गणेशमानसपूजा

विकिस्रोतः तः
गणेशमानसपूजा
मौद्गल्यम्
१९५३

॥गणेशमानसपूजा॥

गृत्समद उवाच-

विघ्नेश वीर्याणि विचित्रकणि
   बन्दीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं
   ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥ १
एवं मया प्रार्थितविघ्नराज-
   श्चित्तेन चोत्थाय बहिर्गणेशः।
तं निर्गतं वीक्ष्य नमन्ति देवाः
   शम्भ्वादयो योगिमुखास्तथाहम् ॥ २
क्षौचादिकं ते परिकल्पयामि
   हेरम्ब वै दन्तविशुद्धिमेवम् ।
वस्त्रेण सम्प्रोक्ष्य मुखारविन्दं
   देवं समायां विनिवेशयामि॥ ३

द्विजादिसर्वैरभिवन्दितं च
   शुकादिभिर्मोदसुमोदकाद्यैः।
सम्भाष्य चालोक्य समुत्थितं तं
   सुमण्डपं कल्प्य निवेशयामि ॥ ४
रत्नैः सुदीप्तैः प्रतिविम्बि तं
   पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं
   सङ्कल्प्य देवं विनिवेशयामि ॥ ५
सिद्ध्या च बुद्ध्या सह विघ्नराज
   पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
   चित्तेन दत्तं च सुखोष्णभावम् ॥ ६
ततः सुवस्त्रेण गणेशमादौ
   सम्प्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबन्धो
   मनोविलीनं कुरु ते पदाब्जे ॥ ७

कर्पूरतैलादिसुवासितं तु
   सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव-गजानन त्वं
   कृपाकटाक्षेण विलोकयाशु ॥ ८
प्रवालमुक्ताफलहाटकाद्यैः
   सुसंस्कृतं ह्यन्तरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व
   मया प्रदत्तं गणराज ढुण्ढे ॥ ९
सौगन्ध्ययुक्तं मधुपर्कमाद्यं
   सङ्कल्पितं भावयुतं गृहाण ।
पुनस्तथाचम्य विनायकं त्वं
   भक्तांश्च भक्तेश सुरक्षयाशु ॥ १०
सुवासितं चम्पकजातिकाद्यै -
   स्तैलं मया कल्पितमेव ढुण्ढे ।
गृहाण तेन ग्रविमर्दयामि
   सर्वाङ्गमेवं तव सेवनाय ॥ ११

ततः सुखोष्णेन जलेन चाह-
   मनेकतीर्थाहृतकेन ढुण्ढिम् ।
चित्तेन शुद्धेन च स्नापयामि
   स्नानं मया दत्तमथो गृहाण ॥ १२
ततः पयःस्नानमचिन्त्यभाव
   गृहाण तोयस्य तथा गणेश |
पुनर्दधिस्नानमनामयं त्वं
   चित्तेन दत्तं च जलस्य चैव ॥ १३
ततो घृतस्नानमपारवन्द्य
   सुतीर्थजं विघ्नहर प्रसीद |
गृहाण चित्तेन सुकल्पितं तु
   ततो मधुस्नानमथो जलस्य ॥ १४
सुशर्करायुक्तमथो गृहाण
   स्नानं मया कल्पितमेव ढुण्ढे ।
ततो जलस्नानमघापहन्तृ
   विघ्नेश मायां मम वारयाशु ॥ १५

सुयक्षपङ्कस्थमथो गृहाण
   स्नानं परेशाधिपते ततश्च ।
कौमण्डलीसम्भवजं कुरुष्व
   विशुद्धमेवं परिकल्पितं तु ॥ १६
ततस्तु सूक्तैर्मनसा गणेशं
   सम्पूज्यदूर्वादिभिरल्पभावैः ।
अपारकैर्मण्डलभूतब्रह्म -
   णस्पत्यकैस्तं ह्यभिषेचयामि ॥ १७
ततः सुवस्त्रेण तु प्रोञ्छनं वै
   गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन ढुण्ढे
   ह्याचान्तमेवं कुरु विघ्नराज ॥ १८
अग्नौ विशुद्धे तु गृहाण वस्त्रे
   ह्यनर्घ मौल्ये मनसा मया ते
दत्ते परिच्छाय निजात्मदेहं
   ताभ्यां मयूरेश जनांश्च पालय ॥ १९

