गणेशमहिमस्तोत्रम्

विकिस्रोतः तः
गणेशमहिमस्तोत्रम्
पुष्पदन्तः
१९५३

॥ गणेशमहिमस्तोत्रम् ॥
अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित-
स्तवा वक्ष्ये स्त्रोत्रं प्रथमपुरुषस्यात्र महतः।
यतो जातं विश्वं स्थितमपि सदा यत्र विलय:
स कीनग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः॥ १
गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधा:
रषिं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः ।
वदन्त्येक शाक्ता जगदुदयमूलां परशिवां
न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥ २
वथेशं योगज्ञा गणपतिमिमं कर्म निखिलं
समीमांसा वेदान्तिन इति परं ब्रह्म सकलम् ।
अजां साङ्ख्यो ब्रूते सकलगुणरूपां च सततं
प्रकारं न्यायस्त्वथ जगति बौद्धा धियमिति ॥ ३
कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणि-
र्बथाधीर्यस्य खात्स च तदनुरूपो गणपतिः ।

महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुव-
द्ध्वनिर्ज्योतिबिन्दुर्गगनसदृशः किञ्च सदसत् ॥ ४
अनेकास्योऽपाराक्षिकरचरणोऽनन्तहृदय-
स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्वः शच्या विविधगुणकर्मैकसमये
त्वसङ्ख्यापातानन्ताभिमतफरदोऽनेकविषये ।।५
न यस्यान्तो मध्यो न च भवति चादिः सुमहता-
मलितः कृत्वत्थं सकलमपि खंवत्स च पृथक् ।
स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियकरो
नमस्तस्मै देवाय सकलसुवन्याय महते ॥ ६
गणेशाद्यं बीजं वहनवमितापल्लवयुत
मनुश्चैकार्णोऽयं प्रणवसहितोऽभीष्टफलदः ।
सबिन्दुश्चाङ्गाद्या गणकऋषिछन्दोऽस्य च निचृत्
स देवः प्राग्बीजं विपदपि च शक्तिर्जपकृताम् ॥ ७
गकारो हेरम्बः सगुण इति निर्गुणमयो
द्विधाप्येको जातः प्रकृतिपुरुषो ब्रह्म हि गणः ।

सशयोत्पत्तिस्थितिलयकरोऽयं प्रमथको
यतो भूतं भव्यं भवति पतिरीशो गणपतिः ॥ ८
गकारः कण्ठोर्ध्वं गजमुखसमो मर्त्यसदृसो
णकारः कण्ठाधो जठरसदृशाकार इति च ।
अघोभावः कठ्यां चरण इति हीशोस्य च तनु-
र्विभावीत्थं नाम त्रिभुवनसमं भूर्भुवः सुवः॥ ९
गणेशेति व्यात्मकमपि वरं नाम सुखद
सकृत्प्रोच्चैरुचारितमिति नृभिः पावनकरम् ।
गणेशस्यैकत्य प्रतिजपकरस्यास सुकृतं
न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः॥
गणेशेत्याह्वं यः प्रवदति मुहुस्तस्यं पुरतः
प्रपश्यस्तद्वकं स्वयमपि गणस्तिष्ठति तदा ।
स्वरूपस्य ज्ञानं त्वमुक इति नान्नास्य भवति
प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥ ११
गणेशो विश्वेऽस्मिनिस्थत इह च विश्वं गणपतौ
गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम् ।

समुक्तं नामैकं गणपतिपदं मङ्गलमयं
तदेकास्ये दृष्टे सकलविबुधास्वेक्षणसमम् ॥१२
बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये
क्षणाक्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत् ।
वने विद्यारम्भे युधि रिपुमये कुत्र गमने
प्रवेशे प्राणान्ते गणपतिपदं चाशु विशति ॥ १३
गणाध्यक्षो ज्येष्ठः कपिल अपरो मङ्गालनिधि-
र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।
वरानीशो ढुण्ढिर्गजवदननामा शिवसुतो
मयूरेशो गौरीतनय इति नामानि पठवि ॥१४
महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः
क्षितिस्तायं वह्निः श्वसन इति खं स्वद्रिरुधिः ।
कुजस्तारः शुक्रो पुरुरुडबुधोऽगुश्च धनदो
यमः पाशी काव्यः शनिरखिलरूपो गणपतिः॥
मुखं वह्निः पादौ हरिरपि विधाता प्रजननं
रविर्नेत्रे चन्द्रो हृदयमपि कामोऽस्य मदनः ।

