गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०६६-०७०

विकिस्रोतः तः
← अध्यायाः ६१-६५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ६६-७०
[[लेखकः :|]]
अध्यायाः ७१-७५ →

क उवाच ।
शारदा रौद्रकेतुश्च रात्रौ देवान्तकं सुतम् ।
एकाकिनं निरीक्ष्यैनं नालिंग्यं च समूचतुः ॥१॥
आच्छादयन्तं वदनं व्रीडितं भृशविह्वलम् ।
अभाषमाणं कम्पन्तं वातयुक्तमिव द्रुमम् ॥२॥
पितोवाच ।
किमर्थं वदसे नैव स्वामवस्थां तु मूकवत् ।
ईप्सितं साधयिष्यामि यत्नात्त्रैलोक्यदुर्लभम् ॥३॥
क उवाच ।
पीत्वा वागमृतं तस्य सावधानमनाः सुतः ।
उवाच पितरं मातुर्निकटे निर्विशंकया ॥४॥
पुत्र उवाच ।
भवदाज्ञां गृहीत्वैव योद्धुं यातो विनायकम् ।
शरैराशीविषाकारैरसङ्ख्यैर्नाशिताः सुराः ॥५॥
प्रवर्तिता असृङ्नद्यो भग्ना सेना तु काश्यपी ।
तत एका महाकृत्या दरीवक्त्रा नभःस्पृशी ॥६॥
करालकेशी पाताल चरणा पर्वतस्तना।
आगता देवसेनाया रक्षणार्थं ममान्तिकम् ॥७॥
खड्गेन निहता सा तु विव्यथे नैव किंचन ।
निक्षिप्ता सर्वसेना मे तया तात दरीभगे ॥८॥
भक्षयन्त्येव सर्वाणि शस्त्राणि शरसंचयान् ।
सा मां भगे विनिक्षिप्य याता देवं विनायकम् । ॥९॥
स्निग्धत्वात्तद्भगस्याहं चलितः पतितो भुवि।
महान्धकारे न ज्ञातः पलाय्य गृहमागतः ॥२.६६.१०॥
स्नात्वा नदीजले तात व्रीडितोऽधोमुखस्ततः ।
क उवाच ।
एवं पुत्रवचः श्रुत्वा रौद्रकेतुर्जगाद तम् ॥११॥
उपायं ते वदाम्येकं न चिन्तां कर्तुमर्हसि ।
ततो मुहूर्तमालोक्य ददौ तस्मै महामनुम् ॥१२॥
अघोरस्य सबीजं तमुवाच जनकः पुनः ।
शिवं ध्यात्वा च संपूज्य कुर्वनुष्ठानमुत्तमम् ॥१३॥
होमं च तर्पणं विप्रभोजनं च दशांशतः ।
शिवे प्रसन्ने कुण्डाद्धि तुरंगो निःसरिष्यति ॥१४॥
तमारुह्य व्रज रणं जयं प्राप्स्यसि निश्चितम् !
क उवाच :
एवं पितुर्वचः श्रुत्वा प्राह पुत्रो मुदा च तम् ॥१५॥
उपदेशः कृतः सम्यग्विधिमस्य ब्रवीतु मे ।
ततो लोकं निवार्यैव जग्मतुर्ग्रहमध्यतः ॥१६॥
उभावारक्तवसनौ रक्तपुष्पाणि सन्नीय शिवं पुपूजतुस्तदा ॥१७॥
अनुष्ठानं बहुदिनं चक्रतुः परमादरात् ।
अनुष्ठाने समाप्ते तु कुण्डं चक्रतुरादरात् ॥१८॥
षट्कोणं लक्षणैर्युक्तं मेखलायोनिसंयुतम् ।
तत्राग्निं विधिवत्स्थाप्य पात्राणि च यथाविधि ॥१९॥
पंचप्रेतासनगतौ जुहुवुस्तौ हविस्तदा।
स्वजानुभागमांसानि छित्त्वा छित्त्वा च भक्तितः ॥२.६६.२०॥
असृग्घृतेन मांसेन तृप्तोऽभूत्पावकस्तदा।
दशांशहोमे जाते तु पुपूजे वह्निदेवताम् ॥२१॥
बलिदानं चकाराशु छित्त्वा पुत्रशिरस्तदा ।
तेन पूर्णाहुतिं चक्रे विससर्जाथ पावकम् ॥२२॥
ईश्वरस्य प्रसादेन पुत्रोऽस्य पूर्ववद्बभौ ।
ब्राह्मणान्भोजयामास तर्पणान्ते यथाविधि ॥२३॥
ततो रात्र्यां व्यतीतायामुदिते च दिवाकरे ।
ददर्श तुरगं कृष्णं स्निग्धांगं बलवत्तरम् ॥२४॥
मनोजवं हेषितेन कम्पयन्तं जगत्त्रयम् ।