आचम्य विघ्नेश पुनस्तथैव
   चित्तेन दत्तं मुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
   नमो यथा नारक संयुतं तु ॥ २०
यज्ञोपवीतं त्रिगुणस्वरूपं
   सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं
   गृहाण भक्तोद्धृतिकारणाय ॥ २१
आचान्तमेवं मनसा प्रदत्तं
   कुरुष्व शुद्धेन जलेन ढुण्ढे ।
पुनश्च कौमण्डलकेन पाहि
   विश्वं प्रभो खेलकरं सदा ते ॥ २२
उद्यद्दिनेशाभमथो गृहाण
   सिन्दूरकं ते मनसा प्रदत्तम् ।
सर्वाङ्गसंलेपनमादराद्वै
   कुरुष्व हेरम्ब च तेन पूर्णम् ॥ २३

सहस्रशीर्षं मनसा मया त्वं
   दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण
   ब्रह्मेश ते मस्तकशोभनाय ॥ २४
विचित्ररत्नैः कनकेन ढुण्ढे
   युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुण्डलानि
   गृहाण शूर्पश्रुतिभूषणाय ॥ २५
शुण्डाविभूषार्थमनन्तखेलिन्
   सुवर्णजं कञ्चुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया य-
   द्दत्तं प्रभो तत्सफलं कुरुष्व ॥ २६
सुवर्णरत्नैश्च युतानि ढुण्ढे
   सदैकदन्ताभरणानि कल्प |
गृहाण चूडाकृतये परेश
   दत्तानि दन्तस्य च शोभनार्थम् ॥ २७

रत्नैः सुवर्णेन कृतानि तानि
   गृहाण चत्वारि मया प्रकल्प्य |
सम्भूषय त्वं कटकानि नाथ
   चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ २८
विचित्ररत्नैः खचितं सुवर्ण-
   सम्भूतकं गृह्य मया प्रदत्तम् ।
तमाङ्गुलीष्वङ्गुलीकं गणेश
   चित्तेन संशोभय तत्परेश ॥ २९
विचित्ररत्नैः खचितानि ढुण्ढे
   केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ
   गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३०
प्रवालमुक्ताफलरत्नजैस्त्वं
   सुवर्णसूत्रैश्च गृहाण कण्ठे ।
चित्तेन दत्ता विविधाश्च माला
   उरूदरे शोभय विघ्नराज ॥ ३१

चन्द्रं ललाटे गणनाथ पूर्णं
   वृद्धिाक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते
   भक्तिप्रिय त्वं प्रकटीकुरुष्व॥ ३१
चिन्तामणिं चिन्तितदं परेश
   हृद्देशगं ज्योतिर्मयं कुरुष्व ।
मणिं सदानन्दसुखप्रदं च
   विघ्नेश दीनार्थद पालयस्व ॥ ३२
नाभौ फणीशं च सहस्रशीर्षं
   संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन
   वरप्रदानं सफलं परेश ॥ ३३
कटीतटे रत्नसुवर्णयुक्तां
   काञ्चीं सुचितेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपनीं ते
   प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३४

हेरम्ब ते रत्नसुवर्णयुक्ते
   सुनूपुरे मञ्जिरके तथैव ।
सुकिङ्किणीनादयुते सुबुद्ध्या
   सुपादयोः शोभय मे प्रदत्ते ॥ ३६
इत्यादि नानाविध भूषणानि
   तवेच्छया मानसकल्पितानि |
संभूषयान्येव त्वदङ्गकेषु
   विचित्रधातुप्रभवाणि ढुण्ढे ॥ ३७
सुचन्दनं रक्तममोघवीर्यं
   सुघर्षितं ह्यष्टकगन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त
   गृहाण ते त्वङ्गविलेपनार्थम् ॥ ३८
लिप्तेषु वैचित्र्यमथाष्टगन्धै-
   रङ्गेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं
   ततः सुरक्तं रविमेव फाले ॥ ३९

घृतेन वै कुङ्कुमकेन रक्तान्
   सुतण्डुलांस्ते परिकल्पयामि ।
फाले गणाध्यक्ष गृहाण पाहि
   भक्तान्सुभक्तिप्रिय दीनबन्धो ॥ ४०
गृहाण भो चम्पकमालतीनि
   जलपङ्कजानि स्थलपङ्कजानि ।
चित्तेन दत्तानि च मल्लिकानि
   पुष्पाणि नानाविधवृक्षजानि ॥ ४१
पुष्पोपरि त्वं मनसा गृहाण
   हेरम्ब मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पिवानि
   ह्यपारकाणि प्रणवाकृते तु ॥ ४२
दूर्वाङ्कुरान्वै मनसा प्रदतां-
   स्त्रिपञ्चपत्रैर्युतकांश्च स्निग्धान् ।
गृहाण विघ्नेश्वर सङ्ख्यया त्वं
   हीनांश्च सर्वोपरि वक्रतुण्ड ॥ ४३