करौ शक्रः कठ्यामवनिरुदुरं भाति दशनं
गणेशस्यासन्वै ऋतुमयवपुश्चैव सकलम् ॥१६
अनर्ध्यालङ्कारैकणवसनैर्भूषिततनुः
करीन्द्रायः सिंहासनमुपगवो भाति बुधराद ।
स्मितासात्तन्मध्येऽप्युदितरविबिम्बोपमरुचिः
त्विता सिद्धिर्वामे मविरितरगा चामरकरा ॥ १७
समन्तात्तस्यासन्प्रवरमुनिसिद्धासुरगणाः
प्रशंसंतीयाने विविधनुर्विभिः साञ्जलिपुटा।
बिडौजावमादिमिरवृतो भक्तनिकर-
र्गवकोबक्रीडामोदप्रसुविकटाद्यैः सहचरैः ॥१८
बशिलाधष्टाष्टादशदिगखिलालोलमनुवाक्
धृतिः पादूः खड्गोञ्जनरसवला: सिद्धय इमा:।
सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया:
गणेशं सेवन्तेऽप्यविनिकटसूपायनकरा: ॥ १९.
मृगाहाखा रम्भाप्रभृतिगणिका यस्य पुरत:
सुसङ्गीतं कुर्वन्त्यपि कुतुकगन्धर्वसहिताः ।

मुदः पारो नात्रेत्यनुपमपदे दौर्विगलिता
स्थिरं जातं चित्तं चरणमवलोक्यास्य विमलम् ॥२०
हरेणार्य ध्यातस्त्रिपुरमथने चासुरवधे
गणेशः पार्वत्या बलिविजयकालेऽपि हरिणा ।
विधात्रा संसृष्टादुरगपतिना क्षोणिधरणे
नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा ॥ २१
अयं सुप्रासादे सुर इव निजानन्दभुवने
महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः ।
शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे
स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः ॥ २१
अमुध्मिन्सन्तुष्टे गजवदन एवापि विबुधे
ततस्ते सन्तुष्टात्रिभुवनगताः स्युर्बुधगणाः ।
दयालुर्हेरम्बो न च भवति यस्मिंश्च पुरुषे
वृथा सर्व तस्य प्रजननमतः सान्द्रतमसि ॥ २३
वरेण्यो भ्रशुण्डिर्भृगुगुरुकुजा मुद्गलमुखा
ह्यपास्तिद्भक्ता जपहवनपूजास्तुतिपराः।

गणेशोऽयं भक्तप्रिय इति च सर्वत्र गदितं
विभक्तियंत्रास्ते स्वयमपि सदा तिष्ठति गणः॥ २४
मृदः काश्चिद्धातोश्छदविलिखिता वापि दृषद:
स्थता व्याजान्मूर्तिः पथि यदि बहिर्येन सहसा ।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वा गणपतेः
श्रुवा शुद्धो मर्त्यो भवति दुरिताद्विमय इति ॥ २५
पहिरियो गजवदनवधर्मेन्धनमयं
प्रशसं या कृत्वा विविधकुशलतत्र निहतम् ।
प्रभावाचनमूर्खा भववि सदन मङ्गलमयं
बिलोक्यानन्दखो भवति जगतो विस्मय इति ॥
सिते माद्रे मासे प्रतिशरदि मध्याह्नसमये
मृदो मूर्ति कृत्वा गणपतितिथौ दुण्ढिसहशीम् ।
समर्थत्युत्साहः प्रभवति महान् सर्वसहने
विलोक्यानन्दतां प्रभवति नृणां विस्मय इति ।।
ज्या का श्लोको वरयति महिम्नो गणपतेः
कथं स श्लोकेऽस्मिन् स्तुत इति भवेत्सम्प्रपतिते

स्मृतं नामायैक सकदिदमनन्तायसम
यतो यस्यै कस्य स्तवनसदृशं नान्यदपरम् ॥२८
गजवदन विभो यद्वर्णितं वैभवं ते
त्विह जनुषि ममत्थं चार तद्दर्शयाशु ।
त्वमसि च करुणायाः सागरः कृत्नदाता-
प्यति तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि ॥ २९
सुस्तोत्रं प्रपठतु नियमेतदेव ।
स्वानन्द प्रति गमनेऽप्ययं सुमार्गः।
सञ्चिन्त्यं स्वमनसि तत्पदारविदं
स्थाप्याने स्तवनफलं नतीः करिष्ये ॥ ३.
गणेशदेवस्य माहात्म्यमेत-
द्यः श्रावयेद्वापि पठेच्च तस्य ।
क्लेशा लयं यान्ति लमेच्च शीघ्र
स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥
इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिम्नस्स्तोत्रं
॥सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=गणेशमहिमस्तोत्रम्&oldid=319881" इत्यस्माद् प्रतिप्राप्तम्