पुपूज परया भक्त्या नीराज्यैनं यथाविधि ॥२५॥
अलंकृत्यालंकरणैर्मणिमुक्तामयैः शुभैः ।
नमस्कृत्य द्विजान्सम्यक्पितरं परिगृहय च ॥२६॥
आशिषोऽथ समारुहय तमश्वं स सुरान्तकः ।
शेषसेनां समादाय ययौ शेषं प्रकम्पयन् ॥२७॥
शस्त्रास्त्रैः कवचैः शूलैर्भाति सेना धनुःशरैः ।
आससाद रणस्तम्भं तथा सह सुरान्तकः ॥२८॥
क्रन्दत्सु सर्वसैन्येषु संत्रस्ता देववाहिनी ।
व्याप्ते तु राजसा व्योम्नि न प्राज्ञायत किंचन ॥२९॥
पुनरप्यागतो दैत्यः सद्यः सेनाविघातकः ।
सिद्धिसेनाचराश्चैव प्राद्रवन्दुःखिता भृशम् ॥२.६६.३०॥
दृष्ट्वा रणागतं तं तु सिद्धिसेना समुत्थिता ।
हेषाभिः सिंहनादैश्च नादयन्ती दिगन्तरम् ॥३१॥
ततः शस्त्रप्रहारैश्च विजघ्नुरितरेतरम् ।
सहस्व प्रहरामीति प्रबोध्य जघ्नुरोजसा ॥३२॥
भुवि जानुं विनिक्षिप्य शरानाशीविषोमपान् ।
आकर्णं धनुराकृष्य युयधुस्ते परस्परम् ॥३३॥
खेटानि चान्तरे कृत्वा युयुधुश्चापरे तदा ।
स्मृत्वा पूर्वप्रहारं च परिजघ्नुश्च केचन ॥३४॥
पूर्ववैरमनुस्मृत्य रिपूंश्चक्रे विरूपिणः ।
कोऽपि वीरश्रिया युक्तो रिपुं केशेषु चाग्रहीत् ॥३५॥
पार्ष्णिघातैर्मुष्टिघातैः पातयामास भूतले ।
कौचिन्मत्तौ शिरोघातं जघ्नतुरितरेतरम् ॥३६॥
ततो भग्नां दैत्यसेनां दृष्ट्वा स तु सुरान्तकः ।
अश्वं संप्रेषयामास सेनां सिद्धिविनिर्मिताम् ॥३७॥
अश्वहेषां समाकर्ण्य केचिन्मूर्छागता भुवि ।
पतिता अश्वचरणैश्चूर्णिताश्चापरेसुराः। ॥३८॥
त्रिशूलेन हताश्चान्ये खड्गेन च तथा परे ।
बाणजालैरनेकैश्च पातयामास वै सुरान् ॥३९॥
सर्वस्मिन्हन्यमाने तु स्वसैन्ये सिद्धयस्तदा ।
पलायनं समालम्ब्य ययुः सर्वा विनायकम् ॥२.६६.४०॥ (२९५७)
इति श्रीगणेशपुराणे क्रीडाखण्डे सिद्धिपराजयो नाम षट्षष्टितमोऽध्यायः ॥६६॥

क उवाच ।
स तज्ज्ञात्वा महाश्चर्यं चकार निजचेतसि ।
ततो विनायकः क्रोधात्सिंहारूढो रणोत्सुकः ॥१॥
स्वगर्जितेन च तदा गर्जयन्गगनं दिशः ।
कम्पयन्सर्वलोकानां मनांसि पर्वतानपि ॥२॥
ययौ वेगेन महता देवान्तकसमीपतः ।
प्रहस्य तमुवाचाथ दैत्यो देवान्तकस्तदा ।
दैत्य उवाच ।
कथं यातः शुष्कतालुर्नवनीतादनक्षमः ।
युद्धाय बाल न स्थेयं गच्छ मातुः स्तनं पिब ॥३॥
अदित्यां कश्यपाज्जातः कथं मूढ त्वमागतः ।
यतो देवान्तकेनाद्य योद्धुमिच्छसि बालक ॥४॥
कालो बिभेति मां दृष्ट्वा वृथा त्वं मर्तुमिच्छसि ।
अतिकोमलगात्रत्वाद्ग्रासमात्रं भविष्यसि ॥५॥
क उवाच ।
इति दैत्यवचः श्रुत्वा क्रोधसंरक्तलोचनः ।
विनायकः प्रहस्याह वमन्वक्त्राद्धुताशनम् ॥६॥
देव उवाच ।
क्षीबोऽसि मद्यपानेन प्रायो वा सन्निपातवान् ।
असंबद्धं युक्तिहीनं वल्गसे मूढभावतः ॥७॥
वह्निर्दहति सर्वं हि लघुर्वायुसमीरितः।
त्वद्वाक्यनुन्नस्त्वां हन्यां दैत्याधम न बुध्यसे ॥८॥
इदानीं त्यज बुद्धिं तां नान्तको विद्यते मम ।
त्वदर्थमवतीर्णोऽहं ब्रह्मभूतः सनातनः ॥९॥
