गणेशभुजङ्गम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
गणेशभुजङ्गम्
अज्ञातः
१९५३

॥ गणेशभुजङ्गम् ॥

रणत्क्षुद्रघण्टानिनादाभिरामं
चलताण्डवोद्दण्डवत्पद्मतालम् ।
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे॥१
ध्वनिध्वंसवीणालयोलासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् ।
गलद्दर्पर्सौगन्ध्यलोलिमालं
गणाधीशमीशानसूनुं तमीडे ॥२
प्रकाशज्जपारक्तरत्नप्रसून
प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे॥३
विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् ।


विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे॥४
उदञ्चद्भुजावल्लरीदृश्यमूलो
च्चलद्भॄलता विभ्रमभ्राजदक्षम् ।
मरुस्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे॥५
स्फुरन्निष्टुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
कलाबिन्दुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे॥६
यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् ।
परं परमोङ्कारमान्नायगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥७
चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।

नमोऽनन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो ॥८
इमं संस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।
गणेशप्रसादेन सिद्ध्यन्ति वाचो
गणेथे विभौ दुर्लभ किं प्रसन्ने ॥९
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीशङ्करभगवत कृतौ गणेशभुजङ्गस्तोत्रं सम्पूर्णम् ॥