दशाङ्गभूतं मनसा मया ते
   धूपं प्रदत्तं गणराज ढुण्ढे ।
गृहाण सौरभ्यकरं परेश
   सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ ४४
दीपं सुवर्त्या युतमादरात्ते
   दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-
   तैलादिसम्भूतममोघदृष्टे ॥ ४५
भोज्यं तु लेह्यं गणराज पेयं
   चोष्यं च नानाविधषड्रसाढ्यम् ।
गृहाण नैवेद्यमतो मया ते
   सुकल्पितं पुष्टिपते महात्मन् ॥ ४६
सुवासितं भोजनमध्यभागे
   जलं मया दत्तमथो गृहाण ।
कमण्डलुस्थं मनसा गणेश
   पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७

ततः करोद्वर्तनकं गृहाण
   सौगन्ध्ययुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन
   सुकल्पितं नाथ गृहाण ढुण्ढे ॥ ४८
पुनस्तथाचम्य सुवासितं च
   दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते
   संप्रोञ्छनं हस्तमुखे करोमि ॥ ४९
द्राक्षादिरम्भाफलचूतकानि
   खार्जूरकार्कन्धुकदाडिमानि ।
सुखादयुक्तानि मया प्रकल्प्य
   गृहाण दत्तानि फलानि ढुण्ढे ॥ ५०
पुनर्जलेनैव करादिकं ते
   संक्षालयेऽहं मनसा गणेश ।
सुवासितं तोयमथो पिबस्व
   मया प्रदत्तं मनसा परेश ॥ ५१

अष्टाङ्गयुक्तं गणनाथ दत्तं
   ताम्बूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं
   सदासकृत्तुण्डविशोधनार्थम् ॥ ५२
ततो मया कल्पितके गणेश
   महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्तवस्त्रै-
   रनर्घ्यसञ्छादितके प्रसीद ॥ ५३
ततस्त्वदीथावरणं परेशं
   सम्पूजयेऽहं मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु
   त्वत्पीतिकामार्थमनाथबन्धो ॥ ५४
गृहाण लम्बोदर दक्षिणां ते
   ह्यसङ्ख्यभूतां मनसा प्रदत्ताम् ।
सौवर्णमुद्रादिकमुख्यभावां
   पाहि प्रभो विश्वमिदं गणेश ॥ ५५

राजोपचारान्विविधान्गृहाण
   हस्त्यश्वछत्रादिकमादाराद्वै ।
चित्तेन दत्तान् गणनाथ ढुण्ढे
   ह्यपारसङ्ख्यान् स्थिरजङ्गमांस्ते ॥ ५६
दानाय नानाविधरूपकांस्ते
   गृहाण दत्तान्मनसा मया वै ।
पदार्थभूतान् स्थिरजंगमांश्च
   हेरम्ब मां तारय मोहभावात् ॥ ५७
मन्दारपुष्पाणि शमीदलानि
   दूर्वाङ्कुरांस्ते मनसा ददामि ।
हेरम्ब लम्बोदरदीनपाल
   गृहाण भक्तं कुरु मां पदे ते ॥ ५८
ततो हरिद्रामबिरं गुलालं
   सिन्दूरकं वे परिकल्पयामि ।
सुवासितं वस्तु सुवासभूतै-
   र्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९

ततः शुकाद्याः शिवविष्णुमुख्या
   इन्द्रादयः शेषमुखास्तथान्ये ।
मुनीन्द्रकाः सेवकभावयुक्ताः
   सभासनस्थं प्रणमन्ति ढुण्ढिम् ॥ ६०
वामाङ्गके शक्तियुता गणेशं
   सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।
अत्यन्तभावेन सुसेवते तु
   मायास्वरूपा परमार्थभूता ॥ ६१
गणेश्वरं दक्षिणभागसंस्था
   बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेश
   मायासु साङ्ख्यप्रदचित्तरूपाः ॥ ६२
प्रमोदमोदादय एव पृष्टे
   गणेश्वरं भावयुता भजन्ते ।
भक्तेश्वरा मुद्गलशम्भुमुख्याः
   शुकादयस्तं स्म पुरो भजन्ते ॥ ६३