स्थाणोर्वरस्य गर्वेण कृतं ते सर्वपीडनम् ।
अवधिं तस्य संप्राप्तं बुद्धिहीने न बुध्यसे ॥२.६७.१०॥
त्रैलोक्यपीडया पापं यज्जातं दुर्मते ।
अलं ते कत्थनेनाद्य दर्शयस्व स्वपौरुषम् ॥११॥
शक्तिपायोर्विनिर्गत्य कोत्वा वत्क्रं प्रदर्शयेत् ।
सहस्व प्रहरस्वाद्य यदि युद्धं त्वमिच्छसि ॥१२॥
श्वोभाविनं मृत्युमद्य मूढभावात्त्वमिच्छसि ।
क उवाच ।
एवमाभाष्य तं दैत्यं सज्यं चक्रे धनुः प्रभुः ॥१३॥
नरान्तकगतिं तस्य दातुमिच्छन्विनायकः ।
टणत्कारेण धनुषश्चकम्पे भुवनत्रयम् ॥१४॥
आकर्णं ज्यामथाकृष्य बाणं दैत्ये ससर्ज ह ।
दैत्येन शतधा भिन्नः स बाणः पतितो भुवि ॥१५॥
ततो दैत्यो धनुः सज्यं कृत्वा चिक्षेप सायकान् ।
धनुषस्तस्य शद्वेन विनेदुः पर्वता दिशः ॥१६॥
हुंकारेण च तान्बाणान्पातयामास विघ्नराट् ।
पुनर्विनायको बाणान्बहूंश्चिक्षेप दैत्यपे ॥१७॥
एकेन मुकुटं तस्य शरेण कर्णकुण्डले ।
भूमौ न्यपातयद्देवो बाहू द्वाभ्यां बिभेद च ॥१८॥
ललाटं सायकेनैव ततो दैत्यो रुषान्वितः ।
चचर्व दन्तान्नेत्रे च विस्फार्यान्यांशरान्बहून् ॥१९॥
छादयन्गगनं काष्ठा विससर्ज विनायकम् ।
निरास्यैंकेन बाणेन खमध्ये तान्विनायकः ॥२.६७.२०॥
स्वयं चक्रे मण्डपं स क्षणाद्बाणमयं विभुः ।
अन्धकारे घोरतरे युयुधाते परस्परम् ॥२१॥
शरवृष्ट्या बाणवृष्टिं निजघ्नतू रुषान्वितौ ।
शतशस्तौ निराकृत्य बाणवृष्टी उभावपि ॥२२॥
ततो दैत्यो महामंत्रं जप्त्वाऽष्टशतसंख्यया।
मंत्रयामास तेनाशु वारणास्त्रेण सायकम् ॥२३॥
तत्याजाथ प्रादुरासन्वारणाः कोटिशस्ततः ।
चतुर्दन्ता गिरिनिभा मेरुमंदरचूर्णिनः ॥२४॥
येषां मदवहा नद्यः प्रादुरासन्समंततः ।
येषां बृंहितमात्रेण नादितं भुवनत्रयम् ॥२५॥
यथा यथा धनानां वर्षासु जितेन महामुने ।
नाशयामासुरनिशं देवसैन्यानि ते गजाः ॥२६॥
धावतां पृष्ठलग्नास्ते गजा यान्ति दिशो दश ।
पादाघातैश्च हस्तैश्च दन्ताग्रैर्वीघारतिनः ॥२७॥
सेनायाः कदनं दृष्ट्वा सिंहास्त्रं प्राक्षिपद्विभुः ।
ततः सिंहाः प्रादुरासन्शतशोऽथ ॥२८॥
तेषां गर्जित शब्देन गजा निपतिता भुवि।
सिंहा विदारयामासुर्गजगण्डस्थलानि ते ॥२९॥
सिंहनादैर्बृंहितैश्च दैत्यशब्दैरनेकशः ।
त्रैलोक्यं कम्पितमभूद्देवाः सर्वे विसिस्मिरे ॥२.६७.३०॥
उड्डीयोड्डीय सिंहास्ते गजकुम्भेषु पेतिरे ।
एवं ते निहताः सर्वे करिणः सिंहसंचयैः ॥३१॥
विरेजुरिन्द्रनिहता वज्रणेव महीधराः ।
ततः सिंहा ययुर्दैत्यान्भक्षयन्तो दिशो दश ॥३२॥
निहते सर्वसैन्ये तु चितामाप सुरांतकः ।
अयं बालोऽपि बलवान्दृश्यते कश्यपात्मजः ॥३३॥
इदानीं दर्शयिष्येऽस्य यमस्य सदनं ध्रुवम् ।
एवमुक्त्वा पुनर्बाणं मन्त्रयामास दैत्यराट ॥३४॥
योजयामास धनुषि शार्दूलप्रसवं तदा ।
आकर्ण धनुराकृष्य मुमोच देववाहिनीम् ॥३५॥
बाणः स च ययौ शीघ्रं नादयन्गगनं दिशः ।
यत्पुंखवायुना भग्ना निपेतुर्वृक्षसंचयाः ॥३६॥
