगोप्ता ।
तयेन्द्रादयो देवसङ्घा मनुष्याः
सदा तं गणेशं नमामो भजामः ॥२
यतो वह्निमान् भवो भूर्जलं च
यतः सागराश्चन्द्रमा व्योम वायुः ।
यता सावरा जङ्गमा वृक्षसङ्काः
सदा तं गणेशं नमामो भजामः ॥३

यतो दानवाः किन्नरा यक्षसाङ्घाः।
यतश्चारणा बारणा: श्वापदाव।
यतः पक्षिकीटा यतो वीरघम
सदा तं गणेशं नमामो भजामः ।।४
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यता
सम्पदो भक्तसन्तोषिकाः स्युः।
यतो विघ्ननाशो यतः कार्यसिद्धि:
सदा तं गणेशं नमामो भजामः ॥५
यतः पुत्रसम्पद्यतो वाञ्छितार्थो
यतोऽभक्तविघ्नास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव
सदा तं गणेशं नमामो भजामः ॥६
यतोऽनन्तशक्तिः स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना
सदा तं गणेशं नमामो भजामः ॥७

वतो घेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा
तं गणेश नमामो भजामः ॥
पुनरूचे गणाधीशः स्तोत्रमतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस सर्वकार्य भविष्यति ॥
इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टक

। सम्पूर्णम् ॥