गन्धर्वमुख्या मधुरं जगुश्च
   गणेश गीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ता-
   च्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४
इत्यादिनानाविधभावयुक्तैः
   संसेवितं विघ्नपतिं भजामि ।
चित्तेन बुध्वा तु निरञ्जनं वै
   करोमि नानाविधदीपयुक्तम् ॥ ६५
चतुर्भुजं पाशधरं गणेशं
   तथाङ्कुशं दन्तयुतं तमेवम् ।
त्रिनेत्रयुक्तं स्वभयङ्करं तं
   महोदरं चैकरदं गजास्यम् ॥ ६६
सर्पोपवीतं गजकर्णधारं
   विभूतिमिः सेवितपादपद्मम् ।
ध्याये गणेशं विविधप्रकारैः
   सुपूजितं शक्तियुतं परेशम् ॥ ६७

ततो जपं वै मनसा करोमि
   स्वमूलमन्त्रस्य विधानयुक्तम् ।
असङ्ख्यभूतं गणराज हस्ते
   समर्पयाम्येव गृहाण ढुण्ढे ॥ ६८
आरात्रिकां कर्पुकादिभूता-
   मपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लम्बोदर तां गृहाण
   ह्यज्ञानध्वान्ताघहरां निजानाम् ॥ ६९
वेदेषु वैघ्नेश्वरकैः सुमन्त्रैः
   सुमन्त्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तेन मया प्रदत्त-
   मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥ ७०
अपारवृत्त्या स्तुतिमेकदन्त
   गृहाण चित्तेन कृतां गणेश ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः
   सर्वैः परेशाधिपते मया ते ॥ ७१

प्रदक्षिणा मानसकल्पितास्ता
   गृहाण लम्बोदर भावयुक्ताः ।
सङ्ख्याविहीना विविधस्वरूपा
   भक्तान्सदा रक्ष भवार्णवाद्वै ॥ ७२
नतिं ततो विघ्नपते गृहाण
   साष्टाङ्गकाद्यां विविधस्वरूपाम् ।
सङ्ख्याविहीनां मनसा कृतां ते
   सिद्ध्या च बुद्ध्या परिपालयाशु ॥ ७३
न्यूनातिरिक्तं तु मया कृतं चे-
   त्तदर्थमन्ते मनसा गृहाण ।
दूर्वाङ्कुरान्विघ्नपते प्रदत्तान्
   सम्पूर्णमेवं कुरु पूजनं मे ॥ ७४
क्षमस्व विघ्नाधिपते मदीयान्
   सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व
   सम्प्रार्थयेऽहं मनसा गणेश ॥ ७५

ततः प्रसन्नेन गजाननेन
   दत्तं प्रसादं शिरसाभिवन्द्य ।
स्वमस्तके तं परिधारयामि
   चित्तेन विघ्नेश्वरमानतोऽस्मि॥ ७६
उत्थाय विघ्नेश्वर एव तस्मा-
   द्गतस्ततस्त्वन्तरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
   गताः सुचित्तेन च चिन्तयामि ॥ ७७
सर्वान्नमस्कृत्य ततोऽहमेव
   भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावै-
   र्भक्तैर्गणेशस्य च खेलयामि ॥ ७८
एवं त्रिकालेषु गणाधिपं तं
   चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं
   विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ ७९

गणेशपादोदकपानकं च
   उच्छिष्टगन्धस्य सुलेपनं तु ।
निर्माल्यसन्धारणकं सुभोज्यं
   लम्बोदरस्यास्तु हि भुक्तशेषम् ॥ ८०
यं यं करोम्येव तदेव दीक्षा-
   गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं
   कुरुष्व मां ब्रह्मपते दयालो॥ ८१
ततस्तु शय्यां परिकल्पयामि
   मन्दारकूर्पासकवस्त्रयुक्ताम् ।
सुवासपुष्पादिभिरर्चितां ते
   गृहाण निद्रां कुरु विघ्नराज ॥ ८२
सिद्ध्या च बुद्ध्या सहितं गणेशं
   सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
   ध्यात्वा हृदि ब्रह्मपतिं तदीयः॥ ८३

एतादृशं सौख्यममोघशक्ते
   देहि प्रभो मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो
   भवामि भक्तिरसलालसोऽहम् ॥ ८४
गार्ग्य उवाच-
एवं नित्यं महाराज गृत्समदो महायशाः ।
चकार मानसीं पूजां योगीन्द्राणां गुरुः स्वयम् ॥ ८५
य एतां मानसीं पूजां करिष्यति नरोत्तमः।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ७६
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७
यद्यदिच्छति तत्तद्वै सफलं तस्य जायते ।
अन्ते स्वानन्दगः सोऽपि योगिवन्द्यो भविष्यति ॥ ८८
॥ इति श्रीमदान्त्ये मौद्गल्ये मानसपूजा समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=गणेशमानसपूजा&oldid=319875" इत्यस्माद् प्रतिप्राप्तम्