प्रादुरासन्ननेकाश्च ततः शार्दूलसंचयाः ।
सिंहांस्ते भक्षयामासु सिंहास्तेऽन्तर्हितास्ततः॥३७॥(२९९४)
इति श्रीगणेशपुराणे क्रीडाखण्डेऽस्त्रयुद्धं नाम सप्तषष्टितमोध्यायः ॥६७॥

क उवाच ।
ततो दैत्यो बाणयुगं मन्त्रयामास सादरम् ।
निद्रास्त्रेण तदा चैकं गन्धर्वास्त्रेण चापरम् ॥१॥
वामजानुं पुरः स्थाप्य ज्यामाकृष्य ससर्ज तौ।
तयोः शब्देन सहसा चकम्पे भुवनत्रयम् ॥२॥
एकः सैन्ये निपतितोऽपरो देवसमीपतः ।
ततस्ताला मृदंगाश्च गन्धर्वांप्सरसस्तथा ॥३॥
गाननृत्यानि चित्राणि पुरोऽपश्यद्विनायकः ।
पतितानि च शस्त्राणि न बुबोध करात्तदा ॥४॥
मोहितो मञ्जुलरवैः कर्तव्यं नाभ्यपद्यत ।
सैनिकाः सुषुपुः सर्वे निद्रास्त्रेण विमोहिताः ॥५॥
निशामुखे यथा बाला अव्यवस्थं हि शेरते ।
स्त्रियोऽपि चाथ ताः सर्वाः सुषुपुर्विगतत्रपाः ॥६॥
देवान्तकोऽपश्यदेवं जहर्ष च जगर्ज च ।
ततः संस्थापयामास गुल्मानि परितो बहु ॥७॥
देवसैन्यस्य महतो बली वीरयुतानि च ।
चक्रे कुण्डं त्रिकोणं च भूमिसाधनपूर्वकम् ॥८॥
असृक्कुम्भान्समानीय शतसंख्यान्प्रयत्नतः ।
स्नात्वा पद्मासनं चक्रे नानाप्रेतेषु सादरम् ॥९॥
दैत्यान्निहत्य शतशो मांसराशिं महत्तरम् ।
चकाराभिचरं दैत्यो वह्निं स्थाप्य यथाविधि ॥२.६८.१०॥
दिगम्बरो जहावाथ मांसानि मन्त्रपूर्वकम् ।
सहस्रे तु हुते पश्चाद्बलि पूर्णाहुतिं च यः ॥११॥
चकार कुण्डमध्ये सोऽपश्यच्छक्तिं क्षुधातुराम् ।
नरमांसानि तस्यै स ददौ पातुं च तान्घटान् ॥१२॥
अतृप्तां तां परिज्ञाय प्रेतानन्यानथार्पयत् ।
ततः सा बहिरायाता व्योमकेशी भयंकरा ॥१३॥
विशालगर्तनेत्राऽतिकरालवदनाऽरुणा ।
उवाच परमप्रीता नादयन्ती दिशो दश ॥१४॥
तृप्तास्मि रक्तमांसैस्ते न भयं विद्यते क्वचित् ।
तामुवाचाथ दैत्योऽपि पुपूजे भक्तिभावतः ॥१५॥
उपचारैः षोडशभिः प्रणिपातपुरःसरम् ।
ततो दिव्याम्बरधरो नानालंकारभूषितः ॥१६॥
देव्या अंकं समासाद्य जगर्ज बलवत्तरम् ।
सोड्डीय तेन सहिता नभस्येव स्थिताऽभवत् ॥१७॥
नानाशस्त्रधरा सोऽपि धनुर्बाणधरो बभौ ।
तामुवाच रौद्रकेतुपुत्रः परमहर्षितः ॥१८॥
कश्यपस्यात्मजो बालश्चञ्चलो बहुलं पुरा ।
इदानीमत्र किं तेन कर्तव्यं कुचरेण मे ॥१९॥
इदानीं सर्वसैन्यानि नाशयिष्ये तवाग्रतः ।
एवं ब्रुवति दैत्येन्द्रे काशिराजोऽशृणोद्वचः ॥२.६८.२०॥
ततो विनायकं राजा बोधयामास सादरम् ।
काशीराजोवाच ।
भूतभव्यभविष्यज्ञ कथं मायां न बुध्यसे ॥२१॥
गान्धर्वी दैत्यरचितां कथं सक्तोऽसि तत्र वै ।
देवान्तकेनाभिचरान्निर्मितां राक्षसीमिव ॥२२॥
सा सैन्यं नाशयिष्यति ते सावधानमना भव ।
क उवाच ।
एवं नृपवचः श्रुत्वा सावधानमना विभुः ॥२३॥
बुद्ध्वा तज्ज्ञानदृष्ट्यैव सर्वं मायामयं तदा ।
शरद्वयं विनिष्कृष्य मन्त्राभ्यां परिमन्त्र्य च ॥२४॥
घण्टास्त्रेण खगास्त्रेण श्रोत्राकर्षणसंभ्रमात् ।
विनायको मुमोचाथ तौ बाणौ वेगवत्तरौ ॥२५॥
गर्जन्तौ घनवद्रुक्मपुंखै मारुतवेगिनौ ।
सहसाच्छादयन्तौ च सहस्रकरमण्डलम् ॥२६॥
घण्टानादः समभवन्महान्सर्वविमोहनः ।
ततो घण्टास्वनाञ्श्रुत्वा प्रोत्तस्थुः सर्वसैनिकाः ॥२७॥
सिद्धयः सर्ववीराश्च युयुधुः शत्रपाणयः।
अपरस्तस्य सैन्येषु मुक्तो बाणः खगास्त्रतः ॥२८॥
ततः खगाः प्रादुरासन्नानारूपा महौजसः ।
पक्षवातेन तेषां तद्गान्धर्वं लयमागतम् ॥२९॥
अन्धकारं यथा सूर्यसारथेरुदयान्मुने ।
ततस्ते पक्षिणः सर्वे बभक्षुर्दैत्यसैनिकान् ॥२.६८.३०॥
पक्षाघातहताः केचित्केचिच्चञ्च्वग्रविक्षताः ।
केचिद्भीत्यैव पतिता दैत्याः प्राणान्विहाय च ॥३१॥
हाहाकारो महानासीद्दैत्यसैन्येषु सर्वशः ।
ततो देवान्तको रोषात्खड्गास्त्रं प्राहिणोत्तदा ॥३२॥
तस्य ध्वनिं समाकर्ण्य चुक्षुभे सैन्यसागरः ।
दिग्गजाश्च ततः खड्गा असंख्याता विनिःसृताः ॥३३॥
वह्निमन्तश्च संघट्टात्सेनयोरुभयोरपि ।
अग्निदग्धास्तदा देवा निपेतुर्धरणीतले ॥३४॥
खगाश्च निहताः केचित्केचिद्दग्धास्तथाग्निना ।
अपरे ययुरन्तर्द्धि दिशश्चाथ चकाशिरे ॥३५॥
असंख्यखड्गप्रभया सेनाचक्षुर्महोमुषा ।
खड्गवृष्ट्या विनिहता देवाः पेतुर्धरातले ॥३६॥
केषाञ्चिद्बाहवच्छिन्नाः केषाञ्चिन्मस्तकाः कराः ।
जठरे जानुभागे च पृष्ठभागेऽपरा हताः ॥३७॥
निपेतुर्देवपुंजेषु मृतेषु च गतासवः ।
अष्टसिद्धिकृताः सर्वाः सेना एवं विनाशिताः ॥३८॥
असृङनद्यो दश दिशो याताः प्रेतवहास्तदा।
विनायकस्ततो दृष्ट्वा दैत्यस्याद्भुतविक्रमम् ॥३९॥
बाणं निष्काश्य सुदृढं वज्रास्त्रेणाभिमन्त्र्य च ।
आक्रन्दनेन महता दैत्यसैन्ये मुमोच तम् ॥२.६८.४०॥
पर्वताश्च द्रुमास्तस्य शब्देन पतिता भुवि ।
तदस्त्रानलसंयोगाद्दिग्दाहः समजायत ॥४१॥
देदीप्यमानं सहसाच्छादयन्रविमण्डलम् ।
पक्षिणो निहता दग्धास्तेजसा तस्य केचन ॥४२॥
खण्डितं तेन सहसा खड्गास्त्रं तत्सहस्रशः ।
निर्ददाह तदा दैत्यसेनां वज्रैरनेकशः ॥४३॥
सहस्रशो निहन्यन्ते एकया वज्रधारया।
यतो यतोऽगमद्दैत्यस्तत्र तत्रापतच्च तत् ॥४४॥
चुचूर्ण मस्तकान्पादान्हस्तान्स्कन्धानुरूनपि ।
धरां भित्त्वा गता दैत्यास्तानप्यथ जघान तत् ॥४५॥
एवं सर्वे हता दैत्या वज्रैस्तीक्ष्णः सहस्रशः ।
ततो देवान्तकं जग्मुस्तानि वज्राणि सर्वशः ॥४६॥
सोऽपि बाणं समादाय मन्त्रयामास यत्नतः ।
रौद्रास्त्रेणाथ संयोज्य धनुषः कर्षणेन तम् ॥४७॥
ससर्ज परसैन्येषु शिवनामांकितं शुभम् ।
नादयन्गगनं सोऽथ दिशश्च विदिशोऽपि च ॥४८॥
वमन्नग्निकणान्दिक्षु प्रलयानलसन्निभः ।
भूलोका देवलोकाश्च भयाद्याता दिशो दश ॥४९॥
विनायकस्य सैन्येषु महाकोलाहलो ह्यभूत् ।
तस्मिन्निपतिते बाणे पुरुषो घोरदर्शनः ॥२.६८.५०॥
निःसृतो भीषणमुखस्त्रैलोक्यं ग्रासयन्निव ।
जटिलो दीर्घहस्तश्च दीर्घपादो महोदरः ॥५१॥
धराधरो व्योमगोष्ठो गिरिजिह्वो भयानकः ।
वज्रास्त्रं भक्षयामास क्षणात्स पुरुषो महान् ॥५२॥
विनायकं हन्तुकामो ययौ तस्यान्तिकं क्षणात् ।
ततो विनायकः शीघ्रं ब्रह्मास्त्रं समायोजयत् ॥५३॥
मन्त्रेण शतसंख्येन सायके वेगवत्तरे ।
आकर्णकर्षणाद्देवो मुमोच सहसा च तम् ॥५४॥
चकम्पे तस्य शब्देन तारेण भुवनत्रयम् ।
विस्फुलिंगैर्दिशो दग्धा न प्राज्ञायत किंचन ॥५५॥
ततोऽपि पुरुषो जज्ञे तादृशोऽतिभयानकः ।
तावुभौ युद्धतो व्योम्नि परस्परजयैषिणौ ॥५६॥
नानाविधं मल्लयुद्धं चक्रतुस्तौ महाबलौ ।
क्षणेनान्तर्हितो चोभौ न दृश्यतेऽथ कुत्रचित् ॥५७॥ (३०५१)
इति श्रीगणेशपुराणे क्रीडाखंडेऽस्त्रयुद्धं नामाष्टषष्टितमोघ्यायः ॥६८॥

क उवाच ।
ततो देवान्तकोऽतीव विस्मितोऽतर्कयत्तदा।
यथा यथा मया माया क्रियतेऽस्य निवृत्तये ॥१॥
तथा तथाप्ययं बालो दर्शयत्येव पौरुषम् ।
कदायं निधनं यायात्कदा स्वप्स्ये गतश्रमः ॥२॥
इत्येवं चिन्तयाविष्टो धनुः सज्यमथाकरोत् ।
अभिमन्त्र्य शरं घोरं विससर्ज विनायके ॥३॥
स सायको बाणवर्षमनन्तं कृतवान्विभौ।
शक्तिं च निर्ममे घोरां त्रैलोक्यग्राससाहसाम् ॥४॥
ददर्श विघ्नराजस्ता तदंके दैत्यपुंगवम् ।
वर्षन्तं शरजालानि तीक्ष्णानि सुबहून्यपि ॥५॥
ततोऽष्टसिद्धयः शोघ्रमुड्डीय बलवत्तरम् ।
दध्रुस्तां सहसा शक्तिमानिन्युस्तां विनायकम् ॥६॥
आनीयमाना सा हस्तान्निःसृत्याथ पलायिता ।
रोषात्ताभिर्दैत्यपतिरानायि स कचग्रहात् ॥७॥
अणिमानं ततो दैत्यो जघान मुष्टिना दृढम्।
मुष्टिघातं समासाद्य मूर्छिता निपपात ह ॥८॥
लघिमा गरिमा चाथ वशिमा तं महासुरम् ।
यावल्लत्ताप्रहारैस्तु निजघ्नुस्तावदेव हि ॥९॥
दैत्येन विधृताः वेगाच्चरणेषु पृथक्पृथक् ।
यावदास्फालयेत्पृथ्व्यां निःसृतास्तावदेव ताः ॥२.६९.१०॥
प्राकाम्यं चैव भूतिश्च जघ्नतुस्तं ततो बलात् ।
पपात भूतले दैत्यो वमन्नग्निं मुखात्ततः ॥११॥
क्षणाल्लभ्य तत संज्ञामारुरोह हयं दृढम् ।
शस्त्रपाणिर्वायुवेगो निजघान विनायकम् ॥१२॥
दृढासिघाताद्देवोऽथ किंचिन्मूर्च्छामवाप्तवान् ।
निमेषात्सुविधानोऽ भूदधावद्दैत्यनायकम् ॥१३॥
हिरण्यकशिपुं विष्णुर्यथा वृत्रं शचीपतिः ।
शरं च कमलं पाशमंकुशं च चतुःकरैः ॥१४॥
बिभ्राणः शुशुभे वीरश्रिया परमया ज्वलन् ।
गर्जित्वा घनवद्देवो जघान दैत्यपुंगवम् ॥१५॥
चतुर्भिरायुधैर्वेगान्न चचाल तथापि सः ।
आश्चर्यं परमं प्राप दृष्टवा शस्त्रं वृथार्थताम् ॥१६॥
वज्रात्सारतरं मेने दैत्यदेहं विनायकः ।
ततो देवो राक्षसस्य धूम्राक्ष्यस्य महायुधम् ॥१७॥
वज्रं संचूर्णयन्सूर्यमण्डलादागतं तु यत् ।
तदादायाहनत्तेन दैत्यं तच्छतधाऽभवत् ॥१८॥
न रोमापि चचालास्य तदप्याश्चर्यमुत्तमम् ।
ततो नानाशस्त्रघातैर्जघ्नतुस्तौ परस्परम् । ।१९॥
मस्तके पृष्ठभागे च हृदये बाहुमण्डले ।
ततो शस्त्रविघातेन जातो वह्निर्वसुन्धराम् ॥२.६९.२०॥
ददाह न च तौ भीतौ युद्धमेवान्वपद्यतम् ।
निशीथे तमसा व्याप्ते विरामं न समीयतुः ॥२१॥
ततः कृत्रिमदीप्त्या तौ परस्परमयुध्यताम् ।
ततो मायां रौद्रकेतुश्चक्रे सुरविमोहिनीम् ॥२२॥
अदितिं सुन्दरां कृत्वा दैत्यहस्ते न्यवेशयत् ।
पद्मनेत्रां पीनकुचां कुङ्कुमारक्तमालिकाम् ॥२३॥
मुक्तहारां सुवलयां दिव्यांशुकविराजिताम् ।
लावण्यलहरीं रुक्मविलसद्दिव्यकञ्चुकाम् ॥२४॥
विनायकं निरीक्ष्यैव रुरोद दैत्यहस्तगा।
धाव धावेति तं प्राह त्रासिताऽहं किमीक्ष्यसे ॥२५॥
एवं ब्रुवत्या दैत्योऽस्याश्चिच्छेद कञ्चुकीं बलात् ।
अंशुकं च चकर्षास्या मदेनाविष्टचेतसा ॥२६॥
उच्चैरुवाच देवं सा क्व गता पुरुषार्थता ।
लोकलज्जाभयान्मां त्वं निःस्नेहाशु विमोचय ॥२७॥
विनायको निरीक्ष्यैतां बाष्पकण्ठो रुषान्वितः।
न सस्मार विचारं स शस्त्राणि जगलुः करात् ॥२८॥
शुशोच मम मातेयं कथमस्य करे गता।
धिग्जन्म यस्य जननि गताऽवस्थां दुरत्ययाम् ॥२९॥
देवानां जननी चैव संप्राप्ता दुष्टसंगतिम् ।
काशिराजोऽपि तं दृष्ट्वा शोचन्तं गणनायकम् ॥२.६९.३०॥
स्वयं शुशोच बहुधा लोकोऽपि नगरे स्थितः ।
ततो देवान्तको देवं जगर्हे बहुधा तदा ॥३१॥
धिग्जन्म पौरुषं तेऽद्य न प्राणं त्यजसे कथम् ।
निर्लज्जोऽसि मुखं लोके दर्शयस्येव योऽधुना ॥३२॥
त्वत्समीपं हनिष्येऽस्याः शिरः कायात्खलाधुना।
क उवाच ।
इति तं निष्ठुरं वाक्यं श्रुत्वा देवो विनायकः ॥३३॥
तर्कयामास मनसि सत्यमेव वदत्ययम् ।
प्राणत्यागाय किं कार्यं विषं वा पाशबन्धनम् ॥३४॥
उदरे शस्त्रसंघातः कार्यो वा मृत्युहेतवे ।
इत्थं यावच्चिन्तयते दुःखशोकसमन्वितः ॥३५॥
तावदाकाशवाणीं स शुश्राव च विनायकः ।
सोवाच ।
मायेयं रचिता देव दैत्येन दुष्टबुद्धिना ॥३६॥
अवधेहि रणं यत्तो भूत्वा जहि निजं रिपुम् ।
ततः स सावधानोऽभूज्ज्ञात्वा मायामयीं तु ताम् ॥३७॥
जहर्ष च महाबुद्धिर्दैत्यं हन्तुं प्रचक्रमे ।
स्मृत्वा च तद्वरं शम्भुदत्तं तस्मै दुरात्मने।।३८॥
उष:कालं विना सर्वशस्त्रास्त्राणि वृथा त्वयि ।
एवं तस्य वरं ज्ञात्वा प्रातर्युद्धाय निर्ययौ ॥३९॥
दैत्यौऽपि पुरतोऽपश्यद्युद्धान्ते तं विनायकम् ।
आरक्तनयनं भ्राजन्मुकुटं कुण्डलोज्वलम् ॥२.६९.४०॥
दन्तप्रकाशरुचिरं मुक्तादामविभूषितम् ।
दिव्याम्बरं सुधामानं व्योमस्पृक्पुष्करं विभुम् ॥४१॥
दृष्ट्वा देवान्तको रूपं बिभाय च विसस्मरे ।
अर्द्धं नरशरीरं किमर्द्धं गजसमं परम् ॥४२॥ (३०९३)
इति श्रीगणेशपुराणे क्रीडाखण्डे एकोणसप्ततितमोध्यायः ॥६९॥

क उवाच ।
एवं वदति यावत्स भयभ्रान्तः सुरान्तकः ।
तावद्देवो दधारैनमुत्संगे लघुबालवत् ॥१॥
कृत्वा पद्मासनं चारु गणेशः स्वप्रभावतः ।
उवाच चैनं दैत्येन्द्रं वरं स्मर निजं शुभम् ॥२॥
स दैत्यो रदनं चास्य धृत्वा हस्तद्वयेन ह ।
दोलयामास देहं स्वमन्तरिक्षे मुहुर्मुहुः ॥३॥
यावत्पपात भूपृष्टे भंक्त्वा दन्तं सुरान्तकः ।
तावद्दधार तं देवः स्वदन्तं लाघवाद्विभुः । ॥४॥
अहनत्तेन दन्तेन मस्तके तं सुरान्तकम् ।
जगर्ज च महारावैर्गर्जयन्विदिशो दिशः ॥५॥
चालयन्पृथिवीं सर्वां पातालान्यखिलानि च ।
द्विजाघातेन शतधाऽकारि देहोऽस्य तत्क्षणात् ॥६॥
असृग्वृष्टिः पपाताशु गगनान्मेघवृष्टिवत् ।
उत्पातं मेनिरे लोकाः सर्वे भूतलवासिनः ॥७॥
दैत्यदेहगतं ज्योतिस्तं विवेश विनायकम् ।
पश्यतां सर्वदेवानां प्रधनालोकितं पुनः ॥८॥
देहस्तु निपपातास्य धरापृष्टे त्रियोजनम् ।
चूर्णयन्वृक्षसंघातान्पर्वतान्पादपैर्युतान् ॥९॥
एवं दृष्ट्वा गतिं तस्य सैनिकाश्च दिशो दश ।
याताश्च कतिचिन्नाशं प्राप्तास्तद्देहपाततः ॥२.७०.१०॥
मुमुचुः पुष्पवर्षं ते देवाः स्वस्थानमागताः ।
देवदुन्दुभयो नेदुर्नृपदुन्दुभिनिस्वनैः॥११॥
दिशश्च विमला आसन्ववुर्वाताः सुखावहा ।
तेजांसि वह्नेर्लोकानां प्रसन्नानि तदाऽभवन् ॥१२॥
प्रतिकूलवहा नद्य आसन्सन्मार्गगास्तथा ।
ततः शक्रादयो देवा मुनयस्तं पुपूजिरे॥१३॥
तुष्टुवुः परया भक्त्या देवदेवं विनायकम् ।
विमोचिता वयं बन्धाद्देवान्तककृताद्विभो ॥१४॥
उपेन्द्र इव देवेन्द्र कार्यं यस्मात्कृतं त्वया।
उपेन्द्र इति नाम्ना त्वं ख्याति लोके गमिष्यसि ॥१५॥
वयं स्वस्वाधिकारेषु निरातंका वसामहे ।
स्वाहास्वधावषट्कारा भविष्यन्ति गृहे गृहे ॥१६॥
एवमुक्त्वा नमस्कृत्य देवं ते च प्रदक्षिणम् ।
अनुज्ञाता ययुः सर्वं स्वं स्वं स्थानं मुदान्विताः ॥१७॥
मुनयश्च तदा देवैर्हृषीकेशेति नाम च ।
कृत्वा नत्वा ययुः स्वं स्वमाश्रमं हर्षनिर्भराः ॥१८॥
ततः सर्वे धराधीशाः संपूज्य च प्रणम्य च।
ऊचुर्विनायकं देवमुद्धृता धरणी त्वया ॥१९॥
दैत्यभार भराक्रांता तस्मात्त्वं धरणीधरः ।
इत्युक्त्वा ते गताः स्वस्वपत्तनानि तदाज्ञया ॥२.७०.२०॥
ततः पश्चात्पश्यति स्म काशिराजो विनायकम् ।
सिंहारूढं बालरूपं क्रीडन्तं बालकैः सह ॥२१॥
बालोऽपि तं नृपं दृष्ट्वा लिलिंग परमादरात् ।
उभावानन्दभरितौ मुंचतोऽश्रूणि नेत्रतः ॥२२॥
तत ऊचे नृपो देवं महद्भाग्यं ममोदितम् ।
ब्रह्मादीनामगम्यं यत्परं ब्रह्म सनातनम् ॥२३॥
तन्मे दृग्गोचरं नित्यं पूर्वपुण्यफलोदयात् ।
विश्वस्य कारणानां च कारणं तद्विवर्जितम् ॥२४॥
वेदान्तवेद्यं सज्जोतिर्ज्योतिषामपि भास्वरम् ।
नानारूपमरूपं यद्बालरूपेण मे गृहे ॥२५॥
क्रीडते स्वेच्छया पृथ्वीभारहारि मनोहरम् ।
क उवाच ।
एवं श्रुत्वा स्तुतिं तस्य प्रमृज्याश्रूणि विघ्नराट् ॥२६॥
उवाच न क्षणं त्वत्तो यामि दूरं कदाचन ।
ततो राजा पुपूजैनमुपचारैरनेकशः ॥२७॥
ततो वादित्रनिर्घोषैर्बन्दिशब्दैर्विमिश्रितैः ।
सुरान्तकवधाद्धर्षयुक्तैः सेनाचरैः सह ॥२८॥
विनायकं बालरूपं स्तुवद्भि स्वपुरं ययौ ।
विसृज्य सर्वलोकांश्च दत्त्वा वासांसि चैकशः ॥२९॥
ताम्बूलानि च केषांचित्पुरस्कृत्य विनायकम् ।
विवेश स्वगृहं रम्यं हर्षनिर्भरमानसः ॥२.७०.३०॥ (३१२३)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते पुरप्रवेशो नाम सप्ततितमोऽध्यायः ॥